Chapter- 8
श्रीशौनक उवाच
सूत जीव चिरं साधो वद नो वदतां वर ।
तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥
आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः ।
यः कल्पान्ते ह्युर्वरितो येन ग्रस्तमिदं जगत् ॥
स वा अस्मत्कुलोत्पन्नः कल्पेऽस्मिन्भार्गवर्षभः ।
नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥
एक एवार्णवे भ्राम्यन्ददर्श पुरुषं किल ।
वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम् ॥
एष नः संशयो भूयान्सूत कौतूहलं यतः ।
तं नश्छिन्धि महायोगिन्पुराणेष्वपि सम्मतः ॥
सूत उवाच
प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः ।
नारायणकथा यत्र गीता कलिमलापहा ॥
प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् ।
छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥
बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः ।
बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् ॥
कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये ।
अग्न्यर्कगुरुविप्रात्मस्वर्चयन्सन्ध्ययोर्हरिम् ॥
सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः ।
बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥
एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् ।
आराधयन्हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥
ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च येऽपरे ।
नृदेवपितृभूतानि तेनासन्नतिविस्मिताः ॥
इत्थं बृहद्व्रतधरस्तपःस्वाध्यायसंयमैः ।
दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥
तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः ।
व्यतीयाय महान्कालो मन्वन्तरषडात्मकः ॥
एतत्पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन्किलान्तरे ।
तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् ॥
गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ ।
मुनये प्रेषयामास रजस्तोकमदौ तथा ॥
ते वै तदाश्रमं जग्मुर्हिमाद्रेः पार्श्व उत्तरे ।
पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥
तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् ।
पुण्यद्विजकुलाकीऋनं पुण्यामलजलाशयम् ॥
मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् ।
मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥
वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् ।
सुमनोभिः परिष्वक्तो ववावुत्तम्भयन्स्मरम् ॥
उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः ।
गोपद्रुमलताजालैस्तत्रासीत्कुसुमाकरः ॥
अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकैः ।
अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥
हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्कराः ।
मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥
ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः ।
मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ॥
सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा ।
मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥
क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् ।
भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥
इतस्ततो भ्रमद्दृष्टेश्चलन्त्या अनु कन्दुकम् ।
वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥
विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः ।
सर्वं तत्राभवन्मोघमनीशस्य यथोद्यमः ॥
त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने ।
दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥
इतीन्द्रानुचरैर्ब्रह्मन्धर्षितोऽपि महामुनिः ।
यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥
दृष्ट्वा निस्तेजसं कामं सगणं भगवान्स्वराट् ।
श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समगात्परम् ॥
तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः ।
अनुग्रहायाविरासीन्नरनारायणो हरिः ॥
तौ शुक्लकृष्णौ नवकञ्जलोचनौ ।
चतुर्भुजौ रौरववल्कलाम्बरौ ॥
पवित्रपाणी उपवीतकं त्रिवृत् ।
कमण्डलुं दण्डमृजुं च वैणवम् ॥
पद्माक्षमालामुत जन्तुमार्जनं ।
वेदं च साक्षात्तप एव रूपिणौ ॥
तपत्तडिद्वर्णपिशङ्गरोचिषा ।
प्रांशू दधानौ विबुधर्षभार्चितौ ॥
ते वै भगवतो रूपे नरनारायणावृषी ।
दृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्गेन दण्डवत् ॥
स तत्सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः ।
हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥
उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव ।
नमो नम इतीशानौ बभाशे गद्गदाक्षरम् ॥
तयोरासनमादाय पादयोरवनिज्य च ।
अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥
सुखमासनमासीनौ प्रसादाभिमुखौ मुनी ।
पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥
श्रीमार्कण्डेय उवाच
किं वर्णये तव विभो यदुदीरितोऽसुः ।
संस्पन्दते तमनु वाङ्मनैन्द्रियाणि ॥
स्पन्दन्ति वै तनुभृतामजशर्वयोश्च ।
स्वस्याप्यथापि भजतामसि भावबन्धुः ॥
मूर्ती इमे भगवतो भगवंस्त्रिलोक्याः ।
क्षेमाय तापविरमाय च मृत्युजित्यै ॥
नाना बिभर्ष्यवितुमन्यतनूर्यथेदं ।
सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥
तस्यावितुः स्थिरचरेशितुरङ्घ्रिमूलं ।
यत्स्थं न कर्मगुणकालरजः स्पृशन्ति ॥
यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ।
ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥
नान्यं तवाङ्घ्र्युपनयादपवर्गमूर्तेः ।
क्षेमं जनस्य परितोभिय ईश विद्मः ॥
ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः ।
कालस्य ते किमुत तत्कृतभौतिकानाम् ॥
तद्वै भजाम्यृतधियस्तव पादमूलं ।
हित्वेदमात्मच्छदि चात्मगुरोः परस्य ॥
देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं ।
विन्देत ते तर्हि सर्वमनीषितार्थम् ॥
सत्त्वं रजस्तम इतीश तवात्मबन्धो ।
मायामयाः स्थितिलयोदयहेतवोऽस्य ॥
लीला धृता यदपि सत्त्वमयी प्रशान्त्यै ।
नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥
तस्मात्तवेह भगवन्नथ तावकानां ।
शुक्लां तनुं स्वदयितां कुशला भजन्ति ॥
यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं ।
लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥
तस्मै नमो भगवते पुरुषाय भूम्ने ।
विश्वाय विश्वगुरवे परदैवताय ॥
नारायणाय ऋषये च नरोत्तमाय ।
हंसाय संयतगिरे निगमेश्वराय ॥
यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः ।
सन्तं स्वकेष्वसुषु हृद्यपि दृक्पथेषु ॥
तन्माययावृतमतिः स उ एव साक्षाद् ।
आद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥
यद्दर्शनं निगम आत्मरहःप्रकाशं ।
मुह्यन्ति यत्र कवयोऽजपरा यतन्तः ॥
तं सर्ववादविषयप्रतिरूपशीलं ।
वन्दे महापुरुषमात्मनिगूढबोधम् ॥