Chapter- 7
ब्रह्मोवाच
यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत्
क्रौडीं तनुं सकलयज्ञमयीमनन्तः
अन्तर्महार्णव उपागतमादिदैत्यं
तं दंष्ट्रयाद्रिमिव वज्रधरो ददार
जातो रुचेरजनयत्सुयमान्सुयज्ञ ।
आकूतिसूनुरमरानथ दक्षिणायाम् ॥
लोकत्रयस्य महतीमहरद्यदार्तिं ।
स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥
जज्ञे च कर्दमगृहे द्विज देवहूत्यां ।
स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे ॥
ऊचे ययात्मशमलं गुणसङ्गपङ्कम् ।
अस्मिन्विधूय कपिलस्य गतिं प्रपेदे ॥
अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो ।
दत्तो मयाहमिति यद्भगवान्स दत्तः ॥
यत्पादपङ्कजपरागपवित्रदेहा ।
योगर्द्धिमापुरुभयीं यदुहैहयाद्याः ॥
तप्तं तपो विविधलोकसिसृक्षया मे ।
आदौ सनात्स्वतपसः स चतुःसनोऽभूत् ॥
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं ।
सम्यग्जगाद मुनयो यदचक्षतात्मन् ॥
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां ।
नारायणो नर इति स्वतपःप्रभावः ॥
दृष्ट्वात्मनो भगवतो नियमावलोपं ।
देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥
कामं दहन्ति कृतिनो ननु रोषदृष्ट्या ।
रोषं दहन्तमुत ते न दहन्त्यसह्यम् ॥
सोऽयं यदन्तरमलं प्रविशन्बिभेति ।
कामः कथं नु पुनरस्य मनः श्रयेत ॥
विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो ।
बालोऽपि सन्नुपगतस्तपसे वनानि ॥
तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो ।
दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥
यद्वेनमुत्पथगतं द्विजवाक्यवज्र ।
निष्प्लुष्टपौरुषभगं निरये पतन्तम् ॥
त्रात्वार्थितो जगति पुत्रपदं च लेभे ।
दुग्धा वसूनि वसुधा सकलानि येन ॥
नाभेरसावृषभ आस सुदेविसूनुर् ।
यो वै चचार समदृग्जडयोगचर्याम् ॥
यत्पारमहंस्यमृषयः पदमामनन्ति ।
स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥
सत्रे ममास भगवान्हयशीरषाथो ।
साक्षात्स यज्ञपुरुषस्तपनीयवर्णः ॥
छन्दोमयो मखमयोऽखिलदेवतात्मा ।
वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥
मत्स्यो युगान्तसमये मनुनोपलब्धः ।
क्षोणीमयो निखिलजीवनिकायकेतः ॥
विस्रंसितानुरुभये सलिले मुखान्मे ।
आदाय तत्र विजहार ह वेदमार्गान् ॥
क्षीरोदधावमरदानवयूथपानाम् ।
उन्मथ्नताममृतलब्धय आदिदेवः ॥
पृष्ठेन कच्छपवपुर्विदधार गोत्रं ।
निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः ॥
त्रैपिष्टपोरुभयहा स नृसिंहरूपं ।
कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् ॥
दैत्येन्द्रमाशु गदयाभिपतन्तमाराद् ।
ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥
अन्तःसरस्युरुबलेन पदे गृहीतो ।
ग्राहेण यूथपतिरम्बुजहस्त आर्तः ॥
आहेदमादिपुरुषाखिललोकनाथ ।
तीर्थश्रवः श्रवणमङ्गलनामधेय ॥
श्रुत्वा हरिस्तमरणार्थिनमप्रमेयश् ।
चक्रायुधः पतगराजभुजाधिरूढः ॥
चक्रेण नक्रवदनं विनिपाट्य तस्माद् ।
धस्ते प्रगृह्य भगवान्कृपयोज्जहार ॥
ज्यायान्गुणैरवरजोऽप्यदितेः सुतानां ।
लोकान्विचक्रम इमान्यदथाधियज्ञः ॥
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन ।
याच्ञामृते पथि चरन्प्रभुभिर्न चाल्यः ॥
नार्थो बलेरयमुरुक्रमपादशौचम् ।
आपः शिखाधृतवतो विबुधाधिपत्यम् ॥
यो वै प्रतिश्रुतमृते न चिकीर्षदन्यद् ।
आत्मानमङ्ग मनसा हरयेऽभिमेने ॥
तुभ्यं च नारद भृशं भगवान्विवृद्ध ।
भावेन साधु परितुष्ट उवाच योगम् ॥
ज्ञानं च भागवतमात्मसतत्त्वदीपं ।
यद्वासुदेवशरणा विदुरञ्जसैव ॥
चक्रं च दिक्ष्वविहतं दशसु स्वतेजो ।
मन्वन्तरेषु मनुवंशधरो बिभर्ति ॥
दुष्टेषु राजसु दमं व्यदधात्स्वकीर्तिं ।
सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥
धन्वन्तरिश्च भगवान्स्वयमेव कीर्तिर् ।
नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ॥
यज्ञे च भागममृतायुरवावरुन्ध ।
आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥
क्षत्रं क्षयाय विधिनोपभृतं महात्मा ।
ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु ॥
उद्धन्त्यसाववनिकण्टकमुग्रवीर्यस् ।
त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥
अस्मत्प्रसादसुमुखः कलया कलेश ।
इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ॥
तिष्ठन्वनं सदयितानुज आविवेश ।
यस्मिन्विरुध्य दशकन्धर आर्तिमार्च्छत् ॥
यस्मा अदादुदधिरूढभयाङ्गवेपो ।
मार्गं सपद्यरिपुरं हरवद्दिधक्षोः ॥
दूरे सुहृन्मथितरोषसुशोणदृष्ट्या ।
तातप्यमानमकरोरगनक्रचक्रः ॥
वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाह ।
दन्तैर्विडम्बितककुब्जुष ऊढहासम् ॥
सद्योऽसुभिः सह विनेष्यति दारहर्तुर् ।
विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥
भूमेः सुरेतरवरूथविमर्दितायाः ।
क्लेशव्ययाय कलया सितकृष्णकेशः ॥
जातः करिष्यति जनानुपलक्ष्यमार्गः ।
कर्माणि चात्ममहिमोपनिबन्धनानि ॥
तोकेन जीवहरणं यदुलूकिकायास् ।
त्रैमासिकस्य च पदा शकटोऽपवृत्तः ॥
यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा ।
उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥
यद्वै व्रजे व्रजपशून्विषतोयपीतान् ।
पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या ॥
तच्छुद्धयेऽतिविषवीर्यविलोलजिह्वम् ।
उच्चाटयिष्यदुरगं विहरन्ह्रदिन्याम् ॥
तत्कर्म दिव्यमिव यन्निशि निःशयानं ।
दावाग्निना शुचिवने परिदह्यमाने ॥
उन्नेष्यति व्रजमतोऽवसितान्तकालं ।
नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्यः ॥
गृह्णीत यद्यदुपबन्धममुष्य माता ।
शुल्बं सुतस्य न तु तत्तदमुष्य माति ॥
यज्जृम्भतोऽस्य वदने भुवनानि गोपी ।
संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत् ॥
नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् ।
गोपान्बिलेषु पिहितान्मयसूनुना च ॥
अह्न्यापृतं निशि शयानमतिश्रमेण ।
लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥
गोपैर्मखे प्रतिहते व्रजविप्लवाय ।
देवेऽभिवर्षति पशून्कृपया रिरक्षुः ॥
धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त ।
वर्षो महीध्रमनघैककरे सलीलम् ॥
क्रीडन्वने निशि निशाकररश्मिगौर्यां ।
रासोन्मुखः कलपदायतमूर्च्छितेन ॥
उद्दीपितस्मररुजां व्रजभृद्वधूनां ।
हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥
ये च प्रलम्बखरदर्दुरकेश्यरिष्ट ।
मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः ॥
अन्ये च शाल्वकुजबल्वलदन्तवक्र ।
सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः ॥
ये वा मृधे समितिशालिन आत्तचापाः ।
काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः ॥
यास्यन्त्यदर्शनमलं बलपार्थभीम ।
व्याजाह्वयेन हरिणा निलयं तदीयम् ॥
कालेन मीलितधियामवमृश्य न्णां ।
स्तोकायुषां स्वनिगमो बत दूरपारः ॥
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां ।
वेदद्रुमं विटपशो विभजिष्यति स्म ॥
देवद्विषां निगमवर्त्मनि निष्ठितानां ।
पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः ॥
लोकान्घ्नतां मतिविमोहमतिप्रलोभं ।
वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥
यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः ।
पाषण्डिनो द्विजजना वृषला नृदेवाः ॥
स्वाहा स्वधा वषडिति स्म गिरो न यत्र ।
शास्ता भविष्यति कलेर्भगवान्युगान्ते ॥
सर्गे तपोऽहमृषयो नव ये प्रजेशाः ।
स्थानेऽथ धर्ममखमन्वमरावनीशाः ॥
अन्ते त्वधर्महरमन्युवशासुराद्या ।
मायाविभूतय इमाः पुरुशक्तिभाजः ॥
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह ।
यः पार्थिवान्यपि कविर्विममे रजांसि ॥
चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं ।
यस्मात्त्रिसाम्यसदनादुरुकम्पयानम् ॥
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते ।
मायाबलस्य पुरुषस्य कुतोऽवरा ये ॥
गायन्गुणान्दशशतानन आदिदेवः ।
शेषोऽधुनापि समवस्यति नास्य पारम् ॥
येषां स एष भगवान्दययेदनन्तः ।
सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् ॥
ते दुस्तरामतितरन्ति च देवमायां ।
नैषां ममाहमिति धीः श्वशृगालभक्ष्ये ॥
वेदाहमङ्ग परमस्य हि योगमायां ।
यूयं भवश्च भगवानथ दैत्यवर्यः ॥
पत्नी मनोः स च मनुश्च तदात्मजाश्च ।
प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च ॥
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि ।
रघ्वम्बरीषसगरा गयनाहुषाद्याः ॥
मान्धात्रलर्कशतधन्वनुरन्तिदेवा ।
देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥
सौभर्युतङ्कशिबिदेवलपिप्पलाद ।
सारस्वतोद्धवपराशरभूरिषेणाः ॥
येऽन्ये विभीषणहनूमदुपेन्द्रदत्त ।
पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः ॥
ते वै विदन्त्यतितरन्ति च देवमायां ।
स्त्रीशूद्रहूणशबरा अपि पापजीवाः ॥
यद्यद्भुतक्रमपरायणशीलशिक्षास् ।
तिर्यग्जना अपि किमु श्रुतधारणा ये ॥
शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं ।
शुद्धं समं सदसतः परमात्मतत्त्वम् ॥
शब्दो न यत्र पुरुकारकवान्क्रियार्थो ।
माया परैत्यभिमुखे च विलज्जमाना ॥
तद्वै पदं भगवतः परमस्य पुंसो ।
ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् ॥
सध्र्यङ्नियम्य यतयो यमकर्तहेतिं ।
जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥
स श्रेयसामपि विभुर्भगवान्यतोऽस्य ।
भावस्वभावविहितस्य सतः प्रसिद्धिः ॥
देहे स्वधातुविगमेऽनुविशीर्यमाणे ।
व्योमेव तत्र पुरुषो न विशीर्यते ञ्जः ॥
सोऽयं तेऽभिहितस्तात भगवान्विश्वभावनः ।
समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥
इदं भागवतं नाम यन्मे भगवतोदितम् ।
सङ्ग्रहोऽयं विभूतीनां त्वमेतद्विपुली कुरु ॥
यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥
मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः ।
शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति ॥