Chapter- 4
श्री-भगवान्-उवाच ।
इमं विवस्वते योगं प्रोक्तवान्-अहम्-अव्ययम् ।
विवस्वान्-मनवे प्राह मनुर्-इक्ष्वाकवे-ऽब्रवीत् ॥४-१॥
एवं परम्पराप्-राप्तम्-इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥४-२॥
स एवायं मया ते-ऽद्य योगः प्रोक्तः पुरातनः ।
भक्तो-ऽसि मे सखा चेति रहस्यं ह्येतद्-उत्तमम् ॥४-३॥
अर्जुन उवाच ।
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथम्-एतद्विजानीयां त्वमादौ प्रोक्तवान्-इति ॥४-४॥
श्री-भगवान्-उवाच ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥
अजो-ऽपि सन्नव्ययात्मा भूतानाम्-ईश्वरो-ऽपि सन् ।
प्रकृतिं स्वाम्-अधिष्ठाय सम्भवाम्यात्म-मायया ॥४-६॥
यदा यदा हि धर्मस्य ग्लानिर्-भवति भारत ।
अभ्युत्थानम्-अधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म-संस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥
जन्म कर्म च मे दिव्यम-एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्-जन्म नैति मामेति सो-ऽर्जुन ॥४-९॥
वीत-राग-भय-क्रोधा मन्मया माम्-उपाश्रिताः ।
बहवो ज्ञान-तपसा पूता मद्-भावम्-आगताः ॥४-१०॥
ये यथा मां प्रपद्यन्ते तांस्-तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४-११॥
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्-भवति कर्मजा ॥४-१२॥
चातुर्वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः ।
तस्य कर्तारम्-अपि मां विद्ध्यकर्तारम्-अव्ययम् ॥४-१३॥
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां यो-ऽभिजानाति कर्मभिर्-न स बध्यते ॥४-१४॥
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्-त्वं पूर्वैः पूर्वतरं कृतम् ॥४-१५॥
किं कर्म किम्-अकर्मेति कवयो-ऽप्यत्र मोहिताः ।
तत्-ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसे-ऽशुभात् ॥४-१६॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥
कर्मण्यकर्म यः पश्येद्-अकर्मणि च कर्म यः ।
स बुद्धिमान्-मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥४-१८॥
यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः ।
ज्ञानाग्नि-दग्ध-कर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥
त्यक्त्वा कर्मफलासङ्गं नित्य-तृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तो-ऽपि नैव किञ्चित्-करोति सः ॥४-२०॥
निराशीर्-यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥
यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥४-२२॥
गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४-२३॥
ब्रह्मार्पणं ब्रह्म हविर्-ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥४-२४॥
दैवम्-एवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४-२५॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्-विषयान्-अन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥
सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे ।
आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥४-२७॥
द्रव्य-यज्ञास्-तपो-यज्ञा योग-यज्ञास्-तथापरे ।
स्वाध्याय-ज्ञान-यज्ञाश्च यतयः संशितव्रताः ॥४-२८॥
अपाने जुह्वति प्राणं प्राणे-ऽपानं तथापरे ।
प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥४-२९॥
अपरे नियताहाराः प्राणान्-प्राणेषु जुह्वति ।
सर्वे-ऽप्येते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥४-३०॥
यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् ।
नायं लोको-ऽस्त्य-यज्ञस्य कुतो-ऽन्यः कुरु-सत्तम ॥४-३१॥
एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्-विद्धि तान्-सर्वान्-एवं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥
श्रेयान्-द्रव्यमयाद्यज्ञाज्ज्ञान-यज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥
तद्विद्धि प्रणिपातेन परि-प्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्-तत्त्व-दर्शिनः ॥४-३४॥
यज्ज्ञात्वा न पुनर्-मोहम्-एवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्-यथो मयि ॥४-३५॥
अपि चेदसि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४-३६॥
यथैधांसि समिद्धो-ऽग्निर्-भस्मसात्-कुरुते-ऽर्जुन ।
ज्ञानाग्निः सर्व-कर्माणि भस्मसात्-कुरुते तथा ॥४-३७॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्-स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥४-३८॥
श्रद्धावाँल्-लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिम्-अचिरेणाधिगच्छति ॥४-३९॥
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोको-ऽस्ति न परो न सुखं संशयात्मनः ॥४-४०॥
योग-संन्यस्त-कर्माणं ज्ञान-सञ्छिन्-न-संशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥४-४१॥
तस्माद्-अज्ञान-सम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगम्-आतिष्ठोत्तिष्ठ भारत ॥४-४२॥
ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
ज्ञानकर्मसंन्यास-योगो नाम चतुर्थो-ऽध्यायः ॥४॥