Chapter- 8

श्रीशुक उवाच
गर्गः पुरोहितो राजन्यदूनां सुमहातपाः ।
व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः ॥

तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः ।
आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥

सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् ।
नन्दयित्वाब्रवीद्ब्रह्मन्पूर्णस्य करवाम किम् ॥

महद्विचलनं नॄणां गृहिणां दीनचेतसाम् ।
निःश्रेयसाय भगवन्कल्पते नान्यथा क्वचित् ॥

ज्योतिषामयनं साक्षाद्यत्तज्ज्ञानमतीन्द्रियम् ।
प्रणीतं भवता येन पुमान्वेद परावरम् ॥

त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान्कर्तुमर्हसि ।
बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥

श्रीगर्ग उवाच
यदूनामहमाचार्यः ख्यातश्च भुवि सर्वदा ।
सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥

कंसः पापमतिः सख्यं तव चानकदुन्दुभेः ।
देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥

इति सञ्चिन्तयञ्छ्रुत्वा देवक्या दारिकावचः ।
अपि हन्ता गताशङ्कस्तर्हि तन्नोऽनयो भवेत् ॥

श्रीनन्द उवाच
अलक्षितोऽस्मिन्रहसि मामकैरपि गोव्रजे ।
कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥

श्रीशुक उवाच
एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत् ।
चकार नामकरणं गूढो रहसि बालयोः ॥

श्रीगर्ग उवाच
अयं हि रोहिणीपुत्रो रमयन्सुहृदो गुणैः ।
आख्यास्यते राम इति बलाधिक्याद्बलं विदुः ।
यदूनामपृथग्भावात्सङ्कर्षणमुशन्त्यपि ॥

आसन्वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः ।
शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥

प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः ।
वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥

एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः ।
अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥

पुरानेन व्रजपते साधवो दस्युपीडिताः ।
अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिताः ॥

य एतस्मिन्महाभागाः प्रीतिं कुर्वन्ति मानवाः ।
नारयोऽभिभवन्त्येतान्विष्णुपक्षानिवासुराः ॥

तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः ।
श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥

श्रीशुक उवाच
इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते ।
नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥

कालेन व्रजताल्पेन गोकुले रामकेशवौ ।
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥

तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ ।
घोषप्रघोषरुचिरं व्रजकर्दमेषु ॥
तन्नादहृष्टमनसावनुसृत्य लोकं ।
मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥

तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ ।
पङ्काङ्गरागरुचिरावुपगृह्य दोर्भ्याम् ॥
दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य ।
मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥

यर्ह्यङ्गनादर्शनीयकुमारलीलाव् ।
अन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः ॥
वत्सैरितस्तत उभावनुकृष्यमाणौ ।
प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥

श‍ृङ्ग्यग्निदंष्ट्र्यसिजलद्विजकण्टकेभ्यः ।
क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् ॥
गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ ।
शेकात आपतुरलं मनसोऽनवस्थाम् ॥

कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले ।
अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥

ततस्तु भगवान्कृष्णो वयस्यैर्व्रजबालकैः ।
सहरामो व्रजस्त्रीणां चिक्रीडे जनयन्मुदम् ॥

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् ।
श‍ृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥

वत्सान्मुञ्चन्क्वचिदसमये क्रोशसञ्जातहासः ।
स्तेयं स्वाद्वत्त्यथ दधिपयः कल्पितैः स्तेययोगैः ॥
मर्कान्भोक्ष्यन्विभजति स चेन्नात्ति भाण्डं भिन्नत्ति ।
द्रव्यालाभे सगृहकुपितो यात्युपक्रोश्य तोकान् ॥

हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश् ।
छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ॥
ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं ।
काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥

एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ ।
स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते ॥
इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिर् ।
व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥

एकदा क्रीडमानास्ते रामाद्या गोपदारकाः ।
कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥

सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी ।
यशोदा भयसम्भ्रान्त प्रेक्षणाक्षमभाषत ॥

कस्मान्मृदमदान्तात्मन्भवान्भक्षितवान्रहः ।
वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥

नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः ।
यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥

यद्येवं तर्हि व्यादेही त्युक्तः स भगवान्हरिः ।
व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥

सा तत्र ददृशे विश्वं जगत्स्थास्नु च खं दिशः ।
साद्रिद्वीपाब्धिभूगोलं सवाय्वग्नीन्दुतारकम् ॥

ज्योतिश्चक्रं जलं तेजो नभस्वान्वियदेव च ।
वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥

एतद्विचित्रं सहजीवकाल स्वभावकर्माशयलिङ्गभेदम् ।
सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम् ॥

किं स्वप्न एतदुत देवमाया किं वा मदीयो बत बुद्धिमोहः ।
अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥

अथो यथावन्न वितर्कगोचरं चेतोमनःकर्मवचोभिरञ्जसा ।
यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥

अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती ।
गोप्यश्च गोपाः सहगोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः ॥

इत्थं विदिततत्त्वायां गोपिकायां स ईश्वरः ।
वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः ॥

सद्यो नष्टस्मृतिर्गोपी सारोप्यारोहमात्मजम् ।
प्रवृद्धस्नेहकलिल हृदयासीद्यथा पुरा ॥

त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः ।
उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥

श्रीराजोवाच ।
नन्दः किमकरोद्ब्रह्मन्श्रेय एवं महोदयम् ।
यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥

पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।
गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥

श्रीशुक उवाच
द्रोणो वसूनां प्रवरो धरया भार्यया सह ।
करिष्यमाण आदेशान्ब्रह्मणस्तमुवाच ह ॥

जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ ।
भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥

अस्त्वित्युक्तः स भगवान्व्रजे द्रोणो महायशाः ।
जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥

ततो भक्तिर्भगवति पुत्रीभूते जनार्दने ।
दम्पत्योर्नितरामासीद्गोपगोपीषु भारत ॥

कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः ।
सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥