Chapter- 29
श्रीबादरायणिरुवाच ।
भगवानपि ता रात्रिः शारदोत्फुल्लमल्लिकाः ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥
तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः ।
स चर्षणीनामुदगाच्छुचो मृजन्प्रियः प्रियाया इव दीर्घदर्शनः ॥
दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं ।
रमाननाभं नवकुङ्कुमारुणम् ॥
वनं च तत्कोमलगोभी रञ्जितं ।
जगौ कलं वामदृशां मनोहरम् ॥
निशम्य गीतां तदनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः ।
आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥
दुहन्त्योऽभिययुः काश्चिद्दोहं हित्वा समुत्सुकाः ।
पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः ॥
परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून्पयः ।
शुश्रूषन्त्यः पतीन्काश्चिदश्नन्त्योऽपास्य भोजनम् ॥
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।
व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥
ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः ।
गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥
अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः ।
कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥
दुःसहप्रेष्ठविरह तीव्रतापधुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेष निर्वृत्या क्षीणमङ्गलाः ॥
तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः ।
जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥
श्रीपरीक्षिदुवाच ।
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।
गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥
श्रीशुक उवाच
उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥
नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥
कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥
न चैवं विस्मयः कार्यो भवता भगवत्यजे ।
योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते ॥
ता दृष्ट्वान्तिकमायाता भगवान्व्रजयोषितः ।
अवदद्वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥
श्रीभगवानुवाच ।
स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।
व्रजस्यानामयं कच्चिद्ब्रूतागमनकारणम् ॥
रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।
प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।
विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥
दृष्टं वनं कुसुमितं राकेशकररञ्जितम् ।
यमुनानिललीलैजत्तरुपल्लवशोभितम् ॥
तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन्सतीः ।
क्रन्दन्ति वत्सा बालाश्च तान्पाययत दुह्यत ॥
अथ वा मदभिस्नेहाद्भवत्यो यन्त्रिताशयाः ।
आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥
भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।
तद्बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥
दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।
पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥
अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रियः ॥
श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् ।
न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥
श्रीशुक उवाच
इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।
विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम् ॥
कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद् ।
बिम्बाधराणि चरणेन भुवः लिखन्त्यः ॥
अस्रैरुपात्तमसिभिः कुचकुङ्कुमानि ।
तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥
प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं ।
कृष्णं तदर्थविनिवर्तितसर्वकामाः ॥
नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् ।
संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः ॥
श्रीगोप्य ऊचुः
मैवं विभोऽर्हति भवान्गदितुं नृशंसं
सन्त्यज्य सर्वविषयांस्तव पादमूलम्
भक्ता भजस्व दुरवग्रह मा त्यजास्मान्
देवो यथादिपुरुषो भजते मुमुक्षून्
यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग ।
स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ॥
अस्त्वेवमेतदुपदेशपदे त्वयीशे ।
प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥
कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् ।
नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ॥
तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या ।
आशां धृतां त्वयि चिरादरविन्दनेत्र ॥
चित्तं सुखेन भवतापहृतं गृहेषु ।
यन्निर्विशत्युत करावपि गृह्यकृत्ये ॥
पादौ पदं न चलतस्तव पादमूलाद् ।
यामः कथं व्रजमथो करवाम किं वा ॥
सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण ।
हासावलोककलगीतजहृच्छयाग्निम् ॥
नो चेद्वयं विरहजाग्न्युपयुक्तदेहा ।
ध्यानेन याम पदयोः पदवीं सखे ते ॥
यर्ह्यम्बुजाक्ष तव पादतलं रमाया ।
दत्तक्षणं क्वचिदरण्यजनप्रियस्य ॥
अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमञ्जः ।
स्थातुंस्त्वयाभिरमिता बत पारयामः ॥
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या ।
लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ॥
यस्याः स्ववीक्षण उतान्यसुरप्रयासस् ।
तद्वद्वयं च तव पादरजः प्रपन्नाः ॥
तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं ।
प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ॥
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम ।
तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥
वीक्ष्यालकावृतमुखं तव कुण्डलश्री ।
गण्डस्थलाधरसुधं हसितावलोकम् ॥
दत्ताभयं च भुजदण्डयुगं विलोक्य ।
वक्षः श्रियैकरमणं च भवाम दास्यः ॥
का स्त्र्यङ्ग ते कलपदायतवेणुगीत ।
सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् ॥
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं ।
यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥
व्यक्तं भवान्व्रजभयार्तिहरोऽभिजातो ।
देवो यथादिपुरुषः सुरलोकगोप्ता ॥
तन्नो निधेहि करपङ्कजमार्तबन्धो ।
तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ॥
श्रीशुक उवाच
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।
प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥
ताभिः समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ।
उदारहासद्विजकुन्ददीधतिर्व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥
उपगीयमान उद्गायन्वनिताशतयूथपः ।
मालां बिभ्रद्वैजयन्तीं व्यचरन्मण्डयन्वनम् ॥
नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।
जुष्टं तत्तरलानन्दि कुमुदामोदवायुना ॥
बाहुप्रसारपरिरम्भकरालकोरु नीवीस्तनालभननर्मनखाग्रपातैः ।
क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणामुत्तम्भयन्रतिपतिं रमयां चक ॥
एवं भगवतः कृष्णाल्लब्धमाना महात्मनः ।
आत्मानं मेनिरे स्त्रीणां मानिन्यो ह्यधिकं भुवि ॥
तासां तत्सौभगमदं वीक्ष्य मानं च केशवः ।
प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥