Chapter- 13
अर्जुन उवाच ।
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञम्-एव च ।
एतद्-वेदितुम्-इच्छामि ज्ञानं ज्ञेयं च केशव ॥१३-१॥
श्री-भगवान्-उवाच ।
इदं शरीरं कौन्तेय क्षेत्रम्-इत्यभिधीयते ।
एतद्-यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३-२॥
क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत ।
क्षेत्र-क्षेत्रज्ञयोर्-ज्ञानं यत्-तज्ज्ञानं मतं मम ॥१३-३॥
तत्-क्षेत्रं यच्च यादृक्-च यद्-विकारि यतश्च यत् ।
स च यो यत्-प्रभावश्च तत्-समासेन मे शृणु ॥१३-४॥
ऋषिभिर्-बहुधा गीतं छन्दोभिर्-विविधैः पृथक् ।
ब्रह्म-सूत्र-पदैश्-चैव हेतुम्-अद्भिर्-विनिश्चितैः ॥१३-५॥
महा-भूतान्यहङ्कारो बुद्धिर्-अव्यक्तम्-एव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥१३-६॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्-चेतना धृतिः ।
एतत्-क्षेत्रं समासेन सविकारम्-उदाहृतम् ॥१३-७॥
अमानित्वम्-अदम्भित्वम्-अहिंसा क्षान्तिर्-आर्जवम् ।
आचार्योपासनं शौचं स्थैर्यम्-आत्म-विनिग्रहः ॥१३-८॥
इन्द्रियार्थेषु वैराग्यम्-अनहङ्कार एव च ।
जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ॥१३-९॥
असक्तिर्-अनभिष्वङ्गः पुत्र-दार-गृहादिषु ।
नित्यं च समचित्तत्वम्-इष्टानिष्टोपपत्तिषु ॥१३-१०॥
मयि चानन्य-योगेन भक्तिर्-अव्यभिचारिणी ।
विविक्त-देश-सेवित्वम्-अरतिर्-जन-संसदि ॥१३-११॥
अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् ।
एतज्-ज्ञानमिति प्रोक्तम्-अज्ञानं यदतो-ऽन्यथा ॥१३-१२॥
ज्ञेयं यत्-तत्-प्रवक्ष्यामि यज्-ज्ञात्वामृतम्-अश्नुते ।
अनादि-मत्-परं ब्रह्म न सत्-तन्-नासद्-उच्यते ॥१३-१३॥
सर्वतः पाणि-पादं तत्-सर्वतो-ऽक्षिशिरो-मुखम् ।
सर्वतः श्रुति-मल्लोके सर्वम्-आवृत्य तिष्ठति ॥१३-१४॥
सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् ।
असक्तं सर्व-भृच्चैव निर्गुणं गुण-भोक्तृ च ॥१३-१५॥
बहिर्-अन्तश्च भूतानाम्-अचरं चरमेव च ।
सूक्ष्मत्वात्-तद्-अविज्ञेयं दूरस्थं चान्तिके च तत् ॥१३-१६॥
अविभक्तं च भूतेषु विभक्तम्-इव च स्थितम् ।
भूतभर्तृ च तज्-ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१३-१७॥
ज्योतिषाम्-अपि तज्-ज्योतिस्-तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥१३-१८॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्-भक्त एतद्-विज्ञाय मद्-भावायोपपद्यते ॥१३-१९॥
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृति-सम्भवान् ॥१३-२०॥
कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर्-उच्यते ।
पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर्-उच्यते ॥१३-२१॥
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्-गुणान् ।
कारणं गुण-सङ्गो-ऽस्य सद्-असद्-योनि-जन्मसु ॥१३-२२॥
उप-द्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहे-ऽस्मिन्-पुरुषः परः ॥१३-२३॥
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानो-ऽपि न स भूयो-ऽभिजायते ॥१३-२४॥
ध्यानेनात्मनि पश्यन्ति केचिद्-आत्मानम्-आत्मना ।
अन्ये साङ्ख्येन योगेन कर्म-योगेन चापरे ॥१३-२५॥
अन्ये त्वेवम्-अजानन्तः श्रुत्वान्येभ्य उपासते ।
ते-ऽपि चातितरन्त्येव मृत्युं श्रुति-परायणाः ॥१३-२६॥
यावत्-सञ्जायते किञ्चित्-सत्त्वं स्थावर-जङ्गमम् ।
क्षेत्र-क्षेत्रज्ञ-संयोगात्-तद्-विद्धि भरतर्षभ ॥१३-२७॥
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्-स्वविनश्यन्तं यः पश्यति स पश्यति ॥१३-२८॥
समं पश्यन्-हि सर्वत्र समवस्थितम्-ईश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥१३-२९॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानम्-अकर्तारं स पश्यति ॥१३-३०॥
यदा भूत-पृथग्-भावम्-एकस्थम्-अनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥१३-३१॥
अनादित्वान्-निर्गुणत्वात्-परमात्मायम्-अव्ययः ।
शरीरस्थो-ऽपि कौन्तेय न करोति न लिप्यते ॥१३-३२॥
यथा सर्वगतं सौक्ष्म्याद्-आकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥१३-३३॥
यथा प्रकाश-यत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥१३-३४॥
क्षेत्र-क्षेत्रज्ञयोर्-एवम्-अन्तरं ज्ञान-चक्षुषा ।
भूत-प्रकृति-मोक्षं च ये विदुर्-यान्ति ते परम् ॥१३-३५॥
ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
क्षेत्र-क्षेत्रज्ञ-विभाग-योगो नाम त्रयोदशो-ऽध्यायः ॥१३॥