Chapter- 8
अर्जुन उवाच ।
किं तद् ब्रह्म किम्-अध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तम्-अधिदैवं किम्-उच्यते ॥८-१॥
अधि-यज्ञः कथं को-ऽत्र देहे-ऽस्मिन्-मधुसूदन ।
प्रयाण-काले च कथं ज्ञेयो-ऽसि नियतात्मभिः ॥८-२॥
श्री-भगवान्-उवाच ।
अक्षरं ब्रह्म परमं स्वभावो-ऽध्यात्ममुच्यते ।
भूत-भावोद्-भव-करो विसर्गः कर्म-संज्ञितः ॥८-३॥
अधिभूतं क्षरो भावः पुरुषश्-चाधिदैवतम् ।
अधियज्ञो-ऽहमेवात्र देहे देहभृतां वर ॥८-४॥
अन्तकाले च मामेव स्मरन्-मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्-भावं याति नास्त्यत्र संशयः ॥८-५॥
यं यं वापि स्मरन्-भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्-भाव-भावितः ॥८-६॥
तस्मात्-सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पित-मनो-बुद्धिर्-मामेवैष्यस्यसंशयः ॥८-७॥
अभ्यास-योग-युक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८-८॥
कविं पुराणम्-अनुशासितारम्
अणोरणीयं-सम्-अनुस्मरेद्यः ।
सर्वस्य धातारम्-अचिन्त्यरूपम्
आदित्यवर्णं तमसः परस्तात् ॥८-९॥
प्रयाण-काले मनसा-ऽचलेन
भक्त्या युक्तो योग-बलेन चैव ।
भ्रुवोर्-मध्ये प्राणम्-आवेश्य सम्यक्
स तं परं पुरुषम्-उपैति दिव्यम् ॥८-१०॥
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यद-इच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥८-११॥
सर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणम्-आस्थितो योग-धारणाम् ॥८-१२॥
ओम्-इत्येकाक्षरं ब्रह्म व्याहरन्-माम्-अनुस्मरन् ।
यः प्रयाति त्यजन्-देहं स याति परमां गतिम् ॥८-१३॥
अनन्य-चेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥८-१४॥
मामुपेत्य पुनर्-जन्म दुःखालयम्-अशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥८-१५॥
आब्रह्म-भुवनाल्लोकाः पुनरावर्तिनो-ऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥८-१६॥
सहस्र-युग-पर्यन्तम्-अहर्यद् ब्रह्मणो विदुः ।
रात्रिं युग-सहस्रान्तां ते-ऽहोरात्र-विदो जनाः ॥८-१७॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त-संज्ञके ॥८-१८॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमे-ऽवशः पार्थ प्रभवत्यहरागमे ॥८-१९॥
परस्-तस्मात्-तु भावो-ऽन्यो-ऽव्यक्तो-ऽव्यक्तात्-सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८-२०॥
अव्यक्तो-ऽक्षर इत्युक्तस्-तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्-धाम परमं मम ॥८-२१॥
पुरुषः स परः पार्थ भक्त्या लभ्यस्-त्वनन्यया ।
यस्यान्तः-स्थानि भूतानि येन सर्वमिदं ततम् ॥८-२२॥
यत्र काले त्वनावृत्तिम्-आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥८-२३॥
अग्निर्-ज्योतिर्-अहः शुक्लः षण्-मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ॥८-२४॥
धूमो रात्रिस्-तथा कृष्णः षण्-मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्-योगी प्राप्य निवर्तते ॥८-२५॥
शुक्ल-कृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिम्-अन्यया-वर्तते पुनः ॥८-२६॥
नैते सृती पार्थ जानन्-योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥८-२७॥
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्-पुण्य-फलं प्रदिष्टम् ।
अत्येति तत्-सर्वमिदं विदित्वा
योगी परं स्थानम्-उपैति चाद्यम् ॥८-२८॥
ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
अक्षर-ब्रह्म-योगो नामाष्टमो-ऽध्यायः ॥८॥