Chapter- 75

श्रीराजोवाच ।
अजातशत्रोस्तम्दृष्ट्वा राजसूयमहोदयम् ।
सर्वे मुमुदिरे ब्रह्मन्नृदेवा ये समागताः ॥

दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः ।
इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् ॥

श्रीबादरायणिरुवाच ।
पितामहस्य ते यज्ञे राजसूये महात्मनः ।
बान्धवाः परिचर्यायां तस्यासन्प्रेमबन्धनाः ॥

भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः ।
सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥

गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने ।
परिवेषणे द्रुपदजा कर्णो दाने महामनाः ॥

युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः ।
बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः ॥

निरूपिता महायज्ञे नानाकर्मसु ते तदा ।
प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः ॥

ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु ।
स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः ॥
चैद्ये च सात्वतपतेश्चरणं प्रविष्टे ।
चक्रुस्ततस्त्ववभृथस्नपनं द्युनद्याम् ॥

मृदङ्गशङ्खपणव धुन्धुर्यानकगोमुखाः ।
वादित्राणि विचित्राणि नेदुरावभृथोत्सवे ॥

नार्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः ।
वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् ॥

चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभिः ।
स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः ॥

यदुसृञ्जयकाम्बोज कुरुकेकयकोशलाः ।
कम्पयन्तो भुवं सैन्यैर्ययमानपुरःसराः ॥

सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा ।
देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः ॥

स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः ।
विलिम्पन्त्योऽभिसिञ्चन्त्यो विजह्रुर्विविधै रसैः ॥

तैलगोरसगन्धोद हरिद्रासान्द्रकुङ्कुमैः ।
पुम्भिर्लिप्ताः प्रलिम्पन्त्यो विजह्रुर्वारयोषितः ॥

गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद् ।
देव्यो यथा दिवि विमानवरैर्नृदेव्यो ॥
ता मातुलेयसखिभिः परिषिच्यमानाः ।
सव्रीडहासविकसद्वदना विरेजुः ॥

ता देवरानुत सखीन्सिषिचुर्दृतीभिः ।
क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः ॥
औत्सुक्यमुक्तकवराच्च्यवमानमाल्याः ।
क्षोभं दधुर्मलधियां रुचिरैर्विहारैः ॥

स सम्राड्रथमारुढः सदश्वं रुक्ममालिनम् ।
व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव ॥

पत्नीसम्याजावभृथ्यैश्चरित्वा ते तमृत्विजः ।
आचान्तं स्नापयां चक्रुर्गङ्गायां सह कृष्णया ॥

देवदुन्दुभयो नेदुर्नरदुन्दुभिभिः समम् ।
मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः ॥

सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः ।
महापातक्यपि यतः सद्यो मुच्येत किल्बिषात् ॥

अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः ।
ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरैः ॥

बन्धूञ्ज्ञातीन्नृपान्मित्र सुहृदोऽन्यांश्च सर्वशः ।
अभीक्ष्नं पूजयामास नारायणपरो नृपः ॥

सर्वे जनाः सुररुचो मणिकुण्डलस्रग् ।
उष्णीषकञ्चुकदुकूलमहार्घ्यहाराः ॥
नार्यश्च कुण्डलयुगालकवृन्दजुष्ट ।
वक्त्रश्रियः कनकमेखलया विरेजुः ॥

अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः ।
ब्रह्मक्षत्रियविट्शुद्रा राजानो ये समागताः ॥

देवर्षिपितृभूतानि लोकपालाः सहानुगाः ।
पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप ॥

हरिदासस्य राजर्षे राजसूयमहोदयम् ।
नैवातृप्यन्प्रशंसन्तः पिबन्मर्त्योऽमृतं यथा ॥

ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् ।
प्रेम्णा निवारयामास कृष्णं च त्यागकातरः ॥

भगवानपि तत्राङ्ग न्यावात्सीत्तत्प्रियंकरः ।
प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् ॥

इत्थं राजा धर्मसुतो मनोरथमहार्णवम् ।
सुदुस्तरं समुत्तीर्य कृष्णेनासीद्गतज्वरः ॥

एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् ।
अतप्यद्राजसूयस्य महित्वं चाच्युतात्मनः ॥

यस्मिंस्नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मीर् ।
नाना विभान्ति किल विश्वसृजोपकॢप्ताः ॥
ताभिः पतीन्द्रुपदराजसुतोपतस्थे ।
यस्यां विषक्तहृदयः कुरुराडतप्यत् ॥

यस्मिन्तदा मधुपतेर्महिषीसहस्रं ।
श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् ॥
मध्ये सुचारु कुचकुङ्कुमशोणहारं ।
श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥

सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट् ।
वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥

आसीनः काञ्चने साक्षादासने मघवानिव ।
पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः ॥

तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप ।
किरीटमाली न्यविशदसिहस्तः क्षिपन्रुषा ॥

स्थलेऽभ्यगृह्णाद्वस्त्रान्तं जलं मत्वा स्थलेऽपतत् ।
जले च स्थलवद्भ्रान्त्या मयमायाविमोहितः ॥

जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयो परे ।
निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ॥

स व्रीडितोऽवग्वदनो रुषा ज्वलन्निष्क्रम्य तूष्णीं प्रययौ गजाह् ।
हाहेति शब्दः सुमहानभूत्सतामजातशत्रुर्विमना इवाभवत् ।
बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ॥

एतत्तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया ।
सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥