Chapter- 15

मैत्रेय उवाच
प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः ।
दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥

लोके तेनाहतालोके लोकपाला हतौजसः ।
न्यवेदयन्विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ॥

देवा ऊचुः ।
तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् ।
न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः ॥

देवदेव जगद्धातर्लोकनाथशिखामणे ।
परेषामपरेषां त्वं भूतानामसि भाववित् ॥

नमो विज्ञानवीर्याय माययेदमुपेयुषे ।
गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥

ये त्वानन्येन भावेन भावयन्त्यात्मभावनम् ।
आत्मनि प्रोतभुवनं परं सदसदात्मकम् ॥

तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम् ।
लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभवः ॥

यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः ।
हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः ॥

स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम् ।
अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम् ॥

एष देव दितेर्गर्भ ओजः काश्यपमर्पितम् ।
दिशस्तिमिरयन्सर्वा वर्धतेऽग्निरिवैधसि ॥

मैत्रेय उवाच
स प्रहस्य महाबाहो भगवान्शब्दगोचरः ।
प्रत्याचष्टात्मभूर्देवान्प्रीणन्रुचिरया गिरा ॥

ब्रह्मोवाच ।
मानसा मे सुता युष्मत् पूर्वजाः सनकादयः ।
चेरुर्विहायसा लोकाल्लोकेषु विगतस्पृहाः ॥

त एकदा भगवतो वैकुण्ठस्यामलात्मनः ।
ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् ॥

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः ।
येऽनिमित्तनिमित्तेन धर्मेणाराधयन्हरिम् ॥

यत्र चाद्यः पुमानास्ते भगवान्शब्दगोचरः ।
सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन्वृषः ॥

यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः ।
सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत् ॥

वैमानिकाः सललनाश्चरितानि शश्वद् ।
गायन्ति यत्र शमलक्षपणानि भर्तुः ॥
अन्तर्जलेऽनुविकसन्मधुमाधवीनां ।
गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥

पारावतान्यभृतसारसचक्रवाक ।
दात्यूहहंसशुकतित्तिरिबर्हिणां यः ॥
कोलाहलो विरमतेऽचिरमात्रमुच्चैर् ।
भृङ्गाधिपे हरिकथामिव गायमाने ॥

मन्दारकुन्दकुरबोत्पलचम्पकार्ण ।
पुन्नागनागबकुलाम्बुजपारिजाताः ॥
गन्धेऽर्चिते तुलसिकाभरणेन तस्या ।
यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥

यत्सङ्कुलं हरिपदानतिमात्रदृष्टैर् ।
वैदूर्यमारकतहेममयैर्विमानैः ॥
येषां बृहत्कटितटाः स्मितशोभिमुख्यः ।
कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः ॥

श्री रूपिणी क्वणयती चरणारविन्दं ।
लीलाम्बुजेन हरिसद्मनि मुक्तदोषा ॥
संलक्ष्यते स्फटिककुड्य उपेतहेम्नि ।
सम्मार्जतीव यदनुग्रहणेऽन्ययत्नः ॥

वापीषु विद्रुमतटास्वमलामृताप्सु ।
प्रेष्यान्विता निजवने तुलसीभिरीशम् ॥
अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रम् ।
उच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः ॥

यन्न व्रजन्त्यघभिदो रचनानुवादाच् ।
छृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः ॥
यास्तु श्रुता हतभगैर्नृभिरात्तसारास् ।
तांस्तान्क्षिपन्त्यशरणेषु तमःसु हन्त ॥

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना ।
ज्ञानं च तत्त्वविषयं सहधर्मं यत्र ॥
नाराधनं भगवतो वितरन्त्यमुष्य ।
सम्मोहिता विततया बत मायया ते ॥

यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या ।
दूरे यमा ह्युपरि नः स्पृहणीयशीलाः ॥
भर्तुर्मिथः सुयशसः कथनानुराग ।
वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं ।
दिव्यं विचित्रविबुधाग्र्यविमानशोचिः ॥
आपुः परां मुदमपूर्वमुपेत्य योग ।
मायाबलेन मुनयस्तदथो विकुण्ठम् ॥

तस्मिन्नतीत्य मुनयः षडसज्जमानाः ।
कक्षाः समानवयसावथ सप्तमायाम् ॥
देवावचक्षत गृहीतगदौ परार्ध्य ।
केयूरकुण्डलकिरीटविटङ्कवेषौ ॥

मत्तद्विरेफवनमालिकया निवीतौ ।
विन्यस्तयासितचतुष्टयबाहुमध्ये ॥
वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां ।
रक्तेक्षणेन च मनाग्रभसं दधानौ ॥

द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा ।
पूर्वा यथा पुरटवज्रकपाटिका याः ॥
सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या ।
ये सञ्चरन्त्यविहता विगताभिशङ्काः ॥

तान्वीक्ष्य वातरशनांश्चतुरः कुमारान् ।
वृद्धान्दशार्धवयसो विदितात्मतत्त्वान् ॥
वेत्रेण चास्खलयतामतदर्हणांस्तौ ।
तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः ।
स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम् ॥
ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईषत् ।
कामानुजेन सहसा त उपप्लुताक्षाः ॥

मुनय ऊचुः
को वामिहैत्य भगवत्परिचर्ययोच्चैस्
तद्धर्मिणां निवसतां विषमः स्वभावः
तस्मिन्प्रशान्तपुरुषे गतविग्रहे वां
को वात्मवत्कुहकयोः परिशङ्कनीयः

न ह्यन्तरं भगवतीह समस्तकुक्षाव् ।
आत्मानमात्मनि नभो नभसीव धीराः ॥
पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं ।
व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥

तद्वाममुष्य परमस्य विकुण्ठभर्तुः ।
कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम् ॥
लोकानितो व्रजतमन्तरभावदृष्ट्या ।
पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥

तेषामितीरितमुभाववधार्य घोरं ।
तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः ॥
सद्यो हरेरनुचरावुरु बिभ्यतस्तत् ।
पादग्रहावपततामतिकातरेण ॥

भूयादघोनि भगवद्भिरकारि दण्डो ।
यो नौ हरेत सुरहेलनमप्यशेषम् ॥
मा वोऽनुतापकलया भगवत्स्मृतिघ्नो ।
मोहो भवेदिह तु नौ व्रजतोरधोऽधः ॥

एवं तदैव भगवानरविन्दनाभः ।
स्वानां विबुध्य सदतिक्रममार्यहृद्यः ॥
तस्मिन्ययौ परमहंसमहामुनीनाम् ।
अन्वेषणीयचरणौ चलयन्सहश्रीः ॥

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिस् ।
तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् ॥
हंसश्रियोर्व्यजनयोः शिववायुलोलच् ।
छुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥

कृत्स्नप्रसादसुमुखं स्पृहणीयधाम ।
स्नेहावलोककलया हृदि संस्पृशन्तम् ॥
श्यामे पृथावुरसि शोभितया श्रिया स्वश् ।
चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥

पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या ।
काञ्च्यालिभिर्विरुतया वनमालया च ॥
वल्गुप्रकोष्ठवलयं विनतासुतांसे ।
विन्यस्तहस्तमितरेण धुनानमब्जम् ॥

विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह ।
गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ॥
दोर्दण्डषण्डविवरे हरता परार्ध्य ।
हारेण कन्धरगतेन च कौस्तुभेन ॥

अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः ।
स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् ॥
मह्यं भवस्य भवतां च भजन्तमङ्गं ।
नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः ॥

तस्यारविन्दनयनस्य पदारविन्द ।
किञ्जल्कमिश्रतुलसीमकरन्दवायुः ॥
अन्तर्गतः स्वविवरेण चकार तेषां ।
सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥

ते वा अमुष्य वदनासितपद्मकोशम् ।
उद्वीक्ष्य सुन्दरतराधरकुन्दहासम् ॥
लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि ।
द्वन्द्वं नखारुणमणिश्रयणं निदध्युः ॥

पुंसां गतिं मृगयतामिह योगमार्गैर् ।
ध्यानास्पदं बहुमतं नयनाभिरामम् ॥
पौंस्नं वपुर्दर्शयानमनन्यसिद्धैर् ।
औत्पत्तिकैः समगृणन्युतमष्टभोगैः ॥

कुमारा ऊचुः
योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं
सोऽद्यैव नो नयनमूलमनन्त राद्धः
यर्ह्येव कर्णविवरेण गुहां गतो नः
पित्रानुवर्णितरहा भवदुद्भवेन

तं त्वां विदाम भगवन्परमात्मतत्त्वं ।
सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् ॥
यत्तेऽनुतापविदितैर्दृढभक्तियोगैर् ।
उद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं ।
किम्वन्यदर्पितभयं भ्रुव उन्नयैस्ते ॥
येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः ।
कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥

कामं भवः स्ववृजिनैर्निरयेषु नः स्ताच् ।
चेतोऽलिवद्यदि नु ते पदयो रमेत ॥
वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः ।
पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥

प्रादुश्चकर्थ यदिदं पुरुहूत रूपं ।
तेनेश निर्वृतिमवापुरलं दृशो नः ॥
तस्मा इदं भगवते नम इद्विधेम ।
योऽनात्मनां दुरुदयो भगवान्प्रतीतः ॥