Chapter- 11
अर्जुन उवाच ।
मद्-अनुग्रहाय परमं गुह्यम्-अध्यात्म-संज्ञितम् ।
यत्-त्वयोक्तं वचस्-तेन मोहो-ऽयं विगतो मम ॥११-१॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमल-पत्राक्ष माहात्म्यम्-अपि चाव्ययम् ॥११-२॥
एवम्-एतद्-यथात्थ त्वम्-आत्मानं परमेश्वर ।
द्रष्टुम्-इच्छामि ते रूपम्-ऐश्वरं पुरुषोत्तम ॥११-३॥
मन्यसे यदि तच्छक्यं मया द्रष्टुम्-इति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानम्-अव्ययम् ॥११-४॥
श्री-भगवान्-उवाच ।
पश्य मे पार्थ रूपाणि शतशो-ऽथ सहस्रशः ।
नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च ॥११-५॥
पश्याद्-इत्यान्-वसून्-रुद्रान्-अश्विनौ मरुतस्-तथा ।
बहून्यदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत ॥११-६॥
इहैकस्थं जगत्-कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुम्-इच्छसि ॥११-७॥
न तु मां शक्यसे द्रष्टुम्-एनेनैव स्व-चक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगम्-ऐश्वरम् ॥११-८॥
सञ्जय उवाच ।
एवम्-उक्त्वा ततो राजन्-महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपम्-ऐश्वरम् ॥११-९॥
अनेक-वक्त्र-नयनम्-अनेकाद्भुत-दर्शनम् ।
अनेक-दिव्याभरणं दिव्यान्-एकोद्यतायुधम् ॥११-१०॥
दिव्य-माल्याम्बरधरं दिव्य-गन्धानुलेपनम् ।
सर्वाश्चर्यम्-अयं देवम्-अनन्तं विश्वतोमुखम् ॥११-११॥
दिवि सूर्य-सहस्रस्य भवेद्-युग-पदुत्थिता ।
यदि भाः सदृशी सा स्याद्-भासस्-तस्य महात्मनः ॥११-१२॥
तत्रैकस्थं जगत्-कृत्स्नं प्रविभक्तम्-अनेकधा ।
अपश्यद्-देव-देवस्य शरीरे पाण्डवस्-तदा ॥११-१३॥
ततः स विस्मयाविष्टो हृष्ट-रोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११-१४॥
अर्जुन उवाच ।
पश्यामि देवांस्-तव देव देहे
सर्वांस्-तथा भूत-विशेष-सङ्घान् ।
ब्रह्माणमीशं कमलासनस्थम्-
ऋषींश्च सर्वान्-उरगांश्च दिव्यान् ॥११-१५॥
अनेक-बाहूदर-वक्त्रनेत्रं
पश्यामि त्वां सर्वतो-ऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्-तवादिं
पश्यामि विश्वेश्वर विश्व-रूप ॥११-१६॥
किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्-निरीक्ष्यं समन्ताद्
दीप्तान्-अलार्क-द्युतिम्-अप्रमेयम् ॥११-१७॥
त्वम्-अक्षरं परमं वेदितव्यं
त्वम्-अस्य विश्वस्य परं निधानम् ।
त्वम्-अव्ययः शाश्वत-धर्मगोप्ता
सनातनस्-त्वं पुरुषो मतो मे ॥११-१८॥
अनादि-मध्यान्तम्-अनन्त-वीर्यम्-
अनन्त-बाहुं शशि-सूर्य-नेत्रम् ।
पश्यामि त्वां दीप्त-हुताश-वक्त्रं
स्व-तेजसा विश्वम्-इदं तपन्तम् ॥११-१९॥
द्यावा-पृथिव्योर्-इदम्-अन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपम्-उग्रं तवेदं
लोकत्-रयं प्रव्यथितं महात्मन् ॥११-२०॥
अमी हि त्वां सुर-सङ्घा विशन्ति
केचिद्-भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षि-सिद्ध-सङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११-२१॥
रुद्रादित्या वसवो ये च साध्या
विश्वे-ऽश्विनौ मरुतश्-चोष्मपाश्च ।
गन्धर्व-यक्षासुर-सिद्ध-सङ्घा
वीक्षन्ते त्वां विस्मिताश्-चैव सर्वे ॥११-२२॥
रूपं महत्ते बहु-वक्त्र-नेत्रं
महा-बाहो बहु-बाहूरु-पादम् ।
बहूदरं बहु-दंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्-तथाहम् ॥११-२३॥
नभःस्पृशं दीप्तम्-अनेकवर्णं
व्यात्ताननं दीप्त-विशाल-नेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ॥११-२४॥
दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानल-सन्निभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्-निवास ॥११-२५॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपाल-सङ्घैः ।
भीष्मो द्रोणः सूत-पुत्रस्-तथासौ
सहास्मदीयैरपि योध-मुख्यैः ॥११-२६॥
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद्-विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैर्-उत्तमाङ्गैः ॥११-२७॥
यथा नदीनां बहवो-ऽम्बुवेगाः
समुद्रम्-एवाभिमुखा द्रवन्ति ।
तथा तवामी नर-लोक-वीरा
विशन्ति वक्त्राण्यभि-वि-ज्वलन्ति ॥११-२८॥
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्-
तवापि वक्त्राणि समृद्ध-वेगाः ॥११-२९॥
लेलिह्यसे ग्रसमानः समन्ताल्-
लोकान्-समग्रान्-वदनैर्-ज्वलद्भिः ।
तेजोभि-रापूर्य जगत्-समग्रं
भासस्-तवोग्राः प्रतपन्ति विष्णो ॥११-३०॥
आख्याहि मे को भवानुग्र-रूपो
नमो-ऽस्तु ते देव-वर प्रसीद ।
विज्ञातुम्-इच्छामि भवन्तम्-आद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥११-३१॥
श्री-भगवान्-उवाच ।
कालो-ऽस्मि लोक-क्षयकृत्-प्रवृद्धो
लोकान्-समाहर्तुम्-इह प्रवृत्तः ।
ऋते-ऽपि त्वां न भविष्यन्ति सर्वे
ये-ऽवस्थिताः प्रत्यनीकेषु योधाः ॥११-३२॥
तस्मात्-त्वम्-उत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
निमित्त-मात्रं भव सव्यसाचिन् ॥११-३३॥
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यान्-अपि योध-वीरान् ।
मया हतांस्-त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥११-३४॥
सञ्जय उवाच ।
एतच्-छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्-वेपमानः किरीटी ।
नमस्-कृत्वा भूय एवाह कृष्णं
सगद्गदं भीत-भीतः प्रणम्य ॥११-३५॥
अर्जुन उवाच ।
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्-प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥११-३६॥
कस्माच्च ते न नमेरन्-महात्मन्
गरीयसे ब्रह्मणो-ऽप्यादि-कर्त्रे ।
अनन्त देवेश जगन्-निवास
त्वम्-अक्षरं सदसत् तत्परं यत् ॥११-३७॥
त्वम्-आदि-देवः पुरुषः पुराणस्-
त्वम्-अस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वम्-अनन्तरूप ॥११-३८॥
वायुर्-यमो-ऽग्निर्-वरुणः शशाङ्कः
प्रजापतिस्-त्वं प्रपितामहश्-च ।
नमो नमस्ते-ऽस्तु सहस्र-कृत्वः
पुनश्च भूयो-ऽपि नमो नमस्ते ॥११-३९॥
नमः पुरस्ताद्-अथ पृष्ठतस्ते
नमो-ऽस्तु ते सर्वत एव सर्व ।
अनन्त-वीर्यामित-विक्रमस्-त्वं
सर्वं समाप्नोषि ततो-ऽसि सर्वः ॥११-४०॥
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात्-प्रणयेन वापि ॥११-४१॥
यच्-चावहासार्थम्-असत्कृतो-ऽसि
विहार-शय्यासन-भोजनेषु ।
एको-ऽथवाप्यच्युत तत्-समक्षं
तत्-क्षामये त्वाम्-अहम्-अप्रमेयम् ॥११-४२॥
पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्-गरीयान् ।
न त्वत्-समो-ऽस्त्-यभ्यधिकः कुतो-ऽन्यो
लोकत्रये-ऽप्यप्रतिम्-अप्रभाव ॥११-४३॥
तस्मात्-प्रणम्य प्रणिधाय कायं
प्रसादये त्वाम्-अहम्-ईशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥११-४४॥
अदृष्ट-पूर्वं हृषितो-ऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्-निवास ॥११-४५॥
किरीटिनं गदिनं चक्र-हस्तं
इच्छामि त्वां द्रष्टुम्-अहं तथैव ।
तेनैव रूपेण चतुर्-भुजेन
सहस्र-बाहो भव विश्व-मूर्ते ॥११-४६॥
श्री-भगवान्-उवाच ।
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितम्-आत्म-योगात् ।
तेजोमयं विश्वम्-अनन्तम्-आद्यं
यन्मे त्वद्-अन्येन न दृष्ट-पूर्वम् ॥११-४७॥
न वेद-यज्ञाध्ययनैर्-न दानैर्-
न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वद्-अन्येन कुरुप्-रवीर ॥११-४८॥
मा ते व्यथा मा च विमूढ-भावो
दृष्ट्वा रूपं घोरम्-ईदृङ्-ममेदम् ।
व्यपेतभीः प्रीत-मनाः पुनस्-त्वं
तदेव मे रूपमिदं प्र-पश्य ॥११-४९॥
सञ्जय उवाच ।
इत्यर्जुनं वासुदेवस्-तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वास-यामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्-महात्मा ॥११-५०॥
अर्जुन उवाच ।
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीम्-अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥११-५१॥
श्री-भगवान्-उवाच ।
सुदुर्दर्शम्-इदं रूपं दृष्टवान्-असि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ॥११-५२॥
नाहं वेदैर्-न तपसा न दानेन न चेज्यया ।
शक्य एवं-विधो द्रष्टुं दृष्टवान्-असि मां यथा ॥११-५३॥
भक्त्या त्वनन्यया शक्य अहम्-एवंविधो-ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥११-५४॥
मत्-कर्म-कृन्मत्-परमो मद्-भक्तः सङ्गवर्जितः ।
निर्-वैरः सर्व-भूतेषु यः स मामेति पाण्डव ॥११-५५॥
ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
विश्व-रूप-दर्शन-योगो नामैकादशो-ऽध्यायः ॥११॥