Chapter- 10

श्री-भगवान्-उवाच ।
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्ते-ऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥१०-१॥

न मे विदुः सुर-गणाः प्रभवं न महर्षयः ।
अहम्-आदिर्हि देवानां महर्षीणां च सर्वशः ॥१०-२॥

यो माम्-अजम्-अनादिं च वेत्ति लोक-महेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०-३॥

बुद्धिर्-ज्ञानम्-असम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवो-ऽभावो भयं चाभयमेव च ॥१०-४॥

अहिंसा समता तुष्टिस्-तपो दानं यशो-ऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ॥१०-५॥

महर्षयः सप्त पूर्वे चत्वारो मनवस्-तथा ।
मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०-६॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सो-ऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०-७॥

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥१०-८॥

मच्चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०-९॥

तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् ।
ददामि बुद्धि-योगं तं येन माम्-उपयान्ति ते ॥१०-१०॥

तेषाम्-एवानुकम्पार्थम्-अहम्-अज्ञानजं तमः ।
नाशयाम्यात्म-भावस्थो ज्ञान-दीपेन भास्वता ॥१०-११॥

अर्जुन उवाच ।
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यम्-आदि-देवम्-अजं विभुम् ॥१०-१२॥

आहुस्-त्वाम्-ऋषयः सर्वे देवर्षिर्-नारदस्-तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०-१३॥

सर्वम्-एतद्-ऋतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्-व्यक्तिं विदुर्-देवा न दानवाः ॥१०-१४॥

स्वयम्-एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूत-भावन भूतेश देव-देव जगत्-पते ॥१०-१५॥

वक्तुम्-अर्हस्यशेषेण दिव्या ह्यात्म-विभूतयः ।
याभिर्-विभूतिभिर्-लोकान्-इमांस्त्वं व्याप्य तिष्ठसि ॥१०-१६॥

कथं विद्याम्-अहं योगिं-स्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्यो-ऽसि भगवन्-मया ॥१०-१७॥

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे-ऽमृतम् ॥१०-१८॥

श्री-भगवान्-उवाच ।
हन्त ते कथयिष्यामि दिव्या ह्यात्म-विभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०-१९॥

अहम्-आत्मा गुडाकेश सर्व-भूताशयस्थितः ।
अहम्-आदिश्च मध्यं च भूतानाम्-अन्त एव च ॥१०-२०॥

आदित्यानाम्-अहं विष्णुर्-ज्योतिषां रविरंशुमान् ।
मरीचिर्-मरुताम्-अस्मि नक्षत्राणाम्-अहं शशी ॥१०-२१॥

वेदानां सामवेदो-ऽस्मि देवानाम्-अस्मि वासवः ।
इन्द्रियाणां मनश्-चास्मि भूतानाम्-अस्मि चेतना ॥१०-२२॥

रुद्राणां शङ्करश्-चास्मि वित्तेशो यक्ष-रक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणाम्-अहम् ॥१०-२३॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम्-अहं स्कन्दः सरसाम्-अस्मि सागरः ॥१०-२४॥

महर्षीणां भृगुरहं गिराम्-अस्म्येकम्-अक्षरम् ।
यज्ञानां जप-यज्ञो-ऽस्मि स्थावराणां हिमालयः ॥१०-२५॥

अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्र-रथः सिद्धानां कपिलो मुनिः ॥१०-२६॥

उच्चैःश्रवसमश्वानां विद्धि माम्-अमृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०-२७॥

आयुधानामहं वज्रं धेनूनाम्-अस्मि कामधुक् ।
प्रजनश्-चास्मि कन्दर्पः सर्पाणाम्-अस्मि वासुकिः ॥१०-२८॥

अनन्तश्-चास्मि नागानां वरुणो यादसाम्-अहम् ।
पितॄणाम्-अर्यमा चास्मि यमः संयमताम्-अहम् ॥१०-२९॥

प्रह्लादश्-चास्मि दैत्यानां कालः कलयताम्-अहम् ।
मृगाणां च मृगेन्द्रो-ऽहं वैनतेयश्च पक्षिणाम् ॥१०-३०॥

पवनः पवताम्-अस्मि रामः शस्त्र-भृताम्-अहम् ।
झषाणां मकरश्-चास्मि स्रोतसाम्-अस्मि जाह्नवी ॥१०-३१॥

सर्गाणाम्-आदिरन्तश्च मध्यं चैवाहम्-अर्जुन ।
अध्यात्म-विद्या विद्यानां वादः प्रवदताम्-अहम् ॥१०-३२॥

अक्षराणाम्-अकारो-ऽस्मि द्वन्द्वः सामासिकस्य च ।
अहम्-एवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०-३३॥

मृत्युः सर्व-हरश्-चाहम्-उद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्-वाक्-च नारीणां स्मृतिर्-मेधा धृतिः क्षमा ॥१०-३४॥

बृहत्साम तथा साम्नां गायत्री छन्दसाम्-अहम् ।
मासानां मार्गशीर्षो-ऽहम्-ऋतूनां कुसुमाकरः ॥१०-३५॥

द्यूतं छलयताम्-अस्मि तेजस्-तेजस्विनाम्-अहम् ।
जयो-ऽस्मि व्यवसायो-ऽस्मि सत्त्वं सत्त्व-वताम्-अहम् ॥१०-३६॥

वृष्णीनां वासुदेवो-ऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनाम्-अप्यहं व्यासः कवीनाम्-उशना कविः ॥१०-३७॥

दण्डो दमयताम्-अस्मि नीतिर्-अस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम्-अहम् ॥१०-३८॥

यच्-चापि सर्व-भूतानां बीजं तद्-अहम्-अर्जुन ।
न तद्-अस्ति विना यत्स्यान्-मया भूतं चराचरम् ॥१०-३९॥

नान्तो-ऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्-विस्तरो मया ॥१०-४०॥

यद्यद्-विभूतिमत्-सत्त्वं श्रीमद्-ऊर्जितमेव वा ।
तत्तद्-एवावगच्छ त्वं मम तेजों-ऽश-सम्भवम् ॥१०-४१॥

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहम्-इदं कृत्स्नम्-एकांशेन स्थितो जगत् ॥१०-४२॥

ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
विभूति-योगो नाम दशमो-ऽध्यायः ॥१०॥