Chapter- 21

श्रीशुक उवाच
इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ।
न्यविशद्वायुना वातं स गोगोपालकोऽच्युतः ॥

कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम् ।
मधुपतिरवगाह्य चारयन्गाः सहपशुपालबलश्चुकूज वेणुम् ॥

तद्व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् ।
काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥

तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ।
नाशकन्स्मरवेगेन विक्षिप्तमनसो नृप ॥

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं ।
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ॥
रन्ध्रान्वेणोरधरसुधयापूरयन्गोपवृन्दैर् ।
वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥

इति वेणुरवं राजन्सर्वभूतमनोहरम् ।
श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ॥

श्रीगोप्य ऊचुः
अक्षण्वतां फलमिदं न परं विदामः
सख्यः पशूननविवेशयतोर्वयस्यैः
वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं
यैर्वा निपीतमनुरक्तकटाक्षमोक्षम्

चूतप्रवालबर्हस्तबकोत्पलाब्ज मालानुपृक्तपरिधानविचित्रवेशौ ।
मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्वच गायमानौ ॥

गोप्यः किमाचरदयं कुशलं स्म वेणुर् ।
दामोदराधरसुधामपि गोपिकानाम् ॥
भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो ।
हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्यः ॥

वृन्दावनं सखि भुवो वितनोति कीऋतिं ।
यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि ॥
गोविन्दवेणुमनु मत्तमयूरनृत्यं ।
प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् ॥

धन्याः स्म मूढगतयोऽपि हरिण्य एता ।
या नन्दनन्दनमुपात्तविचित्रवेशम् ॥
आकर्ण्य वेणुरणितं सहकृष्णसाराः ।
पूजां दधुर्विरचितां प्रणयावलोकैः ॥

कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं ।
श्रुत्वा च तत्क्वणितवेणुविविक्तगीतम् ॥
देव्यो विमानगतयः स्मरनुन्नसारा ।
भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः ॥

गावश्च कृष्णमुखनिर्गतवेणुगीत ।
पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः ॥
शावाः स्नुतस्तनपयःकवलाः स्म तस्थुर् ।
गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ॥

प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन् ।
कृष्णेक्षितं तदुदितं कलवेणुगीतम् ॥
आरुह्य ये द्रुमभुजान्रुचिरप्रवालान् ।
श‍ृण्वन्ति मीलितदृशो विगतान्यवाचः ॥

नद्यस्तदा तदुपधार्य मुकुन्दगीतम् ।
आवर्तलक्षितमनोभवभग्नवेगाः ॥
आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेर् ।
गृह्णन्ति पादयुगलं कमलोपहाराः ॥

दृष्ट्वातपे व्रजपशून्सह रामगोपैः ।
सञ्चारयन्तमनु वेणुमुदीरयन्तम् ॥
प्रेमप्रवृद्ध उदितः कुसुमावलीभिः ।
सख्युर्व्यधात्स्ववपुषाम्बुद आतपत्रम् ॥

पूर्णाः पुलिन्द्य उरुगायपदाब्जराग ।
श्रीकुङ्कुमेन दयितास्तनमण्डितेन ॥
तद्दर्शनस्मररुजस्तृणरूषितेन ।
लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥

हन्तायमद्रिरबला हरिदासवर्यो ।
यद्रामकृष्णचरणस्परशप्रमोदः ॥
मानं तनोति सहगोगणयोस्तयोर्यत् ।
पानीयसूयवसकन्दरकन्दमूलैः ॥

गा गोपकैरनुवनं नयतोरुदार ।
वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः ॥
अस्पन्दनं गतिमतां पुलकस्तरुणां ।
निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥

एवंविधा भगवतो या वृन्दावनचारिणः ।
वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥