Chapter- 6
श्रीशुक उवाच
ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा
षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः ।
दश धर्माय कायादाद्द्विषट्त्रिणव चेन्दवे ॥
भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ।
नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु ॥
यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः ।
भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ॥
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ्शृणु ।
भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप ॥
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः ।
ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः ॥
भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततोऽभवत् ।
विश्वेदेवास्तु विश्वाया अप्रजांस्तान्प्रचक्षते ॥
साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः ।
मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः ॥
जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ।
मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ॥
ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ।
सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः ॥
वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु ।
द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसुः ॥
द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ।
प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः ॥
ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः ।
अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः ॥
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ।
स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः ॥
दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ।
वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपतिः ॥
ततो मनुश्चाक्षुषोऽभूद्विश्वे साध्या मनोः सुताः ।
विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ॥
पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ।
सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः ॥
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ।
अजैकपादहिर्ब्रध्नो बहुरूपो महानिति ॥
रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः ।
प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ ॥
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत्सती ।
कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् ॥
धिषणायां वेदशिरो देवलं वयुनं मनुम् ।
तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च ॥
पतङ्ग्यसूत पतगान्यामिनी शलभानथ ।
सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् ।
सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः ॥
कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत ।
दक्षशापात्सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः ॥
पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः ।
शृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥
अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् ।
अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥
मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः ।
तिमेर्यादोगणा आसन्श्वापदाः सरमासुताः ॥
सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।
ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥
दन्दशूकादयः सर्पा राजन्क्रोधवशात्मजाः ।
इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥
अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः ।
सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ्शृणु ॥
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ।
अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः ॥
पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः ।
धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ॥
स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल ।
वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥
वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः ।
उपदानवी हयशिरा पुलोमा कालका तथा ॥
उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप ।
पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥
उपयेमेऽथ भगवान्कश्यपो ब्रह्मचोदितः ।
पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥
तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता ।
जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः ॥
विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् ।
राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः ॥
अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः ।
यत्र नारायणो देवः स्वांशेनावातरद्विभुः ॥
विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः ।
धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ॥
विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् ।
मिथुनं च महाभागा यमं देवं यमीं तथा ।
सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥
छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः ।
कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥
अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः ।
यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥
पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्पुरा ।
योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥
त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका ।
सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥
तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि ।
विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥