Chapter- 5

अर्जुन उवाच ।
संन्यासं कर्मणां कृष्ण पुनर्-योगं च शंससि ।
यच्छ्रेय एतयोर्-एकं तन्मे ब्रूहि सुनिश्चितम् ॥५-१॥

श्री-भगवान्-उवाच ।
संन्यासः कर्म-योगश्-च निःश्रेयसकरावुभौ ।
तयोस्-तु कर्म-संन्यासात्-कर्मयोगो विशिष्यते ॥५-२॥

ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्-प्रमुच्यते ॥५-३॥

साङ्ख्य-योगौ पृथग्-बालाः प्रवदन्ति न पण्डिताः ।
एकम्-अप्यास्थितः सम्यग्-उभयोर्-विन्दते फलम् ॥५-४॥

यत्-साङ्ख्यैः प्राप्यते स्थानं तद्-योगैर्-अपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५-५॥

संन्यासस्-तु महा-बाहो दुःखम्-आप्तुमयोगतः ।
योग-युक्तो मुनिर्-ब्रह्म न-चिरेणाधिगच्छति ॥५-६॥

योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्व-भूतात्म-भूतात्मा कुर्वन्नपि न लिप्यते ॥५-७॥

नैव किञ्चित्-करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्-शृण्वन्-स्पृशञ्-जिघ्रन्न्-अश्नन्-गच्छन्-स्वपञ्-श्वसन् ॥५-८॥

प्रलपन्-विसृजन्-गृह्णन्न्-उन्मिषन्-निमिषन्न्-अपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५-९॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्म-पत्रम्-इवाम्भसा ॥५-१०॥

कायेन मनसा बुद्ध्या केवलैर्-इन्द्रियैर्-अपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥५-११॥

युक्तः कर्मफलं त्यक्त्वा शान्तिम्-आप्नोति नैष्ठिकीम् ।
अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥५-१२॥

सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नव-द्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५-१३॥

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफल-संयोगं स्वभावस्तु प्रवर्तते ॥५-१४॥

नादत्ते कस्यचित्-पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५-१५॥

ज्ञानेन तु तद्-अज्ञानं येषां नाशितम्-आत्मनः ।
तेषाम्-आदित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५-१६॥

तद्-बुद्धयस्-तद्-आत्मानस्-तन्निष्ठास्-तत्-परायणाः ।
गच्छन्त्यपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥५-१७॥

विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥५-१८॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥५-१९॥

न प्रहृष्येत्-प्रियं प्राप्य नो-द्विजेत्-प्राप्य चाप्रियम् ।
स्थिर-बुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥५-२०॥

बाह्य-स्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्-सुखम् ।
स ब्रह्म-योग-युक्तात्मा सुखम्-अक्षयम्-अश्नुते ॥५-२१॥

ये हि सं-स्पर्शजा भोगा दुःख-योनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५-२२॥

शक्नोतीहैव यः सोढुं प्राक्-शरीर-विमोक्षणात् ।
काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५-२३॥

यो-ऽन्तःसुखो-ऽन्तरारामस्-तथान्तर्ज्योतिर्-एव यः ।
स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतो-ऽधिगच्छति ॥५-२४॥

लभन्ते ब्रह्म-निर्वाणम्-ऋषयः क्षीण-कल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥५-२५॥

काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् ।
अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥५-२६॥

स्पर्शान्-कृत्वा बहिर्-बाह्यांश्-चक्षुश्-चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ॥५-२७॥

यतेन्द्रिय-मनो-बुद्धिर्-मुनिर्-मोक्ष-परायणः ।
विगतेच्छाभय-क्रोधो यः सदा मुक्त एव सः ॥५-२८॥

भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् ।
सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम्-ऋच्छति ॥५-२९॥

ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
संन्यास-योगो नाम पञ्चमो-ऽध्यायः ॥५॥