Chapter- 16

सूत उवाच
ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह ।
यथा हि सूत्यामभिजातकोविदाः समादिशन्विप्र महद्गुणस्तथा ॥

स उत्तरस्य तनयामुपयेम इरावतीम् ।
जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥

आजहाराश्वमेधांस्त्रीन्गङ्गायां भूरिदक्षिणान् ।
शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥

निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् ।
नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥

शौनक उवाच
कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।
नृदेवचिह्नधृक्षूद्र कोऽसौ गां यः पदाहनत् ।
तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥

अथवास्य पदाम्भोज मकरन्दलिहां सताम् ।
किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥

क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् ।
इहोपहूतो भगवान्मृत्युः शामित्रकर्मणि ॥

न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः ।
एतदर्थं हि भगवानाहूतः परमर्षिभिः ।
अहो नृलोके पीयेत हरिलीलामृतं वचः ॥

मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।
निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥

सूत उवाच
यदा परीक्षित्कुरुजाङ्गलेऽवसत्कलिं प्रविष्टं निजचक्रवर्तिते ।
निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददे ॥

स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात् ।
वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥

भद्राश्वं केतुमालं च भारतं चोत्तरान्कुरून् ।
किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥

नगरांश्च वनांश्चैव नदीश्च विमलोदकाः ।
पुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥

अदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयः ।
सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥

तत्र तत्रोपश‍ृण्वानः स्वपूर्वेषां महात्मनाम् ।
प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥

आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः ।
स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥

तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः ।
महाधनानि वासांसि ददौ हारान्महामनाः ॥

सारथ्यपारषदसेवनसख्यदौत्य ।
वीरासनानुगमनस्तवनप्रणामान् ॥
स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् ।
भक्तिं करोति नृपतिश्चरणारविन्दे ॥

तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् ।
नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥

धर्मः पदैकेन चरन्विच्छायामुपलभ्य गाम् ।
पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥

धर्म उवाच
कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन ।
आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥

पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम् ।
आहो सुरादीन्हृतयज्ञभागान्प्रजा उत स्विन्मघवत्यवर्षति ॥

अरक्ष्यमाणाः स्त्रिय उर्वि बालान्शोचस्यथो पुरुषादैरिवार्तान् ।
वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान ॥

किं क्षत्रबन्धून्कलिनोपसृष्टान्राष्ट्राणि वा तैरवरोपितानि ।
इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् ॥

यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि ।
अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥

इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि ।
कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम् ॥

धरण्युवाच ।
भवान्हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि ।
चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥

सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।
शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥

एते चान्ये च भगवन्नित्या यत्र महागुणाः ।
प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥

तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥

आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।
देवान्पितॄनृषीन्साधून्सर्वान्वर्णांस्तथाश्रमान् ॥

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष ।
कामास्तपः समचरन्भगवत्प्रपन्नाः ॥
सा श्रीः स्ववासमरविन्दवनं विहाय ।
यत्पादसौभगमलं भजतेऽनुरक्ता ॥

तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः ।
श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी ॥
त्रीनत्यरोच उपलभ्य ततो विभूतिं ।
लोकान्स मां व्यसृजदुत्स्मयतीं तदन्ते ॥

यो वै ममातिभरमासुरवंशराज्ञाम् ।
अक्षौहिणीशतमपानुददात्मतन्त्रः ॥
त्वां दुःस्थमूनपदमात्मनि पौरुषेण ।
सम्पादयन्यदुषु रम्यमबिभ्रदङ्गम् ॥

का वा सहेत विरहं पुरुषोत्तमस्य ।
प्रेमावलोकरुचिरस्मितवल्गुजल्पैः ॥
स्थैर्यं समानमहरन्मधुमानिनीनां ।
रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥

तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा ।
परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥