Chapter- 9

श्री-भगवान्-उवाच ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञान-सहितं यज्ज्ञात्वा मोक्ष्यसे-ऽशुभात् ॥९-१॥

राज-विद्या राज-गुह्यं पवित्रम्-इदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम्-अव्ययम् ॥९-२॥

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥९-३॥

मया ततमिदं सर्वं जगद्-अव्यक्त-मूर्तिना ।
मत्-स्थानि सर्व-भूतानि न चाहं तेष्ववस्थितः ॥९-४॥

न च मत्-स्थानि भूतानि पश्य मे योगम्-ऐश्वरम् ।
भूत-भृन्न च भूतस्थो ममात्मा भूत-भावनः ॥९-५॥

यथा-काशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्-स्थानीत्युपधारय ॥९-६॥

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्-तानि कल्पादौ विसृजाम्यहम् ॥९-७॥

प्रकृतिं स्वाम्-अवष्टभ्य विसृजामि पुनः पुनः ।
भूत-ग्रामम्-इमं कृत्स्नम्-अवशं प्रकृतेर्-वशात् ॥९-८॥

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीन्-अवदासीनम्-असक्तं तेषु कर्मसु ॥९-९॥

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्-विपरिवर्तते ॥९-१०॥

अवजानन्ति मां मूढा मानुषीं तनुम्-आश्रितम् ।
परं भावम्-अजानन्तो मम भूत-महेश्वरम् ॥९-११॥

मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः ।
राक्षसीम्-आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥९-१२॥

महात्मानस्तु मां पार्थ दैवीं प्रकृतिम्-आश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिम्-अव्ययम् ॥९-१३॥

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्य-युक्ता उपासते ॥९-१४॥

ज्ञान-यज्ञेन चाप्यन्ये यजन्तो माम्-उपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥९-१५॥

अहं क्रतुर्-अहं यज्ञः स्वधाहम्-अहम्-औषधम् ।
मन्त्रो-ऽहम्-अहम्-एवाज्यम्-अहम्-अग्निर्-अहं हुतम् ॥९-१६॥

पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रम्-ओङ्कार ऋक्-साम यजुर्-एव च ॥९-१७॥

गतिर्-भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजम्-अव्ययम् ॥९-१८॥

तपाम्यहम्-अहं वर्षं निगृह्णाम्-युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहम्-अर्जुन ॥९-१९॥

त्रैविद्या मां सोमपाः पूतपापा
यज्ञैर्-इष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यम्-आसाद्य सुरेन्द्रलोकम्-
अश्नन्ति दिव्यान्-दिवि देव-भोगान् ॥९-२०॥

ते तं भुक्त्वा स्वर्ग-लोकं विशालं
क्षीणे पुण्ये मर्त्य-लोकं विशन्ति ।
एवं त्रयी-धर्मम्-अनुप्रपन्ना
गतागतं काम-कामा लभन्ते ॥९-२१॥

अनन्याश्-चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभि-युक्तानां योग-क्षेमं वहाम्यहम् ॥९-२२॥

ये-ऽप्यन्य-देवता भक्ता यजन्ते श्रद्धयान्विताः ।
ते-ऽपि मामेव कौन्तेय यजन्त्यविधि-पूर्वकम् ॥९-२३॥

अहं हि सर्व-यज्ञानां भोक्ता च प्रभुरेव च ।
न तु माम्-अभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९-२४॥

यान्ति देवव्रता देवान्-पितॄन्-यान्ति पितृ-व्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनो-ऽपि माम् ॥९-२५॥

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद्-अहं भक्त्युपहृतम्-अश्नामि प्रयतात्मनः ॥९-२६॥

यत्-करोषि यद्-अश्नासि यज्-जुहोषि ददासि यत् ।
यत्-तपस्यसि कौन्तेय तत्-कुरुष्व मदर्पणम् ॥९-२७॥

शुभाशुभ-फलैरेवं मोक्ष्यसे कर्म-बन्धनैः ।
संन्यास-योग-युक्तात्मा विमुक्तो माम्-उपैष्यसि ॥९-२८॥

समो-ऽहं सर्व-भूतेषु न मे द्वेष्यो-ऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥९-२९॥

अपि चेत्-सु-दुराचारो भजते माम्-अनन्य-भाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९-३०॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥९-३१॥

मां हि पार्थ व्यपाश्रित्य ये-ऽपि स्युः पाप-योनयः ।
स्त्रियो वैश्यास्-तथा शूद्रास्-ते-ऽपि यान्ति परां गतिम् ॥९-३२॥

किं पुनर्-ब्राह्मणाः पुण्या भक्ता राजर्षयस्-तथा ।
अनित्यम्-असुखं लोकम्-इमं प्राप्य भजस्व माम् ॥९-३३॥

मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम्-एवैष्यसि युक्त्वैवम्-आत्मानं मत्-परायणः ॥९-३४॥

ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
राजविद्याराजगुह्य-योगो नाम नवमो-ऽध्यायः ॥९॥