Chapter- 69

श्रीशुक उवाच
नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।
कृष्णेनैकेन बह्वीनां तद्दिदृक्षुः स्म नारदः ॥

चित्रं बतैतदेकेन वपुषा युगपत्पृथक् ।
गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् ॥

इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् ।
पुष्पितोपवनाराम द्विजालिकुलनादिताम् ॥

उत्फुल्लेन्दीवराम्भोज कह्लारकुमुदोत्पलैः ।
छुरितेषु सरःसूच्चैः कूजितां हंससारसैः ॥

प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतैः ।
महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः ॥

विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः ।
संसिक्तमार्गाङ्गनवीथिदेहलीं पतत्पताकध्वजवारितातपाम् ॥

तस्यामन्तःपुरं श्रीमदर्चितं सर्वधिष्ण्यपैः ।
हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥

तत्र षोडशभिः सद्म सहस्रैः समलङ्कृतम् ।
विवेशैकतोमं शौरेः पत्नीनां भवनं महत् ॥

विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः ।
इन्द्रनीलमयैः कुड्यैर्जगत्या चाहतत्विषा ॥

वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः ।
दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः ॥

दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् ।
पुम्भिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः ॥

रत्नप्रदीपनिकरद्युतिभिर्निरस्त ध्वान्तं विचित्रवलभीषु शिखण्डि ।
नृत्यन्ति यत्र विहितागुरुधूपमक्षैर्निर्यान्तमीक्ष्य घनबुद्धय ॥

तस्मिन्समानगुणरूपवयःसुवेष ।
दासीसहस्रयुतयानुसवं गृहिण्या ॥
विप्रो ददर्श चमरव्यजनेन रुक्म ।
दण्डेन सात्वतपतिं परिवीजयन्त्या ॥

तं सन्निरीक्ष्य भगवान्सहसोत्थितश्री ।
पर्यङ्कतः सकलधर्मभृतां वरिष्ठः ॥
आनम्य पादयुगलं शिरसा किरीट ।
जुष्टेन साञ्जलिरवीविशदासने स्वे ॥

तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना ।
बिभ्रज्जगद्गुरुतमोऽपि सतां पतिर्हि ॥
ब्रह्मण्यदेव इति यद्गुणनाम युक्तं ।
तस्यैव यच्चरणशौचमशेषतीर्थम् ॥

सम्पूज्य देवऋषिवर्यमृषिः पुराणो ।
नारायणो नरसखो विधिनोदितेन ॥
वाण्याभिभाष्य मितयामृतमिष्टया तं ।
प्राह प्रभो भगवते करवाम हे किम् ॥

श्रीनारद उवाच
नैवाद्भुतं त्वयि विभोऽखिललोकनाथे ।
मैत्री जनेषु सकलेषु दमः खलानाम् ॥
निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां ।
स्वैरावतार उरुगाय विदाम सुष्ठु ॥

दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं ।
ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ॥
संसारकूपपतितोत्तरणावलम्बं ।
ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥

ततोऽन्यदाविशद्गेहं कृष्णपत्न्याः स नारदः ।
योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥

दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च ।
पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥

पृष्टश्चाविदुषेवासौ कदायातो भवानिति ।
क्रियते किं नु पूर्णानामपूर्णैरस्मदादिभिः ॥

अथापि ब्रूहि नो ब्रह्मञ्जन्मैतच्छोभनं कुरु ।
स तु विस्मित उत्थाय तूष्णीमन्यदगाद्गृहम् ॥

तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान्शिशून् ।
ततोऽन्यस्मिन्गृहेऽपश्यन्मज्जनाय कृतोद्यमम् ॥

जुह्वन्तं च वितानाग्नीन्यजन्तं पञ्चभिर्मखैः ।
भोजयन्तं द्विजान्क्वापि भुञ्जानमवशेषितम् ॥

क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् ।
एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु ॥

अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् ।
क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥

मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः ।
जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥

कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः ।
इतिहासपुराणानि श‍ृण्वन्तं मङ्गलानि च ॥

हसन्तं हासकथया कदाचित्प्रियया गृहे ।
क्वापि धर्मं सेवमानमर्थकामौ च कुत्रचित् ॥

ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम् ।
शुश्रूषन्तं गुरून्क्वापि कामैर्भोगैः सपर्यया ॥

कुर्वन्तं विग्रहं कैश्चित्सन्धिं चान्यत्र केशवम् ।
कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥

पुत्राणां दुहितॄणां च काले विध्युपयापनम् ।
दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः ॥

प्रस्थापनोपनयनैरपत्यानां महोत्सवान् ।
वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥

यजन्तं सकलान्देवान्क्वापि क्रतुभिरूर्जितैः ।
पूर्तयन्तं क्वचिद्धर्मं कूर्पाराममठादिभिः ॥

चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् ।
घ्नन्तं तत्र पशून्मेध्यान्परीतं यदुपुङ्गवैः ॥

अव्यक्तलिन्गं प्रकृतिष्वन्तःपुरगृहादिषु ।
क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया ॥

अथोवाच हृषीकेशं नारदः प्रहसन्निव ।
योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् ॥

विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् ।
योगेश्वरात्मन्निर्भाता भवत्पादनिषेवया ॥

अनुजानीहि मां देव लोकांस्ते यशसाप्लुतान् ।
पर्यटामि तवोद्गायन्लीला भुवनपावनीः ॥

श्रीभगवानुवाच ।
ब्रह्मन्धन्नस्य वक्ताहं कर्ता तदनुमोदिता ।
तच्छिक्षयन्लोकमिममास्थितः पुत्र मा खिदः ॥

श्रीशुक उवाच
इत्याचरन्तं सद्धर्मान्पावनान्गृहमेधिनाम् ।
तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥

कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् ।
मुहुर्दृष्ट्वा ऋषिरभूद्विस्मितो जातकौतुकः ॥

इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना ।
सम्यक्सभाजितः प्रीतस्तमेवानुस्मरन्ययौ ॥

एवं मनुष्यपदवीमनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः ।
रेमेऽङ्ग षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टः ॥

यानीह विश्वविलयोद्भववृत्तिहेतुः ।
कर्माण्यनन्यविषयाणि हरीश्चकार ॥
यस्त्वङ्ग गायति श‍ृणोत्यनुमोदते वा ।
भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ॥