Chapter- 87
श्रीपरीक्षिदुवाच ।
ब्रह्मन्ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।
कथं चरन्ति श्रुतयः साक्षात्सदसतः परे ॥
श्रीशुक उवाच
बुद्धीन्द्रियमनःप्राणान्जनानामसृजत्प्रभुः ।
मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥
सैषा ह्युपनिषद्ब्राह्मी पूर्वेशां पूर्वजैर्धृता ।
श्र्रद्धया धारयेद्यस्तां क्षेमं गच्छेदकिञ्चनः ॥
अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥
एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः ।
सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥
यो वै भारतवर्षेऽस्मिन्क्षेमाय स्वस्तये नृणाम् ।
धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ॥
तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः ।
परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥
तस्मै ह्यवोचद्भगवानृषीणां शृण्वतामिदम् ।
यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥
श्रीभगवानुवाच ।
स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत्पुरा ।
तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥
श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।
ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।
तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥
तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ।
अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥
श्रीसनन्दन उवाच
स्वसृष्टमिदमापीय शयानं सह शक्तिभिः ।
तदन्ते बोधयां चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥
यथा शयानं संराजं वन्दिनस्तत्पराक्रमैः ।
प्रत्यूषेऽभेत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥
श्रीश्रुतय ऊचुः
जय जय जह्यजामजित दोषगृभीतगुणां
त्वमसि यदात्मना समवरुद्धसमस्तभगः
अगजगदोकसामखिलशक्त्यवबोधक ते
क्वचिदजयात्मना च चरतोऽनुचरेन्निगमः
बृहदुपलब्धमेतदवयन्त्यवशेषतया ।
यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् ॥
अत ऋषयो दधुस्त्वयि मनोवचनाचरितं ।
कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥
इति तव सूरयस्त्र्यधिपतेऽखिललोकमल ।
क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः ॥
किमुत पुनः स्वधामविधुताशयकालगुणाः ।
परम भजन्ति ये पदमजस्रसुखानुभवम् ॥
दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा ।
महदहमादयोऽण्डमसृजन्यदनुग्रहतः ॥
पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः ।
सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥
उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः ।
परिसरपद्धतिं हृदयमारुणयो दहरम् ॥
तत उदगादनन्त तव धाम शिरः परमं ।
पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥
स्वकृतविचित्रयोनिषु विशन्निव हेतुतया ।
तरतमतश्चकास्स्यनलवत्स्वकृतानुकृतिः ॥
अथ वितथास्वमूष्ववितथां तव धाम समं ।
विरजधियोऽनुयन्त्यभिविपण्यव एकरसम् ॥
स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं ।
तव पुरुषं वदन्त्यखिलशक्तिधृतोऽंशकृतम् ॥
इति नृगतिं विविच्य कवयो निगमावपनं ।
भवत उपासतेऽङ्घ्रिमभवम्भुवि विश्वसिताः ॥
दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश् ।
चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ॥
न परिलषन्ति केचिदपवर्गमपीश्वर ते ।
चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥
त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवच् ।
चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ॥
न बत रमन्त्यहो असदुपासनयात्महनो ।
यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥
निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन् ।
मुनय उपासते तदरयोऽपि ययुः स्मरणात् ॥
स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो ।
वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥
क इह नु वेद बतावरजन्मलयोऽग्रसरं ।
यत उदगादृषिर्यमनु देवगणा उभये ॥
तर्हि न सन्न चासदुभयं न च कालजवः ।
किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥
जनिमसतः सतो मृतिमुतात्मनि ये च भिदां ।
विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः ॥
त्रिगुणमयः पुमानिति भिदा यदबोधकृता ।
त्वयि न ततः परत्र स भवेदवबोधरसे ॥
सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात् ।
सदभिमृशन्त्यशेषमिदमात्मतयात्मविदः ॥
न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया ।
स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥
तव परि ये चरन्त्यखिलसत्त्वनिकेततया ।
त उत पदाक्रमन्त्यविगणय्य शिरो निरृतेः ॥
परिवयसे पशूनिव गिरा विबुधानपि तांस् ।
त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥
त्वमकरणः स्वराडखिलकारकशक्तिधरस् ।
तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ॥
वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो ।
विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥
स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो ।
विहर उदीक्षया यदि परस्य विमुक्त ततः ॥
न हि परमस्य कश्चिदपरो न परश्च भवेद् ।
वियत इवापदस्य तव शून्यतुलां दधतः ॥
अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास् ।
तर्हि न शास्यतेति नियमो ध्रव नेतरथा ॥
अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् ।
सममनुजानतां यदमतं मतदुष्टतया ॥
न घटत उद्भवः प्रकृतिपूरुषयोरजयोर् ।
उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् ॥
त्वयि त इमे ततो विविधनामगुणैः परमे ।
सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥
नृषु तव मयया भ्रमममीष्ववगत्य भृशं ।
त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ॥
कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः ।
सृजति मुहुस्त्रिनेमिरभवच्छरणेषु भयम् ॥
विजितहृषीकवायुभिरदान्तमनस्तुरगं ।
य इह यतन्ति यन्तुमतिलोलमुपायखिदः ॥
व्यसनशतान्विताः समवहाय गुरोश्चरणं ।
वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥
स्वजनसुतात्मदारधनधामधरासुरथैस् ।
त्वयि सति किं नृणाम्श्रयत आत्मनि सर्वरसे ॥
इति सदजानतां मिथुनतो रतये चरतां ।
सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥
भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदास् ।
त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः ॥
दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे ।
न पुनरुपासते पुरुषसारहरावसथान् ॥
सत इदं उत्थितं सदिति चेन्ननु तर्कहतं ।
व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ॥
व्यवहृतये विकल्प इषितोऽन्धपरम्परया ।
भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥
न यदिदमग्र आस न भविष्यदतो निधनाद् ।
अनु मितमन्तरा त्वयि विभाति मृषैकरसे ॥
अत उपमीयते द्रविणजातिविकल्पपथैर् ।
वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥
स यदजया त्वजामनुशयीत गुणांश्च जुषन् ।
भजति सरूपतां तदनु मृत्युमपेतभगः ॥
त्वमुत जहासि तामहिरिव त्वचमात्तभगो ।
महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥
यदि न समुद्धरन्ति यतयो हृदि कामजटा ।
दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ॥
असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्न् ।
अनपगतान्तकादनधिरूढपदाद्भवतः ॥
त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोर् ।
गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ॥
अनुयुगमन्वहं सगुण गीतपरम्परया ।
श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥
द्युपतय एव ते न ययुरन्तमनन्ततया ।
त्वमपि यदन्तराण्डनिचया ननु सावरणाः ॥
ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयस् ।
त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥
श्रीभगवानुवाच ।
इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।
सनन्दनमथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् ॥
इत्यशेषसमाम्नाय पुराणोपनिषद्रसः ।
समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः ॥
त्वं चैतद्ब्रह्मदायाद श्रद्धयात्मानुशासनम् ।
धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥
श्रीशुक उवाच
एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् ।
पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः ॥
श्रीनारद उवाच
नमस्तस्मै भगवते कृष्णायामलकीर्तये ।
यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥
इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ।
ततोऽगादाश्रमं साक्षात्पितुर्द्वैपायनस्य मे ॥
सभाजितो भगवता कृतासनपरिग्रहः ।
तस्मै तद्वर्णयामास नारायणमुखाच्छ्रुतम् ॥
इत्येतद्वर्णितं राजन्यन्नः प्रश्नः कृतस्त्वया ।
यथा ब्रह्मण्यनिर्देश्ये नीऋगुणेऽपि मनश्चरेत् ॥
योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो ।
यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ॥
यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा ।
तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥