Chapter- 7
श्रीशुक उवाच
भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशास पञ्चजनी विश्वरूपदुहितरमुपयेमे
तस्यामु ह वा आत्मजान्कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास सूक्ष्म णि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति
अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति
स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर् धर्ममनु र्तमानः पर्यपालयत्
ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः श्रद्धयाहृताग्न चातुर्म स्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना
सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रिय ब्रह्मण यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात् भगवति व सुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविःष्वध्वर्युभिर्गृह्य यजमानो ज्ञभाजो देवांस्तान्पुरुषावयवेष्वभ्यध्यायत्
एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्म पुरुषरू ोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिते निजपुरुषहृ पुरुषरू ेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत
एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्व रिक्थं ितृपैतामहं यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्स्वनिकेतात्पु प्रवव्र ज
यत्र ह वाव भगवान्हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन रूपेण
यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्र करोति
तस्मिन्वाव किल स एकलः पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम् फलोपहार श्च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशमः परा निर्वृत मवाप
तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशै प्रहर्ष ेगेनात्मन्युद्भिद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयबाष्पन नयन एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लाद हृदयह्र ावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां न सस्मार
इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटा विरोचमा ः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युप होवाच
परोरजः सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान ।
सुरेतसादः पुनराविश्य चष्टे हंसं गृध्राणं नृषद्रिङ्गिरामिमः ॥