Chapter- 90
श्रीशुक उवाच
सुखं स्वपुर्यां निवसन्द्वारकायां श्रियः पतिः ।
सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥
स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः ।
कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः ॥
नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः
स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः ।
उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ॥
निर्विशद्भृङ्गविहगैर्नादितायां समन्ततः ।
रेमे षोडशसाहस्र पत्नीनां एकवल्लभः ॥
तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु ।
प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः ॥
वासितामलतोयेषु कूजद्द्विजकुलेषु च ।
विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।
कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ॥
उपगीयमानो गन्धर्वैर्मृदङ्गपणवानकान् ।
वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः ॥
सिच्यमानोऽच्युतस्ताभिर्हसन्तीभिः स्म रेचकैः ।
प्रतिषिञ्चन्विचिक्रीडे यक्षीभिर्यक्षराडिव ॥
ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः ।
सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः ॥
कान्तं स्म रेचकजिहीर्षययोपगुह्य ।
जातस्मरोत्स्मयलसद्वदना विरेजुः ॥
कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक् ।
क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः ॥
सिञ्चन्मुहुर्युवतिभिः प्रतिषिच्यमानो ।
रेमे करेणुभिरिवेभपतिः परीतः ॥
नटानां नर्तकीनां च गीतवाद्योपजीविनाम् ।
क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः ॥
कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः ।
नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥
ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् ।
चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु ॥
महिष्य ऊचुः
कुररि विलपसि त्वं वीतनिद्रा न शेषे
स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः
वयमिव सखि कच्चिद्गाढनिर्विद्धचेता
नलिननयनहासोदारलीलेक्षितेन
नेत्रे निमीलयसि नक्तमदृष्टबन्धुस् ।
त्वं रोरवीषि करुणं बत चक्रवाकि ॥
दास्यं गत वयमिवाच्युतपादजुष्टां ।
किं वा स्रजं स्पृहयसे कवरेण वोढुम् ॥
भो भोः सदा निष्टनसे उदन्वन्नलब्धनिद्रोऽधिगतप्रजागरः ।
किम्वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत ॥
त्वं यक्ष्मणा बलवतासि गृहीत इन्दो ।
क्षीणस्तमो न निजदीधितिभिः क्षिणोषि ॥
कच्चिन्मुकुन्दगदितानि यथा वयं त्वं ।
विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः ॥
किं न्वाचरितमस्माभिर्मलयानिल तेऽप्रियम् ।
गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥
मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनं ।
श्रीवत्साङ्कं वयमिव भवान्ध्यायति प्रेमबद्धः ॥
अत्युत्कण्ठः शवलहृदयोऽस्मद्विधो बाष्पधाराः ।
स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः ॥
प्रियरावपदानि भाषसे मृतसञ्जीविकयानया गिरा ।
करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल ॥
न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् ।
अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम् ॥
शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः ।
सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः ॥
यद्वद्वयं मधुपतेः प्रणयावलोकम् ।
अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥
हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां ।
दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा ॥
किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं ।
क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥
श्रीशुक उवाच
इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।
क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥
श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥
याः सम्पर्यचरन्प्रेम्णा पादसंवाहनादिभिः ।
जगद्गुरुं भर्तृबुद्ध्या तासां किम्वर्ण्यते तपः ॥
एवं वेदोदितं धर्ममनुतिष्ठन्सतां गतिः ।
गृहं धर्मार्थकामानां मुहुश्चादर्शयत्पदम् ॥
आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् ।
आसन्षोडशसाहस्रं महिष्यश्च शताधिकम् ॥
तासां स्त्रीरत्नभूतानामष्टौ याः प्रागुदाहृताः ।
रुक्मिणीप्रमुखा राजंस्तत्पुत्राश्चानुपूर्वशः ॥
एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ।
यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥
तेषामुद्दामवीर्याणामष्टादश महारथाः ।
आसन्नुदारयशसस्तेषां नामानि मे शृणु ॥
प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान्भानुरेव च ।
साम्बो मधुर्बृहद्भानुश्चित्रभानुर्वृकोऽरुणः ॥
पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः ।
चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥
एतेषामपि राजेन्द्र तनुजानां मधुद्विषः ।
प्रद्युम्न आसीत्प्रथमः पितृवद्रुक्मिणीसुतः ॥
स रुक्मिणो दुहितरमुपयेमे महारथः ।
तस्यां ततोऽनिरुद्धोऽभूत्नागायतबलान्वितः ॥
स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः ।
वज्रस्तस्याभवद्यस्तु मौषलादवशेषितः ॥
प्रतिबाहुरभूत्तस्मात्सुबाहुस्तस्य चात्मजः ।
सुबाहोः शान्तसेनोऽभूच्छतसेनस्तु तत्सुतः ॥
न ह्येतस्मिन्कुले जाता अधना अबहुप्रजाः ।
अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ॥
यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् ।
सङ्ख्या न शक्यते कर्तुमपि वर्षायुतैर्नृप ॥
तिस्रः कोट्यः सहस्राणामष्टाशीतिशतानि च ।
आसन्यदुकुलाचार्याः कुमाराणामिति श्रुतम् ॥
सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानामयुत लक्षेणास्ते स आहुकः ॥
देवासुराहवहता दैतेया ये सुदारुणाः ।
ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥
तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।
अवतीर्णाः कुलशतं तेषामेकाधिकं नृप ॥
तेषां प्रमाणं भगवान्प्रभुत्वेनाभवद्धरिः ।
ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥
शय्यासनाटनालाप क्रीडास्नानादिकर्मसु ।
न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥
तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं ।
विद्विट्स्निग्धाः स्वरूपं ययुरजितपर श्रीर्यदर्थेऽन्ययत्नः ॥
यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः ।
कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥
जयति जननिवासो देवकीजन्मवादो ।
यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ॥
स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन ।
व्रजपुरवनितानां वर्धयन्कामदेवम् ॥
इत्थं परस्य निजवर्त्मरिरक्षयात्त ।
लीलातनोस्तदनुरूपविडम्बनानि ॥
कर्माणि कर्मकषणानि यदूत्तमस्य ।
श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥
मर्त्यस्तयानुसवमेधितया मुकुन्द ।
श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ॥
तद्धाम दुस्तरकृतान्तजवापवर्गं ।
ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥