Chapter- 52

श्रीशुक उवाच
इत्थं सोऽनग्रहीतोऽन्ग कृष्णेनेक्ष्वाकु नन्दनः ।
तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् ॥

संवीक्ष्य क्षुल्लकान्मर्त्यान्पशून्वीरुद्वनस्पतीन् ।
मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम् ॥

तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः ।
समाधाय मनः कृष्णे प्राविशद्गन्धमादनम् ॥

बदर्याश्रममासाद्य नरनारायणालयम् ।
सर्वद्वन्द्वसहः शान्तस्तपसाराधयद्धरिम् ॥

भगवान्पुनराव्रज्य पुरीं यवनवेष्टिताम् ।
हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम् ॥

नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः ।
आजगाम जरासन्धस्त्रयोविंशत्यनीकपः ॥

विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ ।
मनुष्यचेष्टामापन्नौ राजन्दुद्रुवतुर्द्रुतम् ॥

विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत् ।
पद्भ्यां पलाशाभ्यां चेलतुर्बहुयोजनम् ॥

पलायमानौ तौ दृष्ट्वा मागधः प्रहसन्बली ।
अन्वधावद्रथानीकैरीशयोरप्रमाणवित् ॥

प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम् ।
प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति ॥

गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप ।
ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन् ॥

तत उत्पत्य तरसा दह्यमानतटादुभौ ।
दशैकयोजनात्तुङ्गान्निपेततुरधो भुवि ॥

अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ ।
स्वपुरं पुनरायातौ समुद्रपरिखां नृप ॥

सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ ।
बलमाकृष्य सुमहन्मगधान्मागधो ययौ ॥

आनर्ताधिपतिः श्रीमान्रैवतो रैवतीं सुताम् ।
ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम् ॥

भगवानपि गोविन्द उपयेमे कुरूद्वह ।
वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे ॥

प्रमथ्य तरसा राज्ञः शाल्वादींश्चैद्यपक्षगान् ।
पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधामिव ॥

श्रीराजोवाच ।
भगवान्भीष्मकसुतां रुक्मिणीं रुचिराननाम् ।
राक्षसेन विधानेन उपयेम इति श्रुतम् ॥

भगवन्श्रोतुमिच्छामि कृष्णस्यामिततेजसः ।
यथा मागधशाल्वादीन्जित्वा कन्यामुपाहरत् ॥

ब्रह्मन्कृष्णकथाः पुण्या माध्वीर्लोकमलापहाः ।
को नु तृप्येत श‍ृण्वानः श्रुतज्ञो नित्यनूतनाः ॥

श्रीबादरायणिरुवाच ।
राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान् ।
तस्य पञ्चाभवन्पुत्राः कन्यैका च वरानना ॥

रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः ।
रुक्मकेशो रुक्ममाली रुक्मिण्येषा स्वसा सती ॥

सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः ।
गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् ॥

तां बुद्धिलक्षणौदार्य रूपशीलगुणाश्रयाम् ।
कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥

बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप ।
ततो निवार्य कृष्णद्विड्रुक्मी चैद्यममन्यत ॥

तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् ।
विचिन्त्याप्तं द्विजं कञ्चित्कृष्णाय प्राहिणोद्द्रुतम् ॥

द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः ।
अपश्यदाद्यं पुरुषमासीनं काञ्चनासने ॥

दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात् ।
उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः ॥

तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः ।
पाणिनाभिमृशन्पादावव्यग्रस्तमपृच्छत ॥

कच्चिद्द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः ।
वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा ॥

सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् ।
अहीयमानः स्वद्धर्मात्स ह्यस्याखिलकामधुक् ॥

असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः ।
अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः ॥

विप्रान्स्वलाभसन्तुष्टान्साधून्भूतसुहृत्तमान् ।
निरहङ्कारिणः शान्तान्नमस्ये शिरसासकृत् ॥

कच्चिद्वः कुशलं ब्रह्मन्राजतो यस्य हि प्रजाः ।
सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥

यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया ।
सर्वं नो ब्रूह्यगुह्यं चेत्किं कार्यं करवाम ते ॥

एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना ।
लीलागृहीतदेहेन तस्मै सर्वमवर्णयत् ॥

श्रीरुक्मिण्युवाच
श्रुत्वा गुणान्भुवनसुन्दर श‍ृण्वतां ते
निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम्
रूपं दृशां दृशिमतामखिलार्थलाभं
त्वय्यच्युताविशति चित्तमपत्रपं मे

का त्वा मुकुन्द महती कुलशीलरूप ।
विद्यावयोद्रविणधामभिरात्मतुल्यम् ॥
धीरा पतिं कुलवती न वृणीत कन्या ।
काले नृसिंह नरलोकमनोऽभिरामम् ॥

तन्मे भवान्खलु वृतः पतिरङ्ग जायाम् ।
आत्मार्पितश्च भवतोऽत्र विभो विधेहि ॥
मा वीरभागमभिमर्शतु चैद्य आराद् ।
गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष ॥

पूर्तेष्टदत्तनियमव्रतदेवविप्र ।
गुर्वर्चनादिभिरलं भगवान्परेशः ॥
आराधितो यदि गदाग्रज एत्य पाणिं ।
गृह्णातु मे न दमघोषसुतादयोऽन्ये ॥

श्वो भाविनि त्वमजितोद्वहने विदर्भान् ।
गुप्तः समेत्य पृतनापतिभिः परीतः ॥
निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य ।
मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ॥

अन्तःपुरान्तरचरीमनिहत्य बन्धून् ।
त्वामुद्वहे कथमिति प्रवदाम्युपायम् ॥
पूर्वेद्युरस्ति महती कुलदेवयात्रा ।
यस्यां बहिर्नववधूर्गिरिजामुपेयात् ॥

यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो ।
वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै ॥
यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं ।
जह्यामसून्व्रतकृशान्शतजन्मभिः स्यात् ॥

ब्राह्मण उवाच
इत्येते गुह्यसन्देशा यदुदेव मयाहृताः ।
विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम् ॥