Chapter- 1
श्रीशुक उवाच
कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः ।
भुवोऽवतारयद्भारं जविष्ठं जनयन्कलिम् ॥
ये कोपिताः सुबहु पाण्डुसुताः सपत्नैर् ।
दुर्द्यूतहेलनकचग्रहणादिभिस्तान् ॥
कृत्वा निमित्तमितरेतरतः समेतान् ।
हत्वा नृपान्निरहरत्क्षितिभारमीशः ॥
भूभारराजपृतना यदुभिर्निरस्य ।
गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः ॥
मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं ।
यद्यादवं कुलमहो अविषह्यमास्ते ॥
नैवान्यतः परिभवोऽस्य भवेत्कथञ्चिन् ।
मत्संश्रयस्य विभवोन्नहनस्य नित्यम् ॥
अन्तः कलिं यदुकुलस्य विधाय वेणु ।
स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥
एवं व्यवसितो राजन्सत्यसङ्कल्प ईश्वरः ।
शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥
स्वमूर्त्या लोकलावण्य निर्मुक्त्या लोचनं नृणाम् ।
गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ॥
आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ ।
तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः ॥
श्रीराजोवाच ।
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।
विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥
यन्निमित्तः स वै शापो यादृशो द्विजसत्तम ।
कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ॥
श्रीबादरायणिरुवाच
बिभ्रद्वपुः सकलसुन्दरसन्निवेशं
कर्माचरन्भुवि सुमङ्गलमाप्तकामः
आस्थाय धाम रममाण उदारकीऋतिः
संहर्तुमैच्छत कुलं स्थितकृत्यशेषः
कर्मानि पुण्यनिवहानि सुमङ्गलानि ।
गायज्जगत्कलिमलापहराणि कृत्वा ॥
कालात्मना निवसता यदुदेवगेहे ।
पिण्डारकं समगमन्मुनयो निसृष्टाः ॥
विश्वामित्रोऽसितः कण्वो ।
दुर्वासा भृगुरङ्गिराः ॥
कश्यपो वामदेवोऽत्रिर् ।
वसिष्ठो नारदादयः ॥
क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः ।
उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥
ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् ।
एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा ॥
प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः ।
प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति ॥
एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप ।
जनयिष्यति वो मन्दा मुषलं कुलनाशनम् ॥
तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् ।
साम्बस्य ददृशुस्तस्मिन्मुषलं खल्वयस्मयम् ॥
किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः ।
इति विह्वलिता गेहानादाय मुषलं ययुः ॥
तच्चोपनीय सदसि परिम्लानमुखश्रियः ।
राज्ञ आवेदयां चक्रुः सर्वयादवसन्निधौ ॥
श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुषलं नृप ।
विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः ॥
तच्चूर्णयित्वा मुषलं यदुराजः स आहुकः ।
समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥
कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः ।
उह्यमानानि वेलायां लग्नान्यासन्किलैरकाः ॥
मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे ।
तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥
भगवान्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा ।
कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत ॥