Chapter- 7
श्री-भगवान्-उवाच ।
मय्यासक्त-मनाः पार्थ योगं युञ्जन्-मद्-आश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७-१॥
ज्ञानं ते-ऽहं सविज्ञानम्-इदं वक्ष्याम्यशेषतः ।
यज्-ज्ञात्वा नेह भूयो-ऽन्यज्-ज्ञातव्यम्-अवशिष्यते ॥७-२॥
मनुष्याणां सहस्रेषु कश्चिद्-यतति सिद्धये ।
यतताम्-अपि सिद्धानां कश्चिन्-मां वेत्ति तत्त्वतः ॥७-३॥
भूमिरापो-ऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥७-४॥
अपरेयम्-इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥७-५॥
एतद्-योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्-तथा ॥७-६॥
मत्तः परतरं नान्यत्-किञ्चिद्-अस्ति धनञ्जय ।
मयि सर्वम्-इदं प्रोतं सूत्रे मणि-गणा इव ॥७-७॥
रसो-ऽहम्-अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः ।
प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥७-८॥
पुण्यो गन्धः पृथिव्यां च तेजश्-चास्मि विभावसौ ।
जीवनं सर्व-भूतेषु तपश्-चास्मि तपस्विषु ॥७-९॥
बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्-बुद्धिमताम्-अस्मि तेजस्-तेजस्विनाम्-अहम् ॥७-१०॥
बलं बलवतां चाहं काम-राग-विवर्जितम् ।
धर्माविरुद्धो भूतेषु कामो-ऽस्मि भरतर्षभ ॥७-११॥
ये चैव सात्त्विका भावा राजसास्-तामसाश्च ये ।
मत्त एवेति तान्-विद्धि न त्वहं तेषु ते मयि ॥७-१२॥
त्रिभिर्-गुणमयैर्-भावैर्-एभिः सर्वम्-इदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परम्-अव्ययम् ॥७-१३॥
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायाम्-एतां तरन्ति ते ॥७-१४॥
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावम्-आश्रिताः ॥७-१५॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनो-ऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥७-१६॥
तेषां ज्ञानी नित्य-युक्त एक-भक्तिर्-विशिष्यते ।
प्रियो हि ज्ञानिनो-ऽत्यर्थम्-अहं स च मम प्रियः ॥७-१७॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा माम्-एवानुत्तमां गतिम् ॥७-१८॥
बहूनां जन्मनाम्-अन्ते ज्ञानवान्-मां प्रपद्यते ।
वासुदेवः सर्वम्-इति स महात्मा सुदुर्लभः ॥७-१९॥
कामैस्-तैस्-तैर्-हृतज्ञानाः प्रपद्यन्ते-ऽन्य-देवताः ।
तं तं नियमम्-आस्थाय प्रकृत्या नियताः स्वया ॥७-२०॥
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम्-इच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥७-२१॥
स तया श्रद्धया युक्तस्-तस्याराधनमीहते ।
लभते च ततः कामान्-मयैव विहितान्हि तान् ॥७-२२॥
अन्तवत्तु फलं तेषां तद्-भवत्यल्प-मेधसाम् ।
देवान्-देव-यजो यान्ति मद्-भक्ता यान्ति मामपि ॥७-२३॥
अव्यक्तं व्यक्तिम्-आपन्नं मन्यन्ते माम्-अबुद्धयः ।
परं भावम्-अजानन्तो ममाव्ययम्-अनुत्तमम् ॥७-२४॥
नाहं प्रकाशः सर्वस्य योग-माया-समावृतः ।
मूढो-ऽयं नाभिजानाति लोको माम्-अजम्-अव्ययम् ॥७-२५॥
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥७-२६॥
इच्छाद्वेष-समुत्थेन द्वन्द्व-मोहेन भारत ।
सर्व-भूतानि सम्मोहं सर्गे यान्ति परन्तप ॥७-२७॥
येषां त्वन्तगतं पापं जनानां पुण्य-कर्मणाम् ।
ते द्वन्द्वमोह-निर्मुक्ता भजन्ते मां दृढव्रताः ॥७-२८॥
जरा-मरण-मोक्षाय माम्-आश्रित्य यतन्ति ये ।
ते ब्रह्म तद्-विदुः कृत्स्नम्-अध्यात्मं कर्म चाखिलम् ॥७-२९॥
साधिभूताधिदैवं मां साधि-यज्ञं च ये विदुः ।
प्रयाण-काले-ऽपि च मां ते विदुर्-युक्त-चेतसः ॥७-३०॥
ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
ज्ञानविज्ञान-योगो नाम सप्तमो-ऽध्यायः ॥७॥