Chapter- 16
ब्रह्मोवाच ।
इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम् ।
प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥
श्रीभगवानुवाच ।
एतौ तौ पार्षदौ मह्यं जयो विजय एव च ।
कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥
यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः ।
स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् ॥
तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।
तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥
यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि ।
सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः ॥
यस्यामृतामलयशःश्रवणावगाहः ।
सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः ॥
सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्तिश् ।
छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥
यत्सेवया चरणपद्मपवित्ररेणुं ।
सद्यः क्षताखिलमलं प्रतिलब्धशीलम् ॥
न श्रीर्विरक्तमपि मां विजहाति यस्याः ।
प्रेक्षालवार्थ इतरे नियमान्वहन्ति ॥
नाहं तथाद्मि यजमानहविर्विताने ।
श्च्योतद्घृतप्लुतमदन्हुतभुङ्मुखेन ॥
यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं ।
तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥
येषां बिभर्म्यहमखण्डविकुण्ठयोग ।
मायाविभूतिरमलाङ्घ्रिरजः किरीटैः ॥
विप्रांस्तु को न विषहेत यदर्हणाम्भः ।
सद्यः पुनाति सहचन्द्रललामलोकान् ॥
ये मे तनूर्द्विजवरान्दुहतीर्मदीया ।
भूतान्यलब्धशरणानि च भेदबुद्ध्या ॥
द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान् ।
गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥
ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तस् ।
तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः ॥
वाण्यानुरागकलयात्मजवद्गृणन्तः ।
सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः ॥
तन्मे स्वभर्तुरवसायमलक्षमाणौ ।
युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः ॥
भूयो ममान्तिकमितां तदनुग्रहो मे ।
यत्कल्पतामचिरतो भृतयोर्विवासः ॥
ब्रह्मोवाच ।
अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।
नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत ॥
सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् ।
विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥
ते योगमाययारब्ध पारमेष्ठ्यमहोदयम् ।
प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥
ऋषय ऊचुः ।
न वयं भगवन्विद्मस्तव देव चिकीर्षितम् ।
कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥
ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।
विप्राणां देवदेवानां भगवानात्मदैवतम् ॥
त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।
धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः ॥
तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् ।
योगिनः स भवान्किं स्विदनुगृह्येत यत्परैः ॥
यं वै विभूतिरुपयात्यनुवेलमन्यैर् ।
अर्थार्थिभिः स्वशिरसा धृतपादरेणुः ॥
धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो ।
लोकं मधुव्रतपतेरिव कामयाना ॥
यस्तां विविक्तचरितैरनुवर्तमानां ।
नात्याद्रियत्परमभागवतप्रसङ्गः ॥
स त्वं द्विजानुपथपुण्यरजःपुनीतः ।
श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥
धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः ।
पद्भिश्चराचरमिदं द्विजदेवतार्थम् ॥
नूनं भृतं तदभिघाति रजस्तमश्च ।
सत्त्वेन नो वरदया तनुवा निरस्य ॥
न त्वं द्विजोत्तमकुलं यदि हात्मगोपं ।
गोप्ता वृषः स्वर्हणेन ससूनृतेन ॥
तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था ।
लोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम् ॥
तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः ।
क्षेमं जनाय निजशक्तिभिरुद्धृतारेः ॥
नैतावता त्र्यधिपतेर्बत विश्वभर्तुस् ।
तेजः क्षतं त्ववनतस्य स ते विनोदः ॥
यं वानयोर्दममधीश भवान्विधत्ते ।
वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् ॥
अस्मासु वा य उचितो ध्रियतां स दण्डो ।
येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण ॥
श्रीभगवानुवाच
एतौ सुरेतरगतिं प्रतिपद्य सद्यः
संरम्भसम्भृतसमाध्यनुबद्धयोगौ
भूयः सकाशमुपयास्यत आशु यो वः
शापो मयैव निमितस्तदवेत विप्राः
ब्रह्मोवाच ।
अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् ।
वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥
भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।
ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥
एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा ।
पुरापवारिता द्वारि विशन्ती मय्युपारते ॥
मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥
द्वाःस्थावादिश्य भगवान्विमानश्रेणिभूषणम् ।
सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥
तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतः ।
हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ ॥
तदा विकुण्ठधिषणात्तयोर्निपतमानयोः ।
हाहाकारो महानासीद्विमानाग्र्येषु पुत्रकाः ॥
तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः ।
दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥
तयोरसुरयोरद्य तेजसा यमयोर्हि वः ।
आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति ॥
विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो ।
योगेश्वरैरपि दुरत्यययोगमायः ॥
क्षेमं विधास्यति स नो भगवांस्त्र्यधीशस् ।
तत्रास्मदीयविमृशेन कियानिहार्थः ॥