Chapter- 9
ब्रह्मोवाच
ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
न ज्ञायते भगवतो गतिरित्यवद्यम्
नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं
मायागुणव्यतिकराद्यदुरुर्विभासि
रूपं यदेतदवबोधरसोदयेन ।
शश्वन्निवृत्ततमसः सदनुग्रहाय ॥
आदौ गृहीतमवतारशतैकबीजं ।
यन्नाभिपद्मभवनादहमाविरासम् ॥
नातः परं परम यद्भवतः स्वरूपम् ।
आनन्दमात्रमविकल्पमविद्धवर्चः ॥
पश्यामि विश्वसृजमेकमविश्वमात्मन् ।
भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥
तद्वा इदं भुवनमङ्गल मङ्गलाय ।
ध्याने स्म नो दर्शितं त उपासकानाम् ॥
तस्मै नमो भगवतेऽनुविधेम तुभ्यं ।
योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः ॥
ये तु त्वदीयचरणाम्बुजकोशगन्धं ।
जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ॥
भक्त्या गृहीतचरणः परया च तेषां ।
नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥
तावद्भयं द्रविणदेहसुहृन्निमित्तं ।
शोकः स्पृहा परिभवो विपुलश्च लोभः ॥
तावन्ममेत्यसदवग्रह आर्तिमूलं ।
यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः ॥
दैवेन ते हतधियो भवतः प्रसङ्गात् ।
सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये ॥
कुर्वन्ति कामसुखलेशलवाय दीना ।
लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥
क्षुत्तृट्त्रिधातुभिरिमा मुहुरर्द्यमानाः ।
शीतोष्णवातवरषैरितरेतराच्च ॥
कामाग्निनाच्युतरुषा च सुदुर्भरेण ।
सम्पश्यतो मन उरुक्रम सीदते मे ॥
यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ ।
मायाबलं भगवतो जन ईश पश्येत् ॥
तावन्न संसृतिरसौ प्रतिसङ्क्रमेत ।
व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥
अह्न्यापृतार्तकरणा निशि निःशयाना ।
नानामनोरथधिया क्षणभग्ननिद्राः ॥
दैवाहतार्थरचना ऋषयोऽपि देव ।
युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥
त्वं भक्तियोगपरिभावितहृत्सरोज ।
आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ॥
यद्यद्धिया त उरुगाय विभावयन्ति ।
तत्तद्वपुः प्रणयसे सदनुग्रहाय ॥
नातिप्रसीदति तथोपचितोपचारैर् ।
आराधितः सुरगणैर्हृदि बद्धकामैः ॥
यत्सर्वभूतदययासदलभ्ययैको ।
नानाजनेष्ववहितः सुहृदन्तरात्मा ॥
पुंसामतो विविधकर्मभिरध्वराद्यैर् ।
दानेन चोग्रतपसा परिचर्यया च ॥
आराधनं भगवतस्तव सत्क्रियार्थो ।
धर्मोऽर्पितः कर्हिचिद्म्रियते न यत्र ॥
शश्वत्स्वरूपमहसैव निपीतभेद ।
मोहाय बोधधिषणाय नमः परस्मै ॥
विश्वोद्भवस्थितिलयेषु निमित्तलीला ।
रासाय ते नम इदं चकृमेश्वराय ॥
यस्यावतारगुणकर्मविडम्बनानि ।
नामानि येऽसुविगमे विवशा गृणन्ति ॥
तेऽनैकजन्मशमलं सहसैव हित्वा ।
संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥
यो वा अहं च गिरिशश्च विभुः स्वयं च ।
स्थित्युद्भवप्रलयहेतव आत्ममूलम् ॥
भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहस् ।
तस्मै नमो भगवते भुवनद्रुमाय ॥
लोको विकर्मनिरतः कुशले प्रमत्तः ।
कर्मण्ययं त्वदुदिते भवदर्चने स्वे ॥
यस्तावदस्य बलवानिह जीविताशां ।
सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥
यस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्यम् ।
अध्यासितः सकललोकनमस्कृतं यत् ॥
तेपे तपो बहुसवोऽवरुरुत्समानस् ।
तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥
तिर्यङ्मनुष्यविबुधादिषु जीवयोनिष्व् ।
आत्मेच्छयात्मकृतसेतुपरीप्सया यः ॥
रेमे निरस्तविषयोऽप्यवरुद्धदेहस् ।
तस्मै नमो भगवते पुरुषोत्तमाय ॥
योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या ।
निद्रामुवाह जठरीकृतलोकयात्रः ॥
अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां ।
भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥
यन्नाभिपद्मभवनादहमासमीड्य ।
लोकत्रयोपकरणो यदनुग्रहेण ॥
तस्मै नमस्त उदरस्थभवाय योग ।
निद्रावसानविकसन्नलिनेक्षणाय ॥
सोऽयं समस्तजगतां सुहृदेक आत्मा ।
सत्त्वेन यन्मृडयते भगवान्भगेन ॥
तेनैव मे दृशमनुस्पृशताद्यथाहं ।
स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥
एष प्रपन्नवरदो रमयात्मशक्त्या ।
यद्यत्करिष्यति गृहीतगुणावतारः ॥
तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो ।
युञ्जीत कर्मशमलं च यथा विजह्याम् ॥
नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो ।
विज्ञानशक्तिरहमासमनन्तशक्तेः ॥
रूपं विचित्रमिदमस्य विवृण्वतो मे ।
मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥
सोऽसावदभ्रकरुणो भगवान्विवृद्ध ।
प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ॥
उत्थाय विश्वविजयाय च नो विषादं ।
माध्व्या गिरापनयतात्पुरुषः पुराणः ॥
मैत्रेय उवाच
स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः ।
यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत् ॥
अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः ।
विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥
लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः ।
तमाहागाधया वाचा कश्मलं शमयन्निव ॥
श्रीभगवानुवाच ।
मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।
तन्मयापादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥
भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।
ताभ्यामन्तर्हृदि ब्रह्मन्लोकान्द्रक्ष्यस्यपावृतान् ॥
तत आत्मनि लोके च भक्तियुक्तः समाहितः ।
द्रष्टासि मां ततं ब्रह्मन्मयि लोकांस्त्वमात्मनः ॥
यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् ।
प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् ॥
यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः ।
स्वरूपेण मयोपेतं पश्यन्स्वाराज्यमृच्छति ॥
नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः ।
नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रहः ॥
ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणः ।
यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते ॥
ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।
यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः ॥
तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहिः ।
नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥
यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम् ।
यद्वा तपसि ते निष्ठा स एष मदनुग्रहः ॥
प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।
यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् ॥
य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।
तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः ॥
पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना ।
राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥
अहमात्मात्मनां धातः प्रेष्ठः सन्प्रेयसामपि ।
अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः ॥
सर्ववेदमयेनेदमात्मनात्मात्मयोनिना ।
प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते ॥
मैत्रेय उवाच
तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः ।
व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥