Chapter- 6
राजोवाच ।
न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्व क्लेशदा ि भवितुमर्हन्ति यदृच्छयोपगतानि ॥
ऋषिरुवाच ।
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य श सङ्गच्छ ्ते ॥
तथा चोक्तम् ।
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥
नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥
कामो मन्युर्मदो लोभः शोकमोहभयादयः ।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥
अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षि भगवत्प् भावो योगिनां साम्परायविधिमनुशिक्षयन्स्वकलेवरं जिहासुर त्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्ति
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमा जगतीमभि ानाभासेन सङ्क्रममाणः कोङ्कवेङ्ककुटकान्दक्षिण कर्णाटक न्देशान्यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्मकवल उन्माद इव मुक ऽसंवीत व विचचार
अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह त
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशि उत्कृष् माणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथ पाखण्डम मञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते
येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्र हेलनान् पव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादी बहुलेनो हतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति
ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाश्वस्तास्तमस्यन्धे प्रपतिष यन्ति
अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः
तस्यानुगुणान्श्लोकान्गायन्ति ।
अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ॥
अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान्पुराणः ।
कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् ॥
को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी ।
यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः ॥
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्ध चरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहा मङ्गलाय मिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वावहितो भगवति तस्मिन्व भक्तिरन ोरपि समनुवर्तते
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसव स्नापयन तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स् एवाद्रि न्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः
राजन्पतिर्गुरुरलं भवतां यदूनां ।
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ॥
अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो ।
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥
नित्यानुभूतनिजलाभनिवृत्ततृष्णः ।
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ॥
लोकस्य यः करुणयाभयमात्मलोकम् ।
आख्यान्नमो भगवते ऋषभाय तस्मै ॥