Chapter- 16
श्रीशुक उवाच
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।
तस्या विशुद्धिमन्विच्छन्सर्पं तमुदवासयत् ॥
श्रीराजोवाच ।
कथमन्तर्जलेऽगाधे न्यगृह्णाद्भगवानहिम् ।
स वै बहुयुगावासं यथासीद्विप्र कथ्यताम् ॥
ब्रह्मन्भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः ।
गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥
श्रीशुक उवाच
कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना ।
श्रप्यमाणपया यस्मिन्पतन्त्युपरिगाः खगाः ॥
विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः ।
म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ॥
तं चण्डवेगविषवीर्यमवेक्ष्य तेन ।
दुष्टां नदीं च खलसंयमनावतारः ॥
कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गम् ।
आस्फोट्य गाढरशनो न्यपतद्विषोदे ॥
सर्पह्रदः पुरुषसारनिपातवेग ।
सङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः ॥
पर्यक्प्लुतो विषकषायबिभीषणोर्मिर् ।
धावन्धनुःशतमनन्तबलस्य किं तत् ॥
तस्य ह्रदे विहरतो भुजदण्डघूर्ण ।
वार्घोषमङ्ग वरवारणविक्रमस्य ॥
आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य ।
चक्षुःश्रवाः समसरत्तदमृष्यमाणः ॥
तं प्रेक्षणीयसुकुमारघनावदातं ।
श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् ॥
क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं ।
सन्दश्य मर्मसु रुषा भुजया चछाद ॥
तं नागभोगपरिवीतमदृष्टचेष्टम् ।
आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः ॥
कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा ।
दुःखानुशोकभयमूढधियो निपेतुः ॥
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।
कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥
अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः ।
उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः ॥
तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः ।
विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥
तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः ।
तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥
आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः ।
निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः ॥
तांस्तथा कातरान्वीक्ष्य भगवान्माधवो बलः ।
प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥
तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः ।
भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥
ते तत्र तत्राब्जयवाङ्कुशाशनि ध्वजोपपन्नानि पदानि विश्पतेः ।
मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः ॥
अन्तर्ह्रदे भुजगभोगपरीतमारात् ।
कृष्णं निरीहमुपलभ्य जलाशयान्ते ॥
गोपांश्च मूढधिषणान्परितः पशूंश्च ।
सङ्क्रन्दतः परमकश्मलमापुरार्ताः ॥
गोप्योऽनुरक्तमनसो भगवत्यनन्ते ।
तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः ॥
ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः ।
शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥
ताः कृष्णमातरमपत्यमनुप्रविष्टां ।
तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः ॥
तास्ता व्रजप्रियकथाः कथयन्त्य आसन् ।
कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥
कृष्णप्राणान्निर्विशतो नन्दादीन्वीक्ष्य तं ह्रदम् ।
प्रत्यषेधत्स भगवान्रामः कृष्णानुभाववित् ॥
इत्थम्स्वगोकुलमनन्यगतिं निरीक्ष्य ।
सस्त्रीकुमारमतिदुःखितमात्महेतोः ॥
आज्ञाय मर्त्यपदवीमनुवर्तमानः ।
स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ॥
तत्प्रथ्यमानवपुषा व्यथितात्मभोगस् ।
त्यक्त्वोन्नमय्य कुपितः स्वफणान्भुजङ्गः ॥
तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष ।
स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥
तं जिह्वया द्विशिखया परिलेलिहानं ।
द्वे सृक्वणी ह्यतिकरालविषाग्निदृष्टिम् ॥
क्रीडन्नमुं परिससार यथा खगेन्द्रो ।
बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥
एवं परिभ्रमहतौजसमुन्नतांसम् ।
आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः ॥
तन्मूर्धरत्ननिकरस्पर्शातिताम्र ।
पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥
तं नर्तुमुद्यतमवेक्ष्य तदा तदीय ।
गन्धर्वसिद्धमुनिचारणदेववध्वः ॥
प्रीत्या मृदङ्गपणवानकवाद्यगीत ।
पुष्पोपहारनुतिभिः सहसोपसेदुः ॥
यद्यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्णस् ।
तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः ॥
क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ् ।
नस्तो वमन्परमकश्मलमाप नागः ॥
तस्याक्षिभिर्गरलमुद्वमतः शिरःसु ।
यद्यत्समुन्नमति निःश्वसतो रुषोच्चैः ॥
नृत्यन्पदानुनमयन्दमयां बभूव ।
पुष्पैः प्रपूजित इवेह पुमान्पुराणः ॥
तच्चित्रताण्डवविरुग्नफणासहस्रो ।
रक्तं मुखैरुरु वमन्नृप भग्नगात्रः ॥
स्मृत्वा चराचरगुरुं पुरुषं पुराणं ।
नारायणं तमरणं मनसा जगाम ॥
कृष्णस्य गर्भजगतोऽतिभरावसन्नं ।
पार्ष्णिप्रहारपरिरुग्नफणातपत्रम् ॥
दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य ।
आर्ताः श्लथद्वसनभूषणकेशबन्धाः ॥
तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः ।
कायं निधाय भुवि भूतपतिं प्रणेमुः ॥
साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुर् ।
मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥
नागपत्न्य ऊचुः
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस्
तवावतारः खलनिग्रहाय
रिपोः सुतानामपि तुल्यदृष्टिर्
धत्से दमं फलमेवानुशंसन्
अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः ।
यद्दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥
तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन ।
धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ॥
कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्परशाधिकारः ।
यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान्सुचिरं धृतव्रता ॥
न नाकपृष्ठं न च सार्वभौमं ।
न पारमेष्ठ्यं न रसाधिपत्यम् ॥
न योगसिद्धीरपुनर्भवं वा ।
वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥
तदेष नाथाप दुरापमन्यैस्तमोजनिः क्रोधवशोऽप्यहीशः ।
संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद्विभवः समक्षः ॥
नमस्तुभ्यं भगवते पुरुषाय महात्मने ।
भूतावासाय भूताय पराय परमात्मने ॥
ज्ञानविज्ञाननीधये ब्रह्मणेऽनन्तशक्तये ।
अगुणायाविकाराय नमस्ते प्राकृताय च ॥
कालाय कालनाभाय कालावयवसाक्षिणे ।
विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥
भूतमात्रेन्द्रियप्राण मनोबुद्ध्याशयात्मने ।
त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥
नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते ।
नानावादानुरोधाय वाच्यवाचकशक्तये ॥
नमः प्रमाणमूलाय कवये शास्त्रयोनये ।
प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥
नमः कृष्णाय रामाय वसुदेवसुताय च ।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥
नमो गुणप्रदीपाय गुणात्मच्छादनाय च ।
गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ॥
अव्याकृतविहाराय सर्वव्याकृतसिद्धये ।
हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥
परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः ।
अविश्वाय च विश्वाय तद्द्रष्ट्रेऽस्य च हेतवे ॥
त्वं ह्यस्य जन्मस्थितिसंयमान्विभो ।
गुणैरनीहोऽकृतकालशक्तिधृक् ॥
तत्तत्स्वभावान्प्रतिबोधयन्सतः ।
समीक्षयामोघविहार ईहसे ॥
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां ।
शान्ता अशान्ता उत मूढयोनयः ॥
शान्ताः प्रियास्ते ह्यधुनावितुं सतां ।
स्थातुश्च ते धर्मपरीप्सयेहतः ॥
अपराधः सकृद्भर्त्रा सोढव्यः स्वप्रजाकृतः ।
क्षन्तुमर्हसि शान्तात्मन्मूढस्य त्वामजानतः ॥
अनुगृह्णीष्व भगवन्प्राणांस्त्यजति पन्नगः ।
स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥
विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया ।
यच्छ्रद्धयानुतिष्ठन्वै मुच्यते सर्वतो भयात् ॥
श्रीशुक उवाच
इत्थं स नागपत्नीभिर्भगवान्समभिष्टुतः ।
मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ॥
प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् ।
कृच्छ्रात्समुच्छ्वसन्दीनः कृष्णं प्राह कृताञ्जलिः ॥
कालिय उवाच
वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः ।
स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः ॥
त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् ।
नानास्वभाववीर्यौजो योनिबीजाशयाकृति ॥
वयं च तत्र भगवन्सर्पा जात्युरुमन्यवः ।
कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ॥
भवान्हि कारणं तत्र सर्वज्ञो जगदीश्वरः ।
अनुग्रहं निग्रहं वा मन्यसे तद्विधेहि नः ॥
श्रीशुक उवाच
इत्याकर्ण्य वचः प्राह भगवान्कार्यमानुषः ।
नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।
स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यते नदी ॥
य एतत्संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् ।
कीर्तयन्नुभयोः सन्ध्योर्न युष्मद्भयमाप्नुयात् ॥
योऽस्मिन्स्नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलैः ।
उपोष्य मां स्मरन्नर्चेत्सर्वपापैः प्रमुच्यते ॥
द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः ।
यद्भयात्स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् ॥
श्रीऋषिरुवाच ।
मुक्तो भगवता राजन्कृष्णेनाद्भुतकर्मणा ।
तं पूजयामास मुदा नागपत्न्यश्च सादरम् ॥
दिव्याम्बरस्रङ्मणिभिः परार्ध्यैरपि भूषणैः ।
दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥
पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् ।
ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह ।
तदैव सामृतजला यमुना निर्विषाभवत् ।
अनुग्रहाद्भगवतः क्रीडामानुषरूपिणः ॥