Chapter- 12
अर्जुन उवाच ।
एवं सतत-युक्ता ये भक्तास्-त्वां पर्युपासते ।
ये चाप्यक्षरम्-अव्यक्तं तेषां के योग-वित्तमाः ॥१२-१॥
श्री-भगवान्-उवाच ।
मय्यावेश्य मनो ये मां नित्य-युक्ता उपासते ।
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥१२-२॥
ये त्वक्षरम्-अनिर्देश्यम्-अव्यक्तं पर्युपासते ।
सर्वत्र-गम-चिन्त्यञ्च कूटस्थम्-अचलन्-ध्रुवम् ॥१२-३॥
सन्नियम्येन्द्रियग्रामं सर्वत्र सम-बुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूत-हिते रताः ॥१२-४॥
क्लेशो-ऽधिकतरस्-तेषाम्-अव्यक्तासक्त-चेतसाम् ।
अव्यक्ता हि गतिर्-दुःखं देहवद्-भिरवाप्यते ॥१२-५॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२-६॥
तेषाम्-अहं समुद्धर्ता मृत्यु-संसार-सागरात् ।
भवामि नचिरात्-पार्थ मय्यावेशित-चेतसाम् ॥१२-७॥
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥१२-८॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यास-योगेन ततो माम्-इच्छाप्तुं धनञ्जय ॥१२-९॥
अभ्यासे-ऽप्यसमर्थो-ऽसि मत्-कर्म-परमो भव ।
मदर्थम्-अपि कर्माणि कुर्वन्-सिद्धिम्-अवाप्स्यसि ॥१२-१०॥
अथैतद्-अप्यशक्तो-ऽसि कर्तुं मद्-योगम्-आश्रितः ।
सर्व-कर्म-फलत्यागं ततः कुरु यतात्मवान् ॥१२-११॥
श्रेयो हि ज्ञानम्-अभ्यासाज्-ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्-कर्मफलत्यागस्-त्यागाच्-छान्तिरनन्तरम् ॥१२-१२॥
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः सम-दुःख-सुखः क्षमी ॥१२-१३॥
सन्तुष्टः सततं योगी यतात्मा दृढ-निश्चयः ।
मय्यर्पित-मनो-बुद्धिर्-यो मद्-भक्तः स मे प्रियः ॥१२-१४॥
यस्मान्-नोद्विजते लोको लोकान्-नोद्विजते च यः ।
हर्षामर्ष-भयोद्वेगैर्-मुक्तो यः स च मे प्रियः ॥१२-१५॥
अनपेक्षः शुचिर्-दक्ष उदासीनो गतव्यथः ।
सर्वारम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ॥१२-१६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभ-परित्यागी भक्तिमान्यः स मे प्रियः ॥१२-१७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥१२-१८॥
तुल्य-निन्दा-स्तुतिर्-मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिर-मतिर्-भक्तिमान्-मे प्रियो नरः ॥१२-१९॥
ये तु धर्म्याम्-ऋतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्ते-ऽतीव मे प्रियाः ॥१२-२०॥
ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
भक्ति-योगो नाम द्वादशो-ऽध्यायः ॥१२॥