Chapter- 47
श्रीशुक उवाच
तं वीक्ष्य कृषानुचरं व्रजस्त्रियः ।
प्रलम्बबाहुं नवकञ्जलोचनम् ॥
पीताम्बरं पुष्करमालिनं लसन् ।
मुखारविन्दं परिमृष्टकुण्डलम् ॥
सुविस्मिताः कोऽयमपीव्यदर्शनः ।
कुतश्च कस्याच्युतवेषभूषणः ॥
इति स्म सर्वाः परिवव्रुरुत्सुकास् ।
तमुत्तमःश्लोकपदाम्बुजाश्रयम् ॥
तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः ।
रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः ॥
जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् ।
भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया ॥
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे ।
स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥
अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् ।
पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ॥
निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः ।
अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ॥
खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् ।
दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ॥
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः ।
कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः ॥
गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः ।
तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ॥
काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् ।
प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥
गोप्युवाच
मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः
कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः
वहतु मधुपतिस्तन्मानिनीनां प्रसादं
यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक्
सकृदधरसुधां स्वां मोहिनीं पाययित्वा ।
सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक् ॥
परिचरति कथं तत्पादपद्मं नु पद्मा ।
ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः ॥
किमिह बहु षडङ्घ्रे गायसि त्वं यदूनाम् ।
अधिपतिमगृहाणामग्रतो नः पुराणम् ॥
विजयसखसखीनां गीयतां तत्प्रसङ्गः ।
क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः ।
कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ॥
चरणरज उपास्ते यस्य भूतिर्वयं का ।
अपि च कृपणपक्षे ह्युत्तमःश्लोकशब्दः ॥
विसृज शिरसि पादं वेद्म्यहं चातुकारैर् ।
अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ॥
स्वकृत इह विषृष्टापत्यपत्यन्यलोका ।
व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा ।
स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् ॥
बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस् ।
तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥
यदनुचरितलीलाकर्णपीयूषविप्रुट् ।
सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ॥
सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना ।
बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥
वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः ।
कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ॥
ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र ।
स्मररुज उपमन्त्रिन्भण्यतामन्यवार्ता ॥
प्रियसख पुनरागाः प्रेयसा प्रेषितः किं ।
वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ॥
नयसि कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं ।
सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥
अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते ।
स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान् ॥
क्वचिदपि स कथा नः किङ्करीणां गृणीते ।
भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥
श्रीशुक उवाच
अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः ।
सान्त्वयन्प्रियसन्देशैर्गोपीरिदमभाषत ॥
श्रीउद्धव उवाच
अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः ।
वासुदेवे भगवति यासामित्यर्पितं मनः ॥
दानव्रततपोहोम जपस्वाध्यायसंयमैः ।
श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥
भगवत्युत्तमःश्लोके भवतीभिरनुत्तमा ।
भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा ॥
दिष्ट्या पुत्रान्पतीन्देहान्स्वजनान्भवनानि च ।
हित्वावृनीत यूयं यत्कृष्णाख्यं पुरुषं परम् ॥
सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे ।
विरहेण महाभागा महान्मेऽनुग्रहः कृतः ॥
श्रूयतां प्रियसन्देशो भवतीनां सुखावहः ।
यमादायागतो भद्रा अहं भर्तू रहस्करः ॥
श्रीभगवानुवाच ।
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ॥
यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही ।
तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः ॥
आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये ।
आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥
आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः ।
सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥
येनेन्द्रियार्थान्ध्यायेत मृषा स्वप्नवदुत्थितः ।
तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥
एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।
त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥
यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।
मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ॥
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते ।
स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥
मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥
या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिताः ।
अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ॥
श्रीशुक उवाच
एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः ।
ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ॥
गोप्य ऊचुः ।
दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत् ।
दिष्ट्याप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना ॥
कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम् ।
प्रीतिं नः स्निग्धसव्रीड हासोदारेक्षणार्चितः ॥
कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम् ।
नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ॥
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् ।
गोष्ठिमध्ये पुरस्त्रीणाम्ग्राम्याः स्वैरकथान्तरे ॥
ताः किं निशाः स्मरति यासु तदा प्रियाभिर् ।
वृन्दावने कुमुदकुन्दशशाङ्करम्ये ॥
रेमे क्वणच्चरणनूपुररासगोष्ठ्याम् ।
अस्माभिरीडितमनोज्ञकथः कदाचित् ॥
अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा ।
सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ॥
कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः ।
नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ॥
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः ।
श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ॥
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला ।
तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥
क उत्सहेत सन्त्यक्तुमुत्तमःश्लोकसंविदम् ।
अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् ॥
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे ।
सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ॥
पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत ।
श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ॥
गत्या ललितयोदार हासलीलावलोकनैः ।
माध्व्या गिरा हृतधियः कथं तं विस्मराम हे ॥
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥
श्रीशुक उवाच
ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः ।
उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥
उवास कतिचिन्मासान्गोपीनां विनुदन्शुचः ।
कृष्णलीलाकथां गायन्रमयामास गोकुलम् ॥
यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः ।
व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया ॥
सरिद्वनगिरिद्रोणीर्वीक्षन्कुसुमितान्द्रुमान् ।
कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम् ॥
दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् ।
उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ॥
एताः परं तनुभृतो भुवि गोपवध्वो ।
गोविन्द एव निखिलात्मनि रूढभावाः ॥
वाञ्छन्ति यद्भवभियो मुनयो वयं च ।
किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥
क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः ।
कृष्णे क्व चैष परमात्मनि रूढभावः ॥
नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच् ।
छ्रेयस्तनोत्यगदराज इवोपयुक्तः ॥
नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः ।
स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः ॥
रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ ।
लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ॥
आसामहो चरणरेणुजुषामहं स्यां ।
वृन्दावने किमपि गुल्मलतौषधीनाम् ॥
या दुस्त्यजं स्वजनमार्यपथं च हित्वा ।
भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥
या वै श्रियार्चितमजादिभिराप्तकामैर् ।
योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् ॥
कृष्णस्य तद्भगवतः चरणारविन्दं ।
न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥
वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः ।
यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥
श्रीशुक उवाच
अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च ।
गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥
तं निर्गतं समासाद्य नानोपायनपाणयः ।
नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ॥
मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः ।
वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ॥
कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया ।
मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ॥
एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप ।
उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ॥
कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् ।
वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ॥