Chapter- 3
श्रीराजोवाच ।
निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तानपि धर्मराजः ।
एवं हताज्ञो विहतान्मुरारेर्नैदेशिकैर्यस्य वशे जनोऽयम् ॥
यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् ।
एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् ॥
श्रीशुक उवाच
भगवत्पुरुषै राजन्याम्याः प्रतिहतोद्यमाः ।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥
यमदूता ऊचुः ।
कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो ।
त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥
यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः ।
कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥
किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् ।
शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥
अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः ।
शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ॥
तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना ।
चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥
नीयमानं तवादेशादस्माभिर्यातनागृहान् ।
व्यामोचयन्पातकिनं छित्त्वा पाशान्प्रसह्य ते ॥
तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् ।
नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् ॥
श्रीबादरायणिरुवाच ।
इति देवः स आपृष्टः प्रजासंयमनो यमः ।
प्रीतः स्वदूतान्प्रत्याह स्मरन्पादाम्बुजं हरेः ॥
यम उवाच
परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम् ।
यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद्यस्य वशे च लोकः ॥
यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः ।
यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति ॥
अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनो विरिञ्चिः ।
आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥
अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः ।
यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये ॥
यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते ।
आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् ॥
तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः ।
प्रायेण दूता इह वै मनोहराश्चरन्ति तद्रूपगुणस्वभावाः ॥
भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि ।
रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च ॥
धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः ।
न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः ॥
स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः ।
प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥
द्वादशैते विजानीमो धर्मं भागवतं भटाः ।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥
एतावानेव लोकेऽस्मिन्पुंसां धर्मः परः स्मृतः ।
भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥
नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः ।
अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥
एतावतालमघनिर्हरणाय पुंसां ।
सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ॥
विक्रुश्य पुत्रमघवान्यदजामिलोऽपि ।
नारायणेति म्रियमाण इयाय मुक्तिम् ॥
प्रायेण वेद तदिदं न महाजनोऽयं ।
देव्या विमोहितमतिर्बत माययालम् ॥
त्रय्यां जडीकृतमतिर्मधुपुष्पितायां ।
वैतानिके महति कर्मणि युज्यमानः ॥
एवं विमृश्य सुधियो भगवत्यनन्ते ।
सर्वात्मना विदधते खलु भावयोगम् ॥
ते मे न दण्डमर्हन्त्यथ यद्यमीषां ।
स्यात्पातकं तदपि हन्त्युरुगायवादः ॥
ते देवसिद्धपरिगीतपवित्रगाथा ।
ये साधवः समदृशो भगवत्प्रपन्नाः ॥
तान्नोपसीदत हरेर्गदयाभिगुप्तान् ।
नैषां वयं न च वयः प्रभवाम दण्डे ॥
तानानयध्वमसतो विमुखान्मुकुन्द ।
पादारविन्दमकरन्दरसादजस्रम् ॥
निष्किञ्चनैः परमहंसकुलैरसङ्गैर् ।
जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥
जिह्वा न वक्ति भगवद्गुणनामधेयं ।
चेतश्च न स्मरति तच्चरणारविन्दम् ॥
कृष्णाय नो नमति यच्छिर एकदापि ।
तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥
तत्क्षम्यतां स भगवान्पुरुषः पुराणो ।
नारायणः स्वपुरुषैर्यदसत्कृतं नः ॥
स्वानामहो न विदुषां रचिताञ्जलीनां ।
क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥
तस्मात्सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।
महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ॥
शृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः ।
यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः ॥
कृष्णाङ्घ्रिपद्ममधुलिण्न पुनर्विसृष्ट ।
मायागुणेषु रमते वृजिनावहेषु ॥
अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् ।
ईहेत कर्म यत एव रजः पुनः स्यात् ॥
इत्थं स्वभर्तृगदितं भगवन्महित्वं ।
संस्मृत्य विस्मितधियो यमकिङ्करास्ते ॥
नैवाच्युताश्रयजनं प्रतिशङ्कमाना ।
द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥
इतिहासमिमं गुह्यं भगवान्कुम्भसम्भवः ।
कथयामास मलय आसीनो हरिमर्चयन् ॥