Chapter- 2

सञ्जय उवाच ।
तं तथा कृपयाविष्टम्-अश्रुपूर्णाकुले-क्षणम् ।
विषीदन्तमिदं वाक्यम्-उवाच मधुसूदनः ॥२-१॥

श्री-भगवान्-उवाच ।
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टम्-अस्वर्ग्यम्-अकीर्तिकरम्-अर्जुन ॥२-२॥

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२-३॥

अर्जुन उवाच ।
कथं भीष्मम्-अहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥२-४॥

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थ-कामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥२-५॥

न चैतद्-विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्-
ते-ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२-६॥

कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म-सम्मूढ-चेताः ।
यच्छ्रेयः स्यान्-निश्चितं ब्रूहि तन्मे
शिष्यस्-ते-ऽहं शाधि मां त्वां प्रपन्नम् ॥२-७॥

न हि प्रपश्यामि ममापनुद्याद्
यच्छोकम्-उच्छोषणम्-इन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥२-८॥

सञ्जय उवाच ।
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दम्-उक्त्वा तूष्णीं बभूव ह ॥२-९॥

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोर्-उभयोर्-मध्ये विषीदन्तम्-इदं वचः ॥२-१०॥

श्री-भगवान्-उवाच ।
अशोच्यान्-अन्वशोचस्-त्वं प्रज्ञा-वादांश्च भाषसे ।
गतासून-गतासूंश्च नानु-शोचन्ति पण्डिताः ॥२-११॥

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥२-१२॥

देहिनो-ऽस्मिन्-यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तर-प्राप्तिर्-धीरस्-तत्र न मुह्यति ॥२-१३॥

मात्रा-स्पर्शास्तु कौन्तेय शीतोष्ण-सुखदुःखदाः ।
आगमा-पायिनो-ऽनित्यास्-तांस्-तितिक्षस्व भारत ॥२-१४॥

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
सम-दुःखसुखं धीरं सो-ऽमृतत्वाय कल्पते ॥२-१५॥

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टो-ऽन्तस्-त्वनयोस्-तत्त्वदर्शिभिः ॥२-१६॥

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशम्-अव्ययस्यास्य न कश्चित्-कर्तुमर्हति ॥२-१७॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनो-ऽप्रमेयस्य तस्माद्-युध्यस्व भारत ॥२-१८॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२-१९॥

न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतो-ऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥२-२०॥

वेदाविनाशिनं नित्यं य एनम्-अजम्-अव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२-२१॥

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरो-ऽपराणि ।
तथा शरीराणि विहाय जीर्णान्-
यन्यानि संयाति नवानि देही ॥२-२२॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२-२३॥

अच्छेद्यो-ऽयम्-अदाह्यो-ऽयम्-अक्लेद्यो-ऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुर्-अचलो-ऽयं सनातनः ॥२-२४॥

अव्यक्तो-ऽयम्-अचिन्त्यो-ऽयम्-अविकार्यो-ऽयम्-उच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुम्-अर्हसि ॥२-२५॥

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुम्-अर्हसि ॥२-२६॥

जातस्य हि ध्रुवो मृत्युर्-ध्रुवं जन्म मृतस्य च ।
तस्माद्-अपरिहार्ये-ऽर्थे न त्वं शोचितुम्-अर्हसि ॥२-२७॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्त-निधनान्येव तत्र का परिदेवना ॥२-२८॥

आश्चर्यवत्-पश्यति कश्चिदेनम्-
आश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२-२९॥

देही नित्यम्-अवध्यो-ऽयं देहे सर्वस्य भारत ।
तस्मात्-सर्वाणि भूतानि न त्वं शोचितुम्-अर्हसि ॥२-३०॥

स्वधर्मम्-अपि चावेक्ष्य न विकम्पितुम्-अर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयो-ऽन्यत्-क्षत्रियस्य न विद्यते ॥२-३१॥

यदृच्छया चोपपन्नं स्वर्ग-द्वारम्-अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम्-ईदृशम् ॥२-३२॥

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापम्-अवाप्स्यसि ॥२-३३॥

अकीर्तिं चापि भूतानि कथयिष्यन्ति ते-ऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्-मरणादतिरिच्यते ॥२-३४॥

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२-३५॥

अवाच्य-वादांश्च बहून्-वदिष्यन्ति तवाहिताः ।
निन्दन्तस्-तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२-३६॥

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्माद्-उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२-३७॥

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापम्-अवाप्स्यसि ॥२-३८॥

एषा ते-ऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२-३९॥

नेहाभिक्रम-नाशो-ऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पम्-अप्यस्य धर्मस्य त्रायते महतो भयात् ॥२-४०॥

व्यवसायात्मिका बुद्धिर्-एकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयो-ऽव्यवसायिनाम् ॥२-४१॥

यामिमां पुष्पितां वाचं प्रवदन्त्य-विपश्चितः ।
वेद-वादरताः पार्थ नान्यद्-अस्तीति वादिनः ॥२-४२॥

कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् ।
क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥२-४३॥

भोगैश्वर्य-प्रसक्तानां तयापहृत-चेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२-४४॥

त्रैगुण्य-विषया वेदा निस्-त्रैगुण्यो भवार्जुन ।
निर्-द्वन्द्वो नित्य-सत्त्वस्थो निर्-योग-क्षेम आत्मवान् ॥२-४५॥

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान्-सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२-४६॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफल-हेतुर्-भूर्-मा ते सङ्गो-ऽस्त्वकर्मणि ॥२-४७॥

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२-४८॥

दूरेण ह्यवरं कर्म बुद्धियोगाद्-धनञ्जय ।
बुद्धौ शरणम्-अन्विच्छ कृपणाः फल-हेतवः ॥२-४९॥

बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते ।
तस्माद्-योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२-५०॥

कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्म-बन्ध-विनिर्-मुक्ताः पदं गच्छन्त्यनामयम् ॥२-५१॥

यदा ते मोह-कलिलं बुद्धिर्-व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२-५२॥

श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधाव-चला बुद्धिस्-तदा योगम्-अवाप्स्यसि ॥२-५३॥

अर्जुन उवाच ।
स्थित-प्रज्ञस्य का भाषा समाधिस्-थस्य केशव ।
स्थितधीः किं प्रभाषेत किम्-आसीत व्रजेत किम् ॥२-५४॥

श्री-भगवान्-उवाच ।
प्रजहाति यदा कामान्-सर्वान्-पार्थ मनो-गतान् ।
आत्मन्येवात्मना तुष्टः स्थित-प्रज्ञस्-तदोच्यते ॥२-५५॥

दुःखेष्वनुद्-विग्नमनाः सुखेषु विगत-स्पृहः ।
वीत-राग-भय-क्रोधः स्थितधीर्-मुनिरुच्यते ॥२-५६॥

यः सर्वत्रानभिस्नेहस्-तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२-५७॥

यदा संहरते चायं कूर्मो-ऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्-तस्य प्रज्ञा प्रतिष्ठिता ॥२-५८॥

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसो-ऽप्यस्य परं दृष्ट्वा निवर्तते ॥२-५९॥

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२-६०॥

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२-६१॥

ध्यायतो विषयान्-पुंसः सङ्गस्तेषूप-जायते ।
सङ्गात्-सञ्जायते कामः कामात्-क्रोधो-ऽभिजायते ॥२-६२॥

क्रोधाद्-भवति सम्मोहः सम्मोहात्-स्मृतिविभ्रमः ।
स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात्-प्रणश्यति ॥२-६३॥

राग-द्वेष-विमुक्तैस्-तु विषयान्-इन्द्रियैश्-चरन् ।
आत्म-वश्यैर्-विधेयात्मा प्रसादम्-अधिगच्छति ॥२-६४॥

प्रसादे सर्वदुःखानां हानिरस्योप-जायते ।
प्रसन्न-चेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२-६५॥

नास्ति बुद्धिर्-अयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिर्-अशान्तस्य कुतः सुखम् ॥२-६६॥

इन्द्रियाणां हि चरतां यन्-मनो-ऽनु-विधीयते ।
तदस्य हरति प्रज्ञां वायुर्-नावमिवाम्भसि ॥२-६७॥

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्-तस्य प्रज्ञा प्रतिष्ठिता ॥२-६८॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२-६९॥

आपूर्यमाणम्-अचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिम्-आप्नोति न कामकामी ॥२-७०॥

विहाय कामान्यः सर्वान्-पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिम्-अधिगच्छति ॥२-७१॥

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्याम्-अन्तकाले-ऽपि ब्रह्म-निर्वाण-मृच्छति ॥२-७२॥

ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
साङ्ख्य-योगो नाम द्वितीयो-ऽध्यायः ॥२॥