Chapter- 9
श्रीनारद उवाच
एवं सुरादयः सर्वे ब्रह्मरुद्रपुरः सराः ।
नोपैतुमशकन्मन्यु संरम्भं सुदुरासदम् ॥
साक्षात्श्रीः प्रेषिता देवैर्दृष्ट्वा तं महदद्भुतम् ।
अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता ॥
प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥
तथेति शनकै राजन्महाभागवतोऽर्भकः ।
उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥
स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः ।
उत्थाप्य तच्छीर्ष्ण्यदधात्कराम्बुजं कालाहिवित्रस्तधियां कृताभ ॥
स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः ।
तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥
अस्तौषीद्धरिमेकाग्र मनसा सुसमाहितः ।
प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ॥
श्रीप्रह्राद उवाच
ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः ।
सत्त्वैकतानगतयो वचसां प्रवाहैः ॥
नाराधितुं पुरुगुणैरधुनापि पिप्रुः ।
किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥
मन्ये धनाभिजनरूपतपःश्रुतौजस् ।
तेजःप्रभावबलपौरुषबुद्धियोगाः ॥
नाराधनाय हि भवन्ति परस्य पुंसो ।
भक्त्या तुतोष भगवान्गजयूथपाय ॥
विप्राद्द्विषड्गुणयुतादरविन्दनाभ ।
पादारविन्दविमुखात्श्वपचं वरिष्ठम् ॥
मन्ये तदर्पितमनोवचनेहितार्थ ।
प्राणं पुनाति स कुलं न तु भूरिमानः ॥
नैवात्मनः प्रभुरयं निजलाभपूर्णो ।
मानं जनादविदुषः करुणो वृणीते ॥
यद्यज्जनो भगवते विदधीत मानं ।
तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥
तस्मादहं विगतविक्लव ईश्वरस्य ।
सर्वात्मना महि गृणामि यथा मनीषम् ॥
नीचोऽजया गुणविसर्गमनुप्रविष्टः ।
पूयेत येन हि पुमाननुवर्णितेन ॥
सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो ।
ब्रह्मादयो वयमिवेश न चोद्विजन्तः ॥
क्षेमाय भूतय उतात्मसुखाय चास्य ।
विक्रीडितं भगवतो रुचिरावतारैः ॥
तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य ।
मोदेत साधुरपि वृश्चिकसर्पहत्या ॥
लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे ।
रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥
नाहं बिभेम्यजित तेऽतिभयानकास्य ।
जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ॥
आन्त्रस्रजःक्षतजकेशरशङ्कुकर्णान् ।
निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥
त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र ।
संसारचक्रकदनाद्ग्रसतां प्रणीतः ॥
बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं ।
प्रीतोऽपवर्गशरणं ह्वयसे कदा नु ॥
यस्मात्प्रियाप्रियवियोगसंयोगजन्म ।
शोकाग्निना सकलयोनिषु दह्यमानः ॥
दुःखौषधं तदपि दुःखमतद्धियाहं ।
भूमन्भ्रमामि वद मे तव दास्ययोगम् ॥
सोऽहं प्रियस्य सुहृदः परदेवताया ।
लीलाकथास्तव नृसिंह विरिञ्चगीताः ॥
अञ्जस्तितर्म्यनुगृणन्गुणविप्रमुक्तो ।
दुर्गाणि ते पदयुगालयहंससङ्गः ॥
बालस्य नेह शरणं पितरौ नृसिंह ।
नार्तस्य चागदमुदन्वति मज्जतो नौः ॥
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस् ।
तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ॥
यस्मिन्यतो यर्हि येन च यस्य यस्माद् ।
यस्मै यथा यदुत यस्त्वपरः परो वा ॥
भावः करोति विकरोति पृथक्स्वभावः ।
सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥
माया मनः सृजति कर्ममयं बलीयः ।
कालेन चोदितगुणानुमतेन पुंसः ॥
छन्दोमयं यदजयार्पितषोडशारं ।
संसारचक्रमज कोऽतितरेत्त्वदन्यः ॥
स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना ।
कालो वशीकृतविसृज्यविसर्गशक्तिः ॥
चक्रे विसृष्टमजयेश्वर षोडशारे ।
निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥
दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम् ।
आयुः श्रियो विभव इच्छति यान्जनोऽयम् ॥
येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू ।
विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥
तस्मादमूस्तनुभृतामहमाशिषोऽज्ञ ।
आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् ॥
नेच्छामि ते विलुलितानुरुविक्रमेण ।
कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥
कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः ।
क्वेदं कलेवरमशेषरुजां विरोहः ॥
निर्विद्यते न तु जनो यदपीति विद्वान् ।
कामानलं मधुलवैः शमयन्दुरापैः ॥
क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् ।
जातः सुरेतरकुले क्व तवानुकम्पा ॥
न ब्रह्मणो न तु भवस्य न वै रमाया ।
यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः ॥
नैषा परावरमतिर्भवतो ननु स्याज् ।
जन्तोर्यथात्मसुहृदो जगतस्तथापि ॥
संसेवया सुरतरोरिव ते प्रसादः ।
सेवानुरूपमुदयो न परावरत्वम् ॥
एवं जनं निपतितं प्रभवाहिकूपे ।
कामाभिकाममनु यः प्रपतन्प्रसङ्गात् ॥
कृत्वात्मसात्सुरर्षिणा भगवन्गृहीतः ।
सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥
मत्प्राणरक्षणमनन्त पितुर्वधश्च ।
मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् ॥
खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् ।
त्वामीश्वरो मदपरोऽवतु कं हरामि ॥
एकस्त्वमेव जगदेतममुष्य यत्त्वम् ।
आद्यन्तयोः पृथगवस्यसि मध्यतश्च ॥
सृष्ट्वा गुणव्यतिकरं निजमाययेदं ।
नानेव तैरवसितस्तदनुप्रविष्टः ॥
त्वम्वा इदं सदसदीश भवांस्ततोऽन्यो ।
माया यदात्मपरबुद्धिरियं ह्यपार्था ॥
यद्यस्य जन्म निधनं स्थितिरीक्षणं च ।
तद्वैतदेव वसुकालवदष्टितर्वोः ॥
न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये ।
शेषेत्मना निजसुखानुभवो निरीहः ॥
योगेन मीलितदृगात्मनिपीतनिद्रस् ।
तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥
तस्यैव ते वपुरिदं निजकालशक्त्या ।
सञ्चोदितप्रकृतिधर्मण आत्मगूढम् ॥
अम्भस्यनन्तशयनाद्विरमत्समाधेर् ।
नाभेरभूत्स्वकणिकावटवन्महाब्जम् ॥
तत्सम्भवः कविरतोऽन्यदपश्यमानस् ।
त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य ॥
नाविन्ददब्दशतमप्सु निमज्जमानो ।
जातेऽङ्कुरे कथमुहोपलभेत बीजम् ॥
स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं ।
कालेन तीव्रतपसा परिशुद्धभावः ॥
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं ।
भूतेन्द्रियाशयमये विततं ददर्श ॥
एवं सहस्रवदनाङ्घ्रिशिरःकरोरु ।
नासाद्यकर्णनयनाभरणायुधाढ्यम् ॥
मायामयं सदुपलक्षितसन्निवेशं ।
दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥
तस्मै भवान्हयशिरस्तनुवं हि बिभ्रद् ।
वेदद्रुहावतिबलौ मधुकैटभाख्यौ ॥
हत्वानयच्छ्रुतिगणांश्च रजस्तमश्च ।
सत्त्वं तव प्रियतमां तनुमामनन्ति ॥
इत्थं नृतिर्यगृषिदेवझषावतारैर् ।
लोकान्विभावयसि हंसि जगत्प्रतीपान् ॥
धर्मं महापुरुष पासि युगानुवृत्तं ।
छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥
नैतन्मनस्तव कथासु विकुण्ठनाथ ।
सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् ॥
कामातुरं हर्षशोकभयैषणार्तं ।
तस्मिन्कथं तव गतिं विमृशामि दीनः ॥
जिह्वैकतोऽच्युत विकर्षति मावितृप्ता ।
शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ॥
घ्राणोऽन्यतश्चपलदृक्क्व च कर्मशक्तिर् ।
बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥
एवं स्वकर्मपतितं भववैतरण्याम् ।
अन्योन्यजन्ममरणाशनभीतभीतम् ॥
पश्यञ्जनं स्वपरविग्रहवैरमैत्रं ।
हन्तेति पारचर पीपृहि मूढमद्य ॥
को न्वत्र तेऽखिलगुरो भगवन्प्रयास ।
उत्तारणेऽस्य भवसम्भवलोपहेतोः ॥
मूढेषु वै महदनुग्रह आर्तबन्धो ।
किं तेन ते प्रियजनाननुसेवतां नः ॥
नैवोद्विजे पर दुरत्ययवैतरण्यास् ।
त्वद्वीर्यगायनमहामृतमग्नचित्तः ॥
शोचे ततो विमुखचेतस इन्द्रियार्थ ।
मायासुखाय भरमुद्वहतो विमूढान् ॥
प्रायेण देव मुनयः स्वविमुक्तिकामा ।
मौनं चरन्ति विजने न परार्थनिष्ठाः ॥
नैतान्विहाय कृपणान्विमुमुक्ष एको ।
नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥
यन्मैथुनादिगृहमेधिसुखं हि तुच्छं ।
कण्डूयनेन करयोरिव दुःखदुःखम् ॥
तृप्यन्ति नेह कृपणा बहुदुःखभाजः ।
कण्डूतिवन्मनसिजं विषहेत धीरः ॥
मौनव्रतश्रुततपोऽध्ययनस्वधर्म ।
व्याख्यारहोजपसमाधय आपवर्ग्याः ॥
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां ।
वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥
रूपे इमे सदसती तव वेदसृष्टे ।
बीजाङ्कुराविव न चान्यदरूपकस्य ॥
युक्ताः समक्षमुभयत्र विचक्षन्ते त्वां ।
योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥
त्वं वायुरग्निरवनिर्वियदम्बु मात्राः ।
प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च ॥
सर्वं त्वमेव सगुणो विगुणश्च भूमन् ।
नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् ॥
नैते गुणा न गुणिनो महदादयो ये ।
सर्वे मनः प्रभृतयः सहदेवमर्त्याः ॥
आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् ।
एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥
तत्तेऽर्हत्तम नमः स्तुतिकर्मपूजाः ।
कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् ॥
संसेवया त्वयि विनेति षडङ्गया किं ।
भक्तिं जनः परमहंसगतौ लभेत ॥
श्रीनारद उवाच
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।
प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत ॥
श्रीभगवानुवाच ।
प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥
मामप्रीणत आयुष्मन्दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥
प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः ।
श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् ॥
श्रीनारद उवाच
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः ॥