Chapter- 3

अर्जुन उवाच ।
ज्यायसी चेत्-कर्मणस्ते मता बुद्धिर्-जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३-१॥

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयो-ऽहम्-आप्नुयाम् ॥३-२॥

श्री-भगवान्-उवाच ।
लोके-ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥३-३॥

न कर्मणा-मनारम्भान्-नैष्कर्म्यं पुरुषो-ऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३-४॥

न हि कश्चित्-क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्-गुणैः ॥३-५॥

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्-विमूढात्मा मिथ्याचारः स उच्यते ॥३-६॥

यस्त्-विन्द्रियाणि मनसा नियम्यारभते-ऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगम्-असक्तः स विशिष्यते ॥३-७॥

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीर-यात्रापि च ते न प्रसिद्ध्येद्-अकर्मणः ॥३-८॥

यज्ञार्थात्-कर्मणो-ऽन्यत्र लोको-ऽयं कर्म-बन्धनः ।
तदर्थं कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥३-९॥

सहयज्ञाः प्रजाः सृष्ट्वा पुरो-वाच प्रजापतिः ।
अनेन प्रसविष्यध्वम्-एष वो-ऽस्त्विष्ट-कामधुक् ॥३-१०॥

देवान्भाव-यतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परम्-अवाप्स्यथ ॥३-११॥

इष्टान्-भोगान्-हि वो देवा दास्यन्ते यज्ञ-भाविताः ।
तैर्-दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३-१२॥

यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्म-कारणात् ॥३-१३॥

अन्नाद्-भवन्ति भूतानि पर्जन्याद्-अन्नसम्भवः ।
यज्ञाद्-भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥३-१४॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् ।
तस्मात्-सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३-१५॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुर्-इन्द्रियारामो मोघं पार्थ स जीवति ॥३-१६॥

यस्त्वात्म-रतिरेव स्याद्-आत्म-तृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्-तस्य कार्यं न विद्यते ॥३-१७॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्व-भूतेषु कश्चिद्-अर्थ-व्यपाश्रयः ॥३-१८॥

तस्माद्-असक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्-कर्म परमाप्नोति पूरुषः ॥३-१९॥

कर्मणैव हि संसिद्धिम्-आस्थिता जनकादयः ।
लोक-सङ्ग्रहम्-एवापि सम्पश्यन्-कर्तुम्-अर्हसि ॥३-२०॥

यद्यद्-आचरति श्रेष्ठस्-तत्तद्-एवेतरो जनः ।
स यत्प्-रमाणं कुरुते लोकस्-तद्-अनुवर्तते ॥३-२१॥

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तम्-अवाप्तव्यं वर्त एव च कर्मणि ॥३-२२॥

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥३-२३॥

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेद्-अहम् ।
सङ्करस्य च कर्ता स्याम्-उपहन्यामिमाः प्रजाः ॥३-२४॥

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्-विद्वांस्-तथासक्तश्-चिकीर्षुर्-लोक-सङ्ग्रहम् ॥३-२५॥

न बुद्धि-भेदं जनयेद्-अज्ञानां कर्म-सङ्गिनाम् ।
जोषयेत्-सर्व-कर्माणि विद्वान्-युक्तः समाचरन् ॥३-२६॥

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कार-विमूढात्मा कर्ताहम्-इति मन्यते ॥३-२७॥

तत्त्ववित्-तु महाबाहो गुण-कर्म-विभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३-२८॥

प्रकृतेर्-गुण-सम्मूढाः सज्जन्ते गुण-कर्मसु ।
तान्-अकृत्स्न-विदो मन्दान्-कृत्स्नविन्-न विचालयेत् ॥३-२९॥

मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा ।
निराशीर्-निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥३-३०॥

ये मे मतम्-इदं नित्यम्-अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तो-ऽनसूयन्तो मुच्यन्ते ते-ऽपि कर्मभिः ॥३-३१॥

ये त्वेतद्-अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञान-विमूढांस्तान्-विद्धि नष्टान्-अचेतसः ॥३-३२॥

सदृशं चेष्टते स्वस्याः प्रकृतेर्-ज्ञानवान्-अपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३-३३॥

इन्द्रियस्-येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ ।
तयोर्-न वशम्-आगच्छेत्-तौ ह्यस्य परिपन्थिनौ ॥३-३४॥

श्रेयान्-स्वधर्मो विगुणः परधर्मात्-स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३-३५॥

अर्जुन उवाच ।
अथ केन प्रयुक्तो-ऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३-३६॥

श्री-भगवान्-उवाच ।
काम एष क्रोध एष रजो-गुण-समुद्भवः ।
महाशनो महापाप्मा विद्ध्येनम्-इह वैरिणम् ॥३-३७॥

धूमेनाव्रियते वह्निर्-यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्-तथा तेनेदम्-आवृतम् ॥३-३८॥

आवृतं ज्ञानम्-एतेन ज्ञानिनो नित्य-वैरिणा ।
काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥३-३९॥

इन्द्रियाणि मनो बुद्धिर्-अस्याधिष्ठानम्-उच्यते ।
एतैर्-विमोह-यत्येष ज्ञानम्-आवृत्य देहिनम् ॥३-४०॥

तस्मात्-त्वम्-इन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञान-विज्ञान-नाशनम् ॥३-४१॥

इन्द्रियाणि पराण्याहुर्-इन्द्रियेभ्यः परं मनः ।
मनसस्-तु परा बुद्धिर्-यो बुद्धेः परतस्तु सः ॥३-४२॥

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम्-आत्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३-४३॥

ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
कर्म-योगो नाम तृतीयो-ऽध्यायः ॥३॥