Chapter- 6
श्री-भगवान्-उवाच ।
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निर्-अग्निर्-न चाक्रियः ॥६-१॥
यं संन्यासम्-इति प्राहुर्-योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्त-सङ्कल्पो योगी भवति कश्चन ॥६-२॥
आरुरुक्षोर्-मुने-र्योगं कर्म कारणम्-उच्यते ।
योगारूढस्य तस्यैव शमः कारणम्-उच्यते ॥६-३॥
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्व-सङ्कल्प-संन्यासी योगारूढस्-तदोच्यते ॥६-४॥
उद्धरेद्-आत्मनात्मानं नात्मानम्-अवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुर्-आत्मैव रिपुर्-आत्मनः ॥६-५॥
बन्धुर्-आत्मात्मनस्-तस्य येनात्मैवात्मना जितः ।
अनात्मनस्-तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६-६॥
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्ण-सुखदुःखेषु तथा मानापमानयोः ॥६-७॥
ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी सम-लोष्टाश्मकाञ्चनः ॥६-८॥
सुहृन्-मित्रार्युदासीनम्-अध्यस्थ-द्वेष्य-बन्धुषु ।
साधुष्वपि च पापेषु सम-बुद्धिर्-विशिष्यते ॥६-९॥
योगी युञ्जीत सततम्-आत्मानं रहसि स्थितः ।
एकाकी यत-चित्तात्मा निराशीर्-अपरिग्रहः ॥६-१०॥
शुचौ देशे प्रतिष्ठाप्य स्थिरम्-आसनम्-आत्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६-११॥
तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः ।
उपविश्यासने युञ्ज्याद्-योगम्-आत्म-विशुद्धये ॥६-१२॥
समं काय-शिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्-चानवलोकयन् ॥६-१३॥
प्रशान्तात्मा विगतभीर्-ब्रह्मचारि-व्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६-१४॥
युञ्जन्नेवं सदात्मानं योगी नियत-मानसः ।
शान्तिं निर्वाण-परमां मत्-संस्थाम्-अधिगच्छति ॥६-१५॥
नात्यश्नतस्-तु योगो-ऽस्ति न चैकान्त-मनश्नतः ।
न चाति-स्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥६-१६॥
युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु ।
युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा ॥६-१७॥
यदा विनियतं चित्तम्-आत्मन्येवावतिष्ठते ।
निःस्पृहः सर्व-कामेभ्यो युक्त इत्युच्यते तदा ॥६-१८॥
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यत-चित्तस्य युञ्जतो योगम-आत्मनः ॥६-१९॥
यत्रोपरमते चित्तं निरुद्धं योग-सेवया ।
यत्र चैवात्मनात्मानं पश्यन्न्-आत्मनि तुष्यति ॥६-२०॥
सुखम्-आत्यन्तिकं यत्तद् बुद्धि-ग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्-चलति तत्त्वतः ॥६-२१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्-स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६-२२॥
तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् ।
स निश्चयेन योक्तव्यो योगो-ऽनिर्विण्ण-चेतसा ॥६-२३॥
सङ्कल्प-प्रभवान्-कामांस्-त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६-२४॥
शनैः शनैर्-उपरमेद् बुद्ध्या धृति-गृहीतया ।
आत्म-संस्थं मनः कृत्वा न किञ्चिद्-अपि चिन्तयेत् ॥६-२५॥
यतो यतो निश्-चरति मनश्-चञ्चलम्-अस्थिरम् ।
ततस्-ततो नियम्यैतद्-आत्मन्येव वशं नयेत् ॥६-२६॥
प्रशान्त-मनसं ह्येनं योगिनं सुखमुत्-उतमम् ।
उपैति शान्त-रजसं ब्रह्म-भूतम्-अकल्मषम् ॥६-२७॥
युञ्जन्नेवं सदात्मानं योगी विगत-कल्मषः ।
सुखेन ब्रह्म-संस्पर्शम्-अत्यन्तं सुखम्-अश्नुते ॥६-२८॥
सर्व-भूतस्थम्-आत्मानं सर्व-भूतानि चात्मनि ।
ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥६-२९॥
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६-३०॥
सर्व-भूत-स्थितं यो मां भजत्येकत्वम्-अस्थितः ।
सर्वथा वर्तमानो-ऽपि स योगी मयि वर्तते ॥६-३१॥
आत्मौपम्येन सर्वत्र समं पश्यति यो-ऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६-३२॥
अर्जुन उवाच ।
यो-ऽयं योगस्-त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्-स्थितिं स्थिराम् ॥६-३३॥
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६-३४॥
श्री-भगवान्-उवाच ।
असंशयं महाबाहो मनो दुर्-निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६-३५॥
असंयतात्मना योगो दुष्-प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्यो-ऽवाप्तुम्-उपायतः ॥६-३६॥
अर्जुन उवाच ।
अयतिः श्रद्धयोपेतो योगाच्चलित-मानसः ।
अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥६-३७॥
कच्चिन्नोभय-विभ्रष्टश्-छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६-३८॥
एतन्-मे संशयं कृष्ण छेत्तुम्-अर्हस्यशेषतः ।
त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६-३९॥
श्री-भगवान्-उवाच ।
पार्थ नैवेह नामुत्र विनाशस्-तस्य विद्यते ।
न हि कल्याणकृत्-कश्चिद् दुर्गतिं तात गच्छति ॥६-४०॥
प्राप्य पुण्यकृतां लोकान्-उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्-रष्टो-ऽभिजायते ॥६-४१॥
अथवा योगिनाम्-एव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६-४२॥
तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरु-नन्दन ॥६-४३॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशो-ऽपि सः ।
जिज्ञासुर्-अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥६-४४॥
प्रयत्नाद्-यतमानस्तु योगी संशुद्ध-किल्बिषः ।
अनेक-जन्म-संसिद्धस्-ततो याति परां गतिम् ॥६-४५॥
तपस्विभ्यो-ऽधिको योगी ज्ञानिभ्यो-ऽपि मतो-ऽधिकः ।
कर्मिभ्यश्-चाधिको योगी तस्माद्-योगी भवार्जुन ॥६-४६॥
योगिनाम्-अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान्-भजते यो मां स मे युक्ततमो मतः ॥६-४७॥
ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
आत्मसंयम-योगो नाम षष्ठो-ऽध्यायः ॥६॥