Chapter- 6

श्रीशुक उवाच
अथ ब्रह्मात्मजैः देवैः प्रजेशैरावृतोऽभ्यगात् ।
भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः ॥

इन्द्रो मरुद्भिर्भगवानादित्या वसवोऽश्विनौ ।
ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः ॥

गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः ।
ऋषयः पितरश्चैव सविद्याधरकिन्नराः ॥

द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः ।
वपुषा येन भगवान्नरलोकमनोरमः ।
यशो वितेने लोकेषु सर्वलोकमलापहम् ॥

तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः ।
व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् ॥

स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो युदूत्तमम् ।
गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥

श्रीदेवा ऊचुः ।
नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः ।
यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ॥

त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं ।
व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः ॥
नैतैर्भवानजित कर्मभिरज्यते वै ।
यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥

शुद्धिर्नृणां न तु तथेड्य दुराशयानां ।
विद्याश्रुताध्ययनदानतपःक्रियाभिः ॥
सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध ।
सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः ।
क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः ॥
यः सात्वतैः समविभूतय आत्मवद्भिर् ।
व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ॥

यस्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ ।
त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा ॥
अध्यात्मयोग उत योगिभिरात्ममायां ।
जिज्ञासुभिः परमभागवतैः परीष्टः ॥

पर्युष्टया तव विभो वनमालयेयं ।
संस्पार्धिनी भगवती प्रतिपत्नीवच्छ्रीः ॥
यः सुप्रणीतममुयार्हणमाददन्नो ।
भूयात्सदाङ्घ्रिरशुभाशयधूमकेतुः ॥

केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको ।
यस्ते भयाभयकरोऽसुरदेवचम्वोः ॥
स्वर्गाय साधुषु खलेष्वितराय भूमन् ।
पदः पुनातु भगवन्भजतामघं नः ॥

नस्योतगाव इव यस्य वशे भवन्ति ।
ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः ॥
कालस्य ते प्रकृतिपूरुषयोः परस्य ।
शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥

अस्यासि हेतुरुदयस्थितिसंयमानाम् ।
अव्यक्तजीवमहतामपि कालमाहुः ॥
सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः ।
कालो गभीररय उत्तमपूरुषस्त्वम् ॥

त्वत्तः पुमान्समधिगम्य ययास्य वीर्यं ।
धत्ते महान्तमिव गर्भममोघवीर्यः ॥
सोऽयं तयानुगत आत्मन आण्डकोशं ।
हैमं ससर्ज बहिरावरणैरुपेतम् ॥

तत्तस्थूषश्च जगतश्च भवानधीशो ।
यन्माययोत्थगुणविक्रिययोपनीतान् ॥
अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो ।
येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म ॥

स्मायावलोकलवदर्शितभावहारि ।
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ॥
पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर् ।
यस्येन्द्रियं विमथितुं करणैर्न विभ्व्यः ॥

विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः ।
पादावनेजसरितः शमलानि हन्तुम् ॥
आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गैस् ।
तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥

श्रीबादरायणिरुवाच ।
इत्यभिष्टूय विबुधैः सेशः शतधृतिर्हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः ॥

श्रीब्रह्मोवाच ।
भूमेर्भारावताराय पुरा विज्ञापितः प्रभो ।
त्वमस्माभिरशेषात्मन्तत्तथैवोपपादितम् ॥

धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया ।
कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥

अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम् ।
कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथाः ॥

यानि ते चरितानीश मनुष्याः साधवः कलौ ।
श‍ृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः ॥

यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।
शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥

नाधुना तेऽखिलाधार देवकार्यावशेषितम् ।
कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥

ततः स्वधाम परमं विशस्व यदि मन्यसे ।
सलोकाल्लोकपालान्नः पाहि वैकुण्ठकिङ्करान् ॥

श्रीभगवानुवाच ।
अवधारितमेतन्मे यदात्थ विबुधेश्वर ।
कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः ॥

तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।
लोकं जिघृक्षद्रुद्धं मे वेलयेव महार्णवः ॥

यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।
गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्ष्यति ॥

इदानीं नाश आरब्धः कुलस्य द्विजशापजः ।
यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ ॥

श्रीशुक उवाच
इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम् ।
सह देवगणैर्देवः स्वधाम समपद्यत ॥

अथ तस्यां महोत्पातान्द्वारवत्यां समुत्थितान् ।
विलोक्य भगवानाह यदुवृद्धान्समागतान् ॥

श्रीभगवानुवाच ।
एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः ।
शापश्च नः कुलस्यासीद्ब्राह्मणेभ्यो दुरत्ययः ॥

न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः ।
प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् ॥

यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोदुराट् ।
विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम् ॥

वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन्सुरान् ।
भोजयित्वोषिजो विप्रान्नानागुणवतान्धसा ॥

तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै ।
वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् ॥

श्रीशुक उवाच
एवं भगवतादिष्टा यादवाः कुरुनन्दन ।
गन्तुं कृतधियस्तीर्थं स्यन्दनान्समयूयुजन् ॥

तन्निरीक्ष्योद्धवो राजन्श्रुत्वा भगवतोदितम् ।
दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णमनुव्रतः ॥

विविक्त उपसङ्गम्य जगतामीश्वरेश्वरम् ।
प्रणम्य शिरिसा पादौ प्राञ्जलिस्तमभाषत ॥

श्रीउद्धव उवाच
देवदेवेश योगेश पुण्यश्रवणकीर्तन ।
संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्ष्यते भवान् ।
विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः ॥

नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव ।
त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ॥

तव विक्रीडितं कृष्ण नृनां परममङ्गलम् ।
कर्णपीयूषमासाद्य त्यजन्त्यन्यस्पृहां जनाः ॥

शय्यासनाटनस्थान स्नानक्रीडाशनादिषु ।
कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेम हि ॥

त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताः ।
उच्छिष्टभोजिनो दासास्तव मायां जयेम हि ॥

वातवसना य ऋषयः श्रमणा ऊर्ध्रमन्थिनः ।
ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासीनोऽमलाः ॥

वयं त्विह महायोगिन्भ्रमन्तः कर्मवर्त्मसु ।
त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥

स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च ।
गत्युत्स्मितेक्षणक्ष्वेलि यन्नृलोकविडम्बनम् ॥

श्रीशुक उवाच
एवं विज्ञापितो राजन्भगवान्देवकीसुतः ।
एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ॥