Chapter- 71

श्रीशुक उवाच
इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् ।
सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः ॥

श्रीउद्धव उवाच
यदुक्तमृषिना देव साचिव्यं यक्ष्यतस्त्वया ।
कार्यं पैतृष्वस्रेयस्य रक्षा च शरणैषिणाम् ॥

यष्टव्यम्राजसूयेन दिक्चक्रजयिना विभो ।
अतो जरासुतजय उभयार्थो मतो मम ॥

अस्माकं च महानर्थो ह्येतेनैव भविष्यति ।
यशश्च तव गोविन्द राज्ञो बद्धान्विमुञ्चतः ॥

स वै दुर्विषहो राजा नागायुतसमो बले ।
बलिनामपि चान्येषां भीमं समबलं विना ॥

द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः ।
ब्राह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित् ॥

ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः ।
हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ॥

निमित्तं परमीशस्य विश्वसर्गनिरोधयोः ।
हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव ॥

गायन्ति ते विशदकर्म गृहेषु देव्यो ।
राज्ञां स्वशत्रुवधमात्मविमोक्षणं च ॥
गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः ।
पित्रोश्च लब्धशरणा मुनयो वयं च ॥

जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते ।
प्रायः पाकविपाकेन तव चाभिमतः क्रतुः ॥

श्रीशुक उवाच
इत्युद्धववचो राजन्सर्वतोभद्रमच्युतम् ।
देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥

अथादिशत्प्रयाणाय भगवान्देवकीसुतः ।
भृत्यान्दारुकजैत्रादीननुज्ञाप्य गुरून्विभुः ॥

निर्गमय्यावरोधान्स्वान्ससुतान्सपरिच्छदान् ।
सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् ।
सूतोपनीतं स्वरथमारुहद्गरुडध्वजम् ॥

ततो रथद्विपभटसादिनायकैः ।
करालया परिवृत आत्मसेनया ॥
मृदङ्गभेर्यानकशङ्खगोमुखैः ।
प्रघोषघोषितककुभो निरक्रमत् ॥

नृवाजिकाञ्चनशिबिकाभिरच्युतं सहात्मजाः पतिमनु सुव्रता ययुः ।
वराम्बराभरणविलेपनस्रजः सुसंवृता नृभिरसिचर्मपाणिभिः ॥

नरोष्ट्रगोमहिषखराश्वतर्यनः ।
करेणुभिः परिजनवारयोषितः ॥
स्वलङ्कृताः कटकुटिकम्बलाम्बराद्य् ।
उपस्करा ययुरधियुज्य सर्वतः ॥

बलं बृहद्ध्वजपटछत्रचामरैर् ।
वरायुधाभरणकिरीटवर्मभिः ॥
दिवांशुभिस्तुमुलरवं बभौ रवेर् ।
यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः ॥

अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि विदधद्विहायसा ।
निशम्य तद्व्यवसितमाहृतार्हणो मुकुन्दसन्दरशननिर्वृतेन्द्रियः ॥

राजदूतमुवाचेदं भगवान्प्रीणयन्गिरा ।
मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥

इत्युक्तः प्रस्थितो दूतो यथावदवदन्नृपान् ।
तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन्यन्मुमुक्षवः ॥

आनर्तसौवीरमरूंस्तीर्त्वा विनशनं हरिः ।
गिरीन्नदीरतीयाय पुरग्रामव्रजाकरान् ॥

ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।
पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥

तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृनाम् ।
अजातशत्रुर्निरगात्सोपध्यायः सुहृद्वृतः ॥

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।
अभ्ययात्स हृषीकेशं प्राणाः प्राणमिवादृतः ॥

दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः ।
चिराद्दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः ॥

दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर्हताशुभः ।
लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृतलोकविभ्रमः ॥

तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन्प्रेमजलाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥

अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः ।
ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः ।
मानिनो मानयामास कुरुसृञ्जयकैकयान् ॥

सूतमागधगन्धर्वा वन्दिनश्चोपमन्त्रिणः ।
मृदङ्गशङ्खपटह वीणापणवगोमुखैः ।
ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः ॥

एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः ।
संस्तूयमानो भगवान्विवेशालङ्कृतं पुरम् ॥

संसिक्तवर्त्म करिणां मदगन्धतोयैश् ।
चित्रध्वजैः कनकतोरणपूर्णकुम्भैः ॥
मृष्टात्मभिर्नवदुकूलविभूषणस्रग् ।
गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ॥

उद्दीप्तदीपबलिभिः प्रतिसद्म जाल ।
निर्यातधूपरुचिरं विलसत्पताकम् ॥
मूर्धन्यहेमकलशै रजतोरुश‍ृङ्गैर् ।
जुष्टं ददर्श भवनैः कुरुराजधाम ॥

प्राप्तं निशम्य नरलोचनपानपात्रम् ।
औत्सुक्यविश्लथितकेशदुकूलबन्धाः ॥
सद्यो विसृज्य गृहकर्म पतींश्च तल्पे ।
द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥

तस्मिन्सुसङ्कुल इभाश्वरथद्विपद्भिः ।
कृष्णम्सभार्यमुपलभ्य गृहाधिरूढाः ॥
नार्यो विकीर्य कुसुमैर्मनसोपगुह्य ।
सुस्वागतं विदधुरुत्स्मयवीक्षितेन ॥

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीस् ।
तारा यथोडुपसहाः किमकार्यमूभिः ॥
यच्चक्षुषां पुरुषमौलिरुदारहास ।
लीलावलोककलयोत्सवमातनोति ॥

तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः ।
चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ॥

अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः ।
ससम्भ्रमैरभ्युपेतः प्राविशद्राजमन्दिरम् ॥

पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् ।
प्रीतात्मोत्थाय पर्यङ्कात्सस्नुषा परिषस्वजे ॥

गोविन्दं गृहमानीय देवदेवेशमादृतः ।
पूजायां नाविदत्कृत्यं प्रमोदोपहतो नृपः ॥

पितृस्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् ।
स्वयं च कृष्णया राजन्भगिन्या चाभिवन्दितः ॥

श्वश‍ृवा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वशः ।
आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥

कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।
अन्याश्चाभ्यागता यास्तु वासःस्रङ्मण्डनादिभिः ॥

सुखं निवासयामास धर्मराजो जनार्दनम् ।
ससैन्यं सानुगामत्यं सभार्यं च नवं नवम् ॥

तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः ।
मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥

उवास कतिचिन्मासान्राज्ञः प्रियचिकीर्षया ।
विहरन्रथमारुह्य फाल्गुनेन भटैर्वृतः ॥