Chapter- 4

श्रीराजोवाच ।
यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः ।
चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥

श्रीद्रुमिल उवाच
यो वा अनन्तस्य गुनाननन्ताननुक्रमिष्यन्स तु बालबुद्धिः ।
रजांसि भूमेर्गणयेत्कथञ्चित्कालेन नैवाखिलशक्तिधाम्नः ॥

भूतैर्यदा पञ्चभिरात्मसृष्टैः ।
पुरं विराजं विरचय्य तस्मिन् ॥
स्वांशेन विष्टः पुरुषाभिधानम् ।
अवाप नारायण आदिदेवः ॥

यत्काय एष भुवनत्रयसन्निवेशो ।
यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि ॥
ज्ञानं स्वतः श्वसनतो बलमोज ईहा ।
सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥

आदावभूच्छतधृती रजसास्य सर्गे ।
विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः ॥
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य ।
इत्युद्भवस्थितिलयाः सततं प्रजासु ॥

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां ।
नारायणो नर ऋषिप्रवरः प्रशान्तः ॥
नैष्कर्म्यलक्षणमुवाच चचार कर्म ।
योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥

इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति ।
कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् ॥
गत्वाप्सरोगणवसन्तसुमन्दवातैः ।
स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥

विज्ञाय शक्रकृतमक्रममादिदेवः ।
प्राह प्रहस्य गतविस्मय एजमानान् ॥
मा भैर्विभो मदन मारुत देववध्वो ।
गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥

इत्थं ब्रुवत्यभयदे नरदेव देवाः ।
सव्रीडनम्रशिरसः सघृणं तमूचुः ॥
नैतद्विभो त्वयि परेऽविकृते विचित्रं ।
स्वारामधीरनिकरानतपादपद्मे ॥

त्वां सेवतां सुरकृता बहवोऽन्तरायाः ।
स्वौको विलङ्घ्य परमं व्रजतां पदं ते ॥
नान्यस्य बर्हिषि बलीन्ददतः स्वभागान् ।
धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥

क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैष्णान् ।
अस्मानपारजलधीनतितीर्य केचित् ॥
क्रोधस्य यान्ति विफलस्य वशं पदे गोर् ।
मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥

इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः ।
दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥

ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः ।
गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥

तानाह देवदेवेशः प्रणतान्प्रहसन्निव ।
आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥

ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः ।
उर्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥

इन्द्रायानम्य सदसि श‍ृण्वतां त्रिदिवौकसाम् ।
ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः ॥

हंसस्वरूप्यवददच्युत आत्मयोगं ।
दत्तः कुमार ऋषभो भगवान्पिता नः ॥
विष्णुः शिवाय जगतां कलयावतिर्णस् ।
तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥

गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये ।
क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् ॥
कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे ।
ग्राहात्प्रपन्नमिभराजममुञ्चदार्तम् ॥

संस्तुन्वतो निपतितान्श्रमणानृषींश्च ।
शक्रं च वृत्रवधतस्तमसि प्रविष्टम् ॥
देवस्त्रियोऽसुरगृहे पिहिता अनाथा ।
जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥

देवासुरे युधि च दैत्यपतीन्सुरार्थे ।
हत्वान्तरेषु भुवनान्यदधात्कलाभिः ॥
भूत्वाथ वामन इमामहरद्बलेः क्ष्मां ।
याच्ञाच्छलेन समदाददितेः सुतेभ्यः ॥

निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो ।
रामस्तु हैहयकुलाप्ययभार्गवाग्निः ॥
सोऽब्धिं बबन्ध दशवक्त्रमहन्सलङ्कं ।
सीतापतिर्जयति लोकमलघ्नकीऋतिः ॥

भूमेर्भरावतरणाय यदुष्वजन्मा ।
जातः करिष्यति सुरैरपि दुष्कराणि ॥
वादैर्विमोहयति यज्ञकृतोऽतदर्हान् ।
शूद्रान्कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥

एवंविधानि जन्मानि कर्माणि च जगत्पतेः ।
भूरीणि भूरियशसो वर्णितानि महाभुज ॥