Chapter- 28

श्रीभगवानुवाच ।
योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।
मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥

स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।
दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ॥

ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।
मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ॥

अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ।
ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥

मौनं सदासनजयः स्थैर्यं प्राणजयः शनैः ।
प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥

स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् ।
वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥

एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् ।
बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः ॥

शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।
तस्मिन्स्वस्ति समासीन ऋजुकायः समभ्यसेत् ॥

प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।
प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् ॥

मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः ।
वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥

प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् ।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥

यदा मनः स्वं विरजं योगेन सुसमाहितम् ।
काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः ॥

प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ।
नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥

लसत्पङ्कजकिञ्जल्क पीतकौशेयवाससम् ।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥

मत्तद्विरेफकलया परीतं वनमालया ।
परार्ध्यहारवलय किरीटाङ्गदनूपुरम् ॥

काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् ।
दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥

अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम् ।
सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥

कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ।
ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥

स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ।
प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ॥

तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम् ।
विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ॥

सञ्चिन्तयेद्भगवतश्चरणारविन्दं ।
वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ॥
उत्तुङ्गरक्तविलसन्नखचक्रवाल ।
ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥

यच्छौचनिःसृतसरित्प्रवरोदकेन ।
तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् ॥
ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ।
ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥

जानुद्वयं जलजलोचनया जनन्या ।
लक्ष्म्याखिलस्य सुरवन्दितया विधातुः ॥
ऊर्वोर्निधाय करपल्लवरोचिषा यत् ।
संलालितं हृदि विभोरभवस्य कुर्यात् ॥

ऊरू सुपर्णभुजयोरधि शोभमानाव् ।
ओजोनिधी अतसिकाकुसुमावभासौ ॥
व्यालम्बिपीतवरवाससि वर्तमान ।
काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥

नाभिह्रदं भुवनकोशगुहोदरस्थं ।
यत्रात्मयोनिधिषणाखिललोकपद्मम् ॥
व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ।
ध्यायेद्द्वयं विशदहारमयूखगौरम् ॥

वक्षोऽधिवासमृषभस्य महाविभूतेः ।
पुंसां मनोनयननिर्वृतिमादधानम् ॥
कण्ठं च कौस्तुभमणेरधिभूषणार्थं ।
कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥

बाहूंश्च मन्दरगिरेः परिवर्तनेन ।
निर्णिक्तबाहुवलयानधिलोकपालान् ॥
सञ्चिन्तयेद्दशशतारमसह्यतेजः ।
शङ्खं च तत्करसरोरुहराजहंसम् ॥

कौमोदकीं भगवतो दयितां स्मरेत ।
दिग्धामरातिभटशोणितकर्दमेन ॥
मालां मधुव्रतवरूथगिरोपघुष्टां ।
चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥

भृत्यानुकम्पितधियेह गृहीतमूर्तेः ।
सञ्चिन्तयेद्भगवतो वदनारविन्दम् ॥
यद्विस्फुरन्मकरकुण्डलवल्गितेन ।
विद्योतितामलकपोलमुदारनासम् ॥

यच्छ्रीनिकेतमलिभिः परिसेव्यमानं ।
भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ॥
मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ।
ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥

तस्यावलोकमधिकं कृपयातिघोर ।
तापत्रयोपशमनाय निसृष्टमक्ष्णोः ॥
स्निग्धस्मितानुगुणितं विपुलप्रसादं ।
ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥

हासं हरेरवनताखिललोकतीव्र ।
शोकाश्रुसागरविशोषणमत्युदारम् ॥
सम्मोहनाय रचितं निजमाययास्य ।
भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥

ध्यानायनं प्रहसितं बहुलाधरोष्ठ ।
भासारुणायिततनुद्विजकुन्दपङ्क्ति ॥
ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर् ।
भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥

एवं हरौ भगवति प्रतिलब्धभावो ।
भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् ॥
औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस् ।
तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥

मुक्ताश्रयं यर्हि निर्विषयं विरक्तं ।
निर्वाणमृच्छति मनः सहसा यथार्चिः ॥
आत्मानमत्र पुरुषोऽव्यवधानमेकम् ।
अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥

सोऽप्येतया चरमया मनसो निवृत्त्या ।
तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये ॥
हेतुत्वमप्यसति कर्तरि दुःखयोर्यत् ।
स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः ॥

देहं च तं न चरमः स्थितमुत्थितं वा ।
सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् ॥
दैवादुपेतमथ दैववशादपेतं ।
वासो यथा परिकृतं मदिरामदान्धः ॥

देहोऽपि दैववशगः खलु कर्म यावत् ।
स्वारम्भकं प्रतिसमीक्षत एव सासुः ॥
तं सप्रपञ्चमधिरूढसमाधियोगः ।
स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥

यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते ।
अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा ॥

यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् ।
अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात् ॥

भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात् ।
आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञितः ॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् ॥

स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते ।
योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थितः ॥

तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् ।
दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥