Chapter- 9

मैत्रेय उवाच
त एवमुत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस्त्रिविष्टपम् ।
सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः ॥

स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् ।
तिरोहितं सहसैवोपलक्ष्य बहिःस्थितं तदवस्थं ददर्श ॥

तद्दर्शनेनागतसाध्वसः क्षिताववन्दताङ्गं विनमय्य दण्डवत् ।
दृग्भ्यां प्रपश्यन्प्रपिबन्निवार्भकश्चुम्बन्निवास्येन भुजैरिव ॥

स तं विवक्षन्तमतद्विदं हरिर्ज्ञात्वास्य सर्वस्य च हृद्यवस्थित ।
कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ॥

स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः ।
तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥

ध्रुव उवाच
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां ।
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ॥
अन्यांश्च हस्तचरणश्रवणत्वगादीन् ।
प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥

एकस्त्वमेव भगवन्निदमात्मशक्त्या ।
मायाख्ययोरुगुणया महदाद्यशेषम् ॥
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु ।
नानेव दारुषु विभावसुवद्विभासि ॥

त्वद्दत्तया वयुनयेदमचष्ट विश्वं ।
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ॥
तस्यापवर्ग्यशरणं तव पादमूलं ।
विस्मर्यते कृतविदा कथमार्तबन्धो ॥

नूनं विमुष्टमतयस्तव मायया ते ।
ये त्वां भवाप्ययविमोक्षणमन्यहेतोः ॥
अर्चन्ति कल्पकतरुं कुणपोपभोग्यम् ।
इच्छन्ति यत्स्पर्शजं निरयेऽपि न्णाम् ॥

या निर्वृतिस्तनुभृतां तव पादपद्म ।
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ॥
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् ।
किं त्वन्तकासिलुलितात्पततां विमानात् ॥

भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो ।
भूयादनन्त महताममलाशयानाम् ॥
येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं ।
नेष्ये भवद्गुणकथामृतपानमत्तः ॥

ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ।
ये चान्वदः सुतसुहृद्गृहवित्तदाराः ॥
ये त्वब्जनाभ भवदीयपदारविन्द ।
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥

तिर्यङ्नगद्विजसरीसृपदेवदैत्य ।
मर्त्यादिभिः परिचितं सदसद्विशेषम् ॥
रूपं स्थविष्ठमज ते महदाद्यनेकं ।
नातः परं परम वेद्मि न यत्र वादः ॥

कल्पान्त एतदखिलं जठरेण गृह्णन् ।
शेते पुमान्स्वदृगनन्तसखस्तदङ्के ॥
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म ।
गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै ॥

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा ।
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ॥
यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या ।
द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥

यस्मिन्विरुद्धगतयो ह्यनिशं पतन्ति ।
विद्यादयो विविधशक्तय आनुपूर्व्यात् ॥
तद्ब्रह्म विश्वभवमेकमनन्तमाद्यम् ।
आनन्दमात्रमविकारमहं प्रपद्ये ॥

सत्याशिषो हि भगवंस्तव पादपद्मम् ।
आशीस्तथानुभजतः पुरुषार्थमूर्तेः ॥
अप्येवमर्य भगवान्परिपाति दीनान् ।
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥

मैत्रेय उवाच
अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता ।
भृत्यानुरक्तो भगवान्प्रतिनन्द्येदमब्रवीत् ॥

श्रीभगवानुवाच ।
वेदाहं ते व्यवसितं हृदि राजन्यबालक ।
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥

नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति ।
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥

मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम् ।
धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ।
चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः ॥

प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः ।
षट्त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥

त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः ।
अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।
भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥

ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।
उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥

मैत्रेय उवाच
इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् ।
बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः ॥

सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम् ।
प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् ॥

विदुर उवाच
सुदुर्लभं यत्परमं पदं हरेर्मायाविनस्तच्चरणार्चनार्जितम् ।
लब्ध्वाप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानममन्यतार्थवित् ॥

मैत्रेय उवाच
मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान्स्मरन् ।
नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात्तापमुपेयिवान् ॥

ध्रुव उवाच
समाधिना नैकभवेन यत्पदं विदुः सनन्दादय ऊर्ध्वरेतसः ।
मासैरहं षड्भिरमुष्य पादयोश्छायामुपेत्यापगतः पृथङ्मतिः ॥

अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत ।
भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥

मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः ।
यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः ॥

दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् ।
तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥

मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।
प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ।
भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ॥

स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत ।
ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ॥

मैत्रेय उवाच
न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः ।
वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनःसमृद्धयः ॥

आकर्ण्यात्मजमायान्तं सम्परेत्य यथागतम् ।
राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम ॥

श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः ।
वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥

सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् ।
ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥

शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः ।
निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुकः ॥

सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते ।
आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मतुः ॥

तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् ।
अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वलः ॥

परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् ।
विष्वक्सेनाङ्घ्रिसंस्पर्श हताशेषाघबन्धनम् ॥

अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः ।
स्नापयामास तनयं जातोद्दाममनोरथः ॥

अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमन्त्रितः ।
ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥

सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् ।
परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ॥

यस्य प्रसन्नो भगवान्गुणैर्मैत्र्यादिभिर्हरिः ।
तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥

उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ ।
अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतुः ॥

सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् ।
उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता ॥

पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः ।
तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥

तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा ।
प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥

अभ्यर्चितस्त्वया नूनं भगवान्प्रणतार्तिहा ।
यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥

लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः ।
आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् ॥

तत्र तत्रोपसङ्कॢप्तैर्लसन्मकरतोरणैः ।
सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ॥

चूतपल्लववासःस्रङ् मुक्तादामविलम्बिभिः ।
उपस्कृतं प्रतिद्वारमपां कुम्भैः सदीपकैः ॥

प्राकारैर्गोपुरागारैः शातकुम्भपरिच्छदैः ।
सर्वतोऽलङ्कृतं श्रीमद् विमानशिखरद्युभिः ॥

मृष्टचत्वररथ्याट्ट मार्गं चन्दनचर्चितम् ।
लाजाक्षतैः पुष्पफलैस्तण्डुलैर्बलिभिर्युतम् ॥

ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः ।
सिद्धार्थाक्षतदध्यम्बु दूर्वापुष्पफलानि च ॥

उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः ।
श‍ृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितुः ॥

महामणिव्रातमये स तस्मिन्भवनोत्तमे ।
लालितो नितरां पित्रा न्यवसद्दिवि देववत् ॥

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।
आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥

यत्र स्फटिककुड्येषु महामारकतेषु च ।
मणिप्रदीपा आभान्ति ललनारत्नसंयुताः ॥

उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः ।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥

वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः ।
हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः ॥

उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् ।
श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥

वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् ।
अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥

आत्मानं च प्रवयसमाकलय्य विशाम्पतिः ।
वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम् ॥