Chapter- 12
श्रीशुक उवाच
क्वचिद्वनाशाय मनो दधद्व्रजात्प्रातः समुत्थाय वयस्यवत्सपान् ।
प्रबोधयञ्छृङ्गरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः ॥
तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः ।
स्वान्स्वान्सहस्रोपरिसङ्ख्ययान्वितान्वत्सान्पुरस्कृत्य विनिर् ॥
कृष्णवत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकान् ।
चारयन्तोऽर्भलीलाभिर्विजह्रुस्तत्र तत्र ह ॥
फलप्रबालस्तवक सुमनःपिच्छधातुभिः ।
काचगुञ्जामणिस्वर्ण भूषिता अप्यभूषयन् ॥
मुष्णन्तोऽन्योन्यशिक्यादीन्ज्ञातानाराच्च चिक्षिपुः ।
तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः ॥
यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् ।
अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ॥
केचिद्वेणून्वादयन्तो ध्मान्तः शृङ्गाणि केचन ।
केचिद्भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥
विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः ।
बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥
विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान् ।
विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥
साकं भेकैर्विलङ्घन्तः सरितः स्रवसम्प्लुताः ।
विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ॥
इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन ।
मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ॥
यत्पादपांसुर्बहुजन्मकृच्छ्रतो ।
धृतात्मभिर्योगिभिरप्यलभ्यः ॥
स एव यद्दृग्विषयः स्वयं स्थितः ।
किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥
अथाघनामाभ्यपतन्महासुरस्तेषां सुखक्रीडनवीक्षणाक्षमः ।
नित्यं यदन्तर्निजजीवितेप्सुभिः पीतामृतैरप्यमरैः प्रतीक्ष्यते ॥
दृष्ट्वार्भकान्कृष्णमुखानघासुरः ।
कंसानुशिष्टः स बकीबकानुजः ॥
अयं तु मे सोदरनाशकृत्तयोर् ।
द्वयोर्ममैनं सबलं हनिष्ये ॥
एते यदा मत्सुहृदोस्तिलापः कृतास्तदा नष्टसमा व्रजौकसः ।
प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राणभृतो हि ये ते ॥
इति व्यवस्याजगरं बृहद्वपुः स योजनायाममहाद्रिपीवरम् ।
धृत्वाद्भुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः ॥
धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्गदंष्ट्रः ।
ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः ॥
दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् ।
व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥
अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम् ।
अस्मत्सङ्ग्रसनव्यात्त व्यालतुण्डायते न वा ॥
सत्यमर्ककरारक्तमुत्तराहनुवद्घनम् ।
अधराहनुवद्रोधस्तत्प्रतिच्छाययारुणम् ॥
प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे ।
तुङ्गशृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत ॥
आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति ।
एषां अन्तर्गतं ध्वान्तमेतदप्यन्तराननम् ॥
दावोष्णखरवातोऽयं श्वासवद्भाति पश्यत ।
तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत् ॥
अस्मान्किमत्र ग्रसिता निविष्टानयं तथा चेद्बकवद्विनङ्क्ष्यति ।
क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥
इत्थं मिथोऽतथ्यमतज्ज्ञभाषितं ।
श्रुत्वा विचिन्त्येत्यमृषा मृषायते ॥
रक्षो विदित्वाखिलभूतहृत्स्थितः ।
स्वानां निरोद्धुं भगवान्मनो दधे ॥
तावत्प्रविष्टास्त्वसुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः ।
प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा ॥
तान्वीक्ष्य कृष्णः सकलाभयप्रदो ।
ह्यनन्यनाथान्स्वकरादवच्युतान् ॥
दीनांश्च मृत्योर्जठराग्निघासान् ।
घृणार्दितो दिष्टकृतेन विस्मितः ॥
कृत्यं किमत्रास्य खलस्य जीवनं ।
न वा अमीषां च सतां विहिंसनम् ॥
द्वयं कथं स्यादिति संविचिन्त्य ।
ज्ञात्वाविशत्तुण्डमशेषदृग्घरिः ॥
तदा घनच्छदा देवा भयाद्धाहेति चुक्रुशुः ।
जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ॥
तच्छ्रुत्वा भगवान्कृष्णस्त्वव्ययः सार्भवत्सकम् ।
चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥
ततोऽतिकायस्य निरुद्धमार्गिणो ह्युद्गीर्णदृष्टेर्भ्रमतस्त्वितस ।
पूर्णोऽन्तरङ्गे पवनो निरुद्धो मूर्धन्विनिर्भिद्य विनिर्गतो बह ॥
तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान्सुहृदः परेतान् ।
दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनर्वक्त्रान्मुकुन्दो भगवान्व ॥
पीनाहिभोगोत्थितमद्भुतं महज्ज्योतिः स्वधाम्ना ज्वलयद्दिशो दश ।
प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं विवेश तस्मिन्मिषतां दिवौकसाम् ॥
ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं ।
पुष्पैः सुगा अप्सरसश्च नर्तनैः ॥
गीतैः सुरा वाद्यधराश्च वाद्यकैः ।
स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ॥
तदद्भुतस्तोत्रसुवाद्यगीतिका जयादिनैकोत्सवमङ्गलस्वनान् ।
श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद्दृष्ट्वा महीशस्य जगाम वि ॥
राजन्नाजगरं चर्म शुष्कं वृन्दावनेऽद्भुतम् ।
व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥
एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम् ।
मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ॥
नैतद्विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः ।
अघोऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥
सकृद्यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम् ।
स एव नित्यात्मसुखानुभूत्यभि व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥
श्रीसूत उवाच
इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् ।
पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकिं यन्निगृहीतचेताः ॥
श्रीराजोवाच ।
ब्रह्मन्कालान्तरकृतं तत्कालीनं कथं भवेत् ।
यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ॥
तद्ब्रूहि मे महायोगिन्परं कौतूहलं गुरो ।
नूनमेतद्धरेरेव माया भवति नान्यथा ॥
वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः ।
वयं पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ॥
श्रीसूत उवाच
इत्थं स्म पृष्टः स तु बादरायणिस् ।
तत्स्मारितानन्तहृताखिलेन्द्रियः ॥
कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः ।
प्रत्याह तं भागवतोत्तमोत्तम ॥