Chapter- 1
धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्-चैव किमकुर्वत सञ्जय ॥१-१॥
सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्-तदा ।
आचार्यम्-उपसङ्गम्य राजा वचनम्-अब्रवीत् ॥१-२॥
पश्यैतां पाण्डुपुत्राणाम्-आचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥
धृष्टकेतुश्-चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्-कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥
अस्माकं तु विशिष्टा ये तान्-निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥
भवान्-भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्-जयद्रथः ॥१-८॥
अन्ये च बहवः शूरा मदर्थे त्यक्त-जीविताः ।
नानाशस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ॥१-९॥
अपर्याप्तं तद्-अस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदम्-एतेषां बलं भीमाभिरक्षितम् ॥१-१०॥
अयनेषु च सर्वेषु यथाभागम्-अवस्थिताः ।
भीष्मम्-एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥
तस्य सञ्जन-यन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥
ततः शङ्खाश्च भेर्यश्च पणवानक-गोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्-तुमुलो-ऽभवत् ॥१-१३॥
ततः श्वेतैर्-हयैर्-युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्-चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥
अनन्त-विजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोष-मणिपुष्पकौ ॥१-१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्-चापराजितः ॥१-१७॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥
अथ व्यवस्थितान्-दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्र-सम्पाते धनुरुद्यम्य पाण्डवः ॥१-२०॥
हृषीकेशं तदा वाक्यम्-इदमाह महीपते ।
अर्जुन उवाच ।
सेनयोर्-उभयोर्-मध्ये रथं स्थापय मे-ऽच्युत ॥१-२१॥
यावद्-एतान्-निरीक्षे-ऽहं योद्धुकामान्-अवस्थितान् ।
कैर्मया सह योद्धव्यम्-अस्मिन् रणसमुद्यमे ॥१-२२॥
योत्स्यमानान्-अवेक्षे-ऽहं य एते-ऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्-युद्धे प्रियचिकीर्षवः ॥१-२३॥
सञ्जय उवाच ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोर्-उभयोर्-मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥
भीष्मद्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्-समवेतान्-कुरूनिति ॥१-२५॥
तत्रापश्यत्-स्थितान्-पार्थः पितॄनथ पितामहान् ।
आचार्यान्-मातुलान्-भ्रातॄन्-पुत्रान्-पौत्रान्-सखींस्-तथा ॥१-२६॥
श्वशुरान्-सुहृदश्-चैव सेनयोर्-उभयोर्-अपि ।
तान्-समीक्ष्य स कौन्तेयः सर्वान्-बन्धून्-अवस्थितान् ॥१-२७॥
अर्जुन उवाच ।
कृपया परयाविष्टो विषीदन्न्-इदम्-अब्रवीत् ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥
गाण्डीवं स्रंसते हस्तात्-त्वक्-चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयो-ऽनु-पश्यामि हत्वा स्वजनम्-आहवे ॥१-३१॥
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्-जीवितेन वा ॥१-३२॥
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमे-ऽवस्थिता युद्धे प्राणांस्-त्यक्त्वा धनानि च ॥१-३३॥
आचार्याः पितरः पुत्रास्-तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्-तथा ॥१-३४॥
एतान्-न हन्तुम्-इच्छामि घ्नतो-ऽपि मधुसूदन ।
अपि त्रैलोक्य-राज्यस्य हेतोः किं नु महीकृते ॥१-३५॥
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापम्-एवाश्रयेदस्मान्-हत्वैतान्-आततायिनः ॥१-३६॥
तस्मान्-नार्हा वयं हन्तुं धार्तराष्ट्रान्-स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥
यद्यप्येते न पश्यन्ति लोभोपहत-चेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥
कथं न ज्ञेयम्-अस्माभिः पापाद्-अस्मान्-निवर्तितुम् ।
कुलक्षय-कृतं दोषं प्रपश्यद्भिर्-जनार्दन ॥१-३९॥
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम्-अधर्मो-ऽभिभवत्युत ॥१-४०॥
अधर्माभिभवात्-कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥१-४१॥
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्त-पिण्डोदक-क्रियाः ॥१-४२॥
दोषैरेतैः कुल-घ्नानां वर्ण-सङ्कर-कारकैः ।
उत्साद्यन्ते जाति-धर्माः कुल-धर्माश्च शाश्वताः ॥१-४३॥
उत्सन्-न-कुल-धर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्य-सुख-लोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥
यदि माम्-अप्रतीकारम्-अशस्त्रं शस्त्र-पाणयः ।
धार्तराष्ट्रा रणे हन्युस्-तन्मे क्षेमतरं भवेत् ॥१-४६॥
सञ्जय उवाच ।
एवम्-उक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥१-४७॥
ॐ तत्-सद्-इति श्रीमद्-भगवद्-गीतासूपनिषत्सु
ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
अर्जुन-विषाद-योगो नाम प्रथमो-ऽध्यायः ॥१॥