Chapter- 60
श्रीबादरायणिरुवाच ।
कर्हिचित्सुखमासीनं स्वतल्पस्थं जगद्गुरुम् ।
पतिं पर्यचरद्भैष्मी व्यजनेन सखीजनैः ॥
यस्त्वेतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः ।
स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः ॥
तस्मिनन्तर्गृहे भ्राजन् मुक्तादामविलम्बिना ।
विराजिते वितानेन दीपैर्मणिमयैरपि ॥
मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादिते ।
जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलैः ॥
पारिजातवनामोद वायुनोद्यानशालिना ।
धूपैरगुरुजै राजञ्जालरन्ध्रविनिर्गतैः ॥
पयःफेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे ।
उपतस्थे सुखासीनं जगतामीश्वरं पतिम् ॥
वालव्यजनमादाय रत्नदण्डं सखीकरात् ।
तेन वीजयती देवी उपासां चक्र ईश्वरम् ॥
सोपाच्युतं क्वणयती मणिनूपुराभ्यां ।
रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता ॥
वस्त्रान्तगूढकुचकुङ्कुमशोणहार ।
भासा नितम्बधृतया च परार्ध्यकाञ्च्या ॥
तां रूपिणीं श्रीयमनन्यगतिं निरीक्ष्य ।
या लीलया धृततनोरनुरूपरूपा ॥
प्रीतः स्मयन्नलककुण्डलनिष्ककण्ठ ।
वक्त्रोल्लसत्स्मितसुधां हरिराबभाषे ॥
श्रीभगवानुवाच ।
राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः ।
महानुभावैः श्रीमद्भी रूपौदार्यबलोर्जितैः ॥
तान्प्राप्तानर्थिनो हित्वा चैद्यादीन्स्मरदुर्मदान् ।
दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषेऽसमान् ॥
राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् ।
बलवद्भिः कृतद्वेषान्प्रायस्त्यक्तनृपासनान् ॥
अस्पष्टवर्त्मनाम्पुंसामलोकपथमीयुषाम् ।
आस्थिताः पदवीं सुभ्रु प्रायः सीदन्ति योषितः ॥
निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रियाः ।
तस्मा त्प्रायेण न ह्याढ्या मां भजन्ति सुमध्यमे ॥
ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भवः ।
तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥
वैदर्भ्येतदविज्ञाय त्वयादीर्घसमीक्षया ।
वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा ॥
अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम् ।
येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे ॥
चैद्यशाल्वजरासन्ध दन्तवक्रादयो नृपाः ।
मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः ॥
तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये ।
आनितासि मया भद्रे तेजोपहरतासताम् ॥
उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः ।
आत्मलब्ध्यास्महे पूर्णा गेहयोर्ज्योतिरक्रियाः ॥
श्रीशुक उवाच
एतावदुक्त्वा भगवानात्मानं वल्लभामिव ।
मन्यमानामविश्लेषात्तद्दर्पघ्न उपारमत् ॥
इति त्रिलोकेशपतेस्तदात्मनः प्रियस्य देव्यश्रुतपूर्वमप्रियम् ।
आश्रुत्य भीता हृदि जातवेपथुश्चिन्तां दुरन्तां रुदती जगाम ह ॥
पदा सुजातेन नखारुणश्रीया भुवं लिखन्त्यश्रुभिरञ्जनासितैः ।
आसिञ्चती कुङ्कुमरूषितौ स्तनौ तस्थावधोमुख्यतिदुःखरुद्धवाक् ॥
तस्याः सुदुःखभयशोकविनष्टबुद्धेर् ।
हस्ताच्छ्लथद्वलयतो व्यजनं पपात ॥
देहश्च विक्लवधियः सहसैव मुह्यन् ।
रम्भेव वायुविहतो प्रविकीर्य केशान् ॥
तद्दृष्ट्वा भगवान्कृष्णः प्रियायाः प्रेमबन्धनम् ।
हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत ॥
पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुजः ।
केशान्समुह्य तद्वक्त्रं प्रामृजत्पद्मपाणिना ॥
प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा ।
आश्लिष्य बाहुना राजननन्यविषयां सतीम् ॥
सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः ।
हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः ॥
श्रीभगवानुवाच ।
मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् ।
त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥
मुखं च प्रेमसंरम्भ स्फुरिताधरमीक्षितुम् ।
कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् ॥
अयं हि परमो लाभो गृहेषु गृहमेधिनाम् ।
यन्नर्मैरीयते यामः प्रियया भीरु भामिनि ॥
श्रीशुक उवाच
सैवं भगवता राजन्वैदर्भी परिसान्त्विता ।
ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ ॥
बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम् ।
सव्रीडहासरुचिर स्निग्धापाङ्गेन भारत ॥
श्रीरुक्मिण्युवाच ।
नन्वेवमेतदरविन्दविलोचनाह यद्वै भवान्भगवतोऽसदृशी विभूम्नः ।
क्व स्वे महिम्न्यभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरज्ञ ॥
सत्यं भयादिव गुणेभ्य उरुक्रमान्तः ।
शेते समुद्र उपलम्भनमात्र आत्मा ॥
नित्यं कदिन्द्रियगणैः कृतविग्रहस्त्वं ।
त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् ॥
त्वत्पादपद्ममकरन्दजुषां मुनीनां ।
वर्त्मास्फुटं न्र्पशुभिर्ननु दुर्विभाव्यम् ॥
यस्मादलौकिकमिवेहितमीश्वरस्य ।
भूमंस्तवेहितमथो अनु ये भवन्तम् ॥
निष्किञ्चनो ननु भवान्न यतोऽस्ति किञ्चिद् ।
यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः ॥
न त्वा विदन्त्यसुतृपोऽन्तकमाढ्यतान्धाः ।
प्रेष्ठो भवान्बलिभुजामपि तेऽपि तुभ्यम् ॥
त्वं वै समस्तपुरुषार्थमयः फलात्मा ।
यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् ॥
तेषां विभो समुचितो भवतः समाजः ।
पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ॥
त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव ।
आत्मात्मदश्च जगतामिति मे वृतोऽसि ॥
हित्वा भवद्भ्रुव उदीरितकालवेग ।
ध्वस्ताशिषोऽब्जभवनाकपतीन्कुतोऽन्ये ॥
जाड्यं वचस्तव गदाग्रज यस्तु भूपान् ।
विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम् ॥
सिंहो यथा स्वबलिमीश पशून्स्वभागं ।
तेभ्यो भयाद्यदुदधिं शरणं प्रपन्नः ॥
यद्वाञ्छया नृपशिखामणयोऽन्गवैन्य ।
जायन्तनाहुषगयादय ऐक्यपत्यम् ॥
राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष ।
सीदन्ति तेऽनुपदवीं त इहास्थिताः किम् ॥
कान्यं श्रयेत तव पादसरोजगन्धम् ।
आघ्राय सन्मुखरितं जनतापवर्गम् ॥
लक्ष्म्यालयं त्वविगणय्य गुणालयस्य ।
मर्त्या सदोरुभयमर्थविवीतदृष्टिः ॥
तं त्वानुरूपमभजं जगतामधीशम् ।
आत्मानमत्र च परत्र च कामपूरम् ॥
स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या ।
यो वै भजन्तमुपयात्यनृतापवर्गः ॥
तस्याः स्युरच्युत नृपा भवतोपदिष्टाः ।
स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः ॥
यत्कर्णमूलमन्कर्षण नोपयायाद् ।
युष्मत्कथा मृडविरिञ्चसभासु गीता ॥
त्वक्ष्मश्रुरोमनखकेशपिनद्धमन्तर् ।
मांसास्थिरक्तकृमिविट्कफपित्तवातम् ॥
जीवच्छवं भजति कान्तमतिर्विमूढा ।
या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥
अस्त्वम्बुजाक्ष मम ते चरणानुराग ।
आत्मन्रतस्य मयि चानतिरिक्तदृष्टेः ॥
यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो ।
मामीक्षसे तदु ह नः परमानुकम्पा ॥
नैवालीकमहं मन्ये वचस्ते मधुसूदन ।
अम्बाया एव हि प्रायः कन्यायाः स्याद्रतिः क्वचित् ॥
व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।
बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ॥
श्रीभगवानुवाच ।
साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्री प्रलम्भिता ।
मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि ॥
यान्यान्कामयसे कामान्मय्यकामाय भामिनि ।
सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यद ॥
उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे ।
यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ॥
ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया ।
कामात्मानोऽपवर्गेशं मोहिता मम मायया ॥
मां प्राप्य मानिन्यपवर्गसम्पदं ।
वाञ्छन्ति ये सम्पद एव तत्पतिम् ॥
ते मन्दभागा निरयेऽपि ये नृणां ।
मात्रात्मकत्वात्निरयः सुसङ्गमः ॥
दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया कृतानुवृत्तिर्भवमोचनी खलैः ।
सुदुष्करासौ सुतरां दुराशिषो ह्यसुंभराया निकृतिं जुषः स्त्रिया ॥
न त्वादृशीम्प्रणयिनीं गृहिणीं गृहेषु ।
पश्यामि मानिनि यया स्वविवाहकाले ॥
प्राप्तान्नृपान्न विगणय्य रहोहरो मे ।
प्रस्थापितो द्विज उपश्रुतसत्कथस्य ॥
भ्रातुर्विरूपकरणं युधि निर्जितस्य ।
प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् ॥
दुःखं समुत्थमसहोऽस्मदयोगभीत्या ।
नैवाब्रवीः किमपि तेन वयं जितास्ते ॥
दूतस्त्वयात्मलभने सुविविक्तमन्त्रः ।
प्रस्थापितो मयि चिरायति शून्यमेतत् ॥
मत्वा जिहास इदं अङ्गमनन्ययोग्यं ।
तिष्ठेत तत्त्वयि वयं प्रतिनन्दयामः ॥
श्रीशुक उवाच
एवं सौरतसंलापैर्भगवान्जगदीश्वरः ।
स्वरतो रमया रेमे नरलोकं विडम्बयन् ॥
तथान्यासामपि विभुर्गृहेसु गृहवानिव ।
आस्थितो गृहमेधीयान्धर्मान्लोकगुरुर्हरिः ॥