Chapter- 38

श्रीशुक उवाच
अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः ।
उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥

गच्छन्पथि महाभागो भगवत्यम्बुजेक्षणे ।
भक्तिं परामुपगत एवमेतदचिन्तयत् ॥

किं मयाचरितं भद्रं किं तप्तं परमं तपः ।
किं वाथाप्यर्हते दत्तं यद्द्रक्ष्याम्यद्य केशवम् ॥

ममैतद्दुर्लभं मन्य उत्तमःश्लोकदर्शनम् ।
विषयात्मनो यथा ब्रह्म कीर्तनं शूद्रजन्मनः ॥

मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् ।
ह्रियमाणः कलनद्या क्वचित्तरति कश्चन ॥

ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः ।
यन्नमस्ये भगवतो योगिध्येयान्घ्रिपङ्कजम् ॥

कंसो बताद्याकृत मेऽत्यनुग्रहं द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽम ।
कृतावतारस्य दुरत्ययं तमः पूर्वेऽतरन्यन्नखमण्डलत्विषा ॥

यदर्चितं ब्रह्मभवादिभिः सुरैः ।
श्रिया च देव्या मुनिभिः ससात्वतैः ॥
गोचारणायानुचरैश्चरद्वने ।
यद्गोपिकानां कुचकुङ्कुमाङ्कितम् ॥

द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम् ।
मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥

अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया ।
लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात्फलमञ्जसा दृशः ॥

य ईक्षिताहंरहितोऽप्यसत्सतोः स्वतेजसापास्ततमोभिदाभ्रमः ।
स्वमाययात्मन्रचितैस्तदीक्षया प्राणाक्षधीभिः सदनेष्वभीयते ॥

यस्याखिलामीवहभिः सुमङ्गलैः वाचो विमिश्रा गुणकर्मजन्मभिः ।
प्राणन्ति शुम्भन्ति पुनन्ति वै जगत्यास्तद्विरक्ताः शवशोभना मत ॥

स चावतीर्णः किल सत्वतान्वये स्वसेतुपालामरवर्यशर्मकृत् ।
यशो वितन्वन्व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम् ॥

तं त्वद्य नूनं महतां गतिं गुरुं ।
त्रैलोक्यकान्तं दृशिमन्महोत्सवम् ॥
रूपं दधानं श्रिय ईप्सितास्पदं ।
द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ॥

अथावरूढः सपदीशयो रथात्प्रधानपुंसोश्चरणं स्वलब्धये ।
धिया धृतं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखीन्वनौकसः ॥

अप्यङ्घ्रिमूले पतितस्य मे विभुः ।
शिरस्यधास्यन्निजहस्तपङ्कजम् ॥
दत्ताभयं कालभुजाङ्गरंहसा ।
प्रोद्वेजितानां शरणैषिणां णृनाम् ॥

समर्हणं यत्र निधाय कौशिकस्तथा बलिश्चाप जगत्त्रयेन्द्रताम् ।
यद्वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥

न मय्युपैष्यत्यरिबुद्धिमच्युतः ।
कंसस्य दूतः प्रहितोऽपि विश्वदृक् ॥
योऽन्तर्बहिश्चेतस एतदीहितं ।
क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥

अप्यङ्घ्रिमूलेऽवहितं कृताञ्जलिं ।
मामीक्षिता सस्मितमार्द्रया दृशा ॥
सपद्यपध्वस्तसमस्तकिल्बिषो ।
वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥

सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ ।
आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यत ॥

लब्ध्वाङ्गसङ्गम्प्रणतम्कृताञ्जलिं ।
मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः ॥
तदा वयं जन्मभृतो महीयसा ।
नैवादृतो यो धिगमुष्य जन्म तत् ॥

न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव ।
तथापि भक्तान्भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥

किं चाग्रजो मावनतं यदूत्तमः स्मयन्परिष्वज्य गृहीतमञ्जलौ ।
गृहं प्रवेष्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुष ॥

श्रीशुक उवाच
इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि ।
रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ॥

पदानि तस्याखिललोकपाल किरीटजुष्टामलपादरेणोः ।
ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यैः ॥

तद्दर्शनाह्लादविवृद्धसम्भ्रमः ।
प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः ॥
रथादवस्कन्द्य स तेष्वचेष्टत ।
प्रभोरमून्यङ्घ्रिरजांस्यहो इति ॥

देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् ।
सन्देशाद्यो हरेर्लिङ्ग दर्शनश्रवणादिभिः ॥

ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ ।
पीतनीलाम्बरधरौ शरदम्बुरहेक्षणौ ॥

किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ ।
सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥

ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम् ।
शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥

उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ ।
पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥

प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती ।
अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥

दिशो वितिमिरा राजन्कुर्वाणौ प्रभया स्वया ।
यथा मारकतः शैलो रौप्यश्च कनकाचितौ ॥

रथात्तूर्णमवप्लुत्य सोऽक्रूरः स्नेहविह्वलः ।
पपात चरणोपान्ते दण्डवद्रामकृष्णयोः ॥

भगवद्दर्शनाह्लाद बाष्पपर्याकुलेक्षणः ।
पुलकचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ॥

भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना ।
परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥

सङ्कर्षणश्च प्रणतमुपगुह्य महामनाः ।
गृहीत्वा पाणिना पाणी अनयत्सानुजो गृहम् ॥

पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् ।
प्रक्षाल्य विधिवत्पादौ मधुपर्कार्हणमाहरत् ॥

निवेद्य गां चातिथये संवाह्य श्रान्तमाडृतः ।
अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद्विभुः ॥

तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् ।
मखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात्पुनः ॥

पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।
कंसे जीवति दाशार्ह सौनपाला इवावयः ॥

योऽवधीत्स्वस्वसुस्तोकान्क्रोशन्त्या असुतृप्खलः ।
किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे ॥

इत्थं सूनृतया वाचा नन्देन सुसभाजितः ।
अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ॥