Chapter- 37

श्रीशुक उवाच
केशी तु कंसप्रहितः खुरैर्महीं ।
महाहयो निर्जरयन्मनोजवः ॥
सटावधूताभ्रविमानसङ्कुलं ।
कुर्वन्नभो हेषितभीषिताखिलः ॥

तं त्रासयन्तं भगवान्स्वगोकुलं ।
तद्धेषितैर्वालविघूर्णिताम्बुदम् ॥
आत्मानमाजौ मृगयन्तमग्रणीर् ।
उपाह्वयत्स व्यनदन्मृगेन्द्रवत् ॥

स तं निशाम्याभिमुखो मखेन खं ।
पिबन्निवाभ्यद्रवदत्यमर्षणः ॥
जघान पद्भ्यामरविन्दलोचनं ।
दुरासदश्चण्डजवो दुरत्ययः ॥

तद्वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादय ।
सावज्ञमुत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥

सः लब्धसंज्ञः पुनरुत्थितो रुषा ।
व्यादाय केशी तरसापतद्धरिम् ॥
सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन् ।
प्रवेशयामास यथोरगं बिले ॥

दन्ता निपेतुर्भगवद्भुजस्पृशस् ।
ते केशिनस्तप्तमयस्पृशो यथा ॥
बाहुश्च तद्देहगतो महात्मनो ।
यथामयः संववृधे उपेक्षितः ॥

समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन् ।
प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लण्डं विसृजन्क्षितौ व्यसु ॥

तद्देहतः कर्कटिकाफलोपमाद्व्यसोरपाकृष्य भुजं महाभुजः ।
अविस्मितोऽयत्नहतारिकः सुरैः प्रसूनवर्षैर्वर्षद्भिरीडितः ॥

देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप ।
कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥

कृष्ण कृष्णाप्रमेयात्मन्योगेश जगदीश्वर ।
वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥

त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ।
गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥

आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान् ।
तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः ॥

स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् ।
अवतीर्णो विनाशाय साधुनां रक्षणाय च ॥

दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः ।
यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् ॥

चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् ।
कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥

तस्यानु शङ्खयवन मुराणां नरकस्य च ।
पारिजातापहरणमिन्द्रस्य च पराजयम् ॥

उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् ।
नृगस्य मोक्षणं शापाद्द्वारकायां जगत्पते ॥

स्यमन्तकस्य च मणेरादानं सह भार्यया ।
मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥

पौण्ड्रकस्य वधं पश्चात्काशिपुर्याश्च दीपनम् ।
दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥

यानि चान्यानि वीर्याणि द्वारकामावसन्भवान् ।
कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥

अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै ।
अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥

विशुद्धविज्ञानघनं स्वसंस्थया ।
समाप्तसर्वार्थममोघवाञ्छितम् ॥
स्वतेजसा नित्यनिवृत्तमाया ।
गुणप्रवाहं भगवन्तमीमहि ॥

त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् ।
क्रीडार्थमद्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्व ॥

श्रीशुक उवाच
एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः ।
प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥

भगवानपि गोविन्दो हत्वा केशिनमाहवे ।
पशूनपालयत्पालैः प्रीतैर्व्रजसुखावहः ॥

एकदा ते पशून्पालाश्चारयन्तोऽद्रिसानुषु ।
चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः ॥

तत्रासन्कतिचिच्चोराः पालाश्च कतिचिन्नृप ।
मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ॥

मयपुत्रो महामायो व्योमो गोपालवेषधृक् ।
मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥

गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः ।
शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥

तस्य तत्कर्म विज्ञाय कृष्णः शरणदः सताम् ।
गोपान्नयन्तं जग्राह वृकं हरिरिवौजसा ॥

स निजं रूपमास्थाय गिरीन्द्रसदृशं बली ।
इच्छन्विमोक्तुमात्मानं नाशक्नोद्ग्रहणातुरः ॥

तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले ।
पश्यतां दिवि देवानां पशुमारममारयत् ॥

गुहापिधानं निर्भिद्य गोपान्निःसार्य कृच्छ्रतः ।
स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ॥