Chapter- 0
ॐ पार्थाय प्रति-बोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराण-मुनिना मध्ये महाभारतम् ।
अद्वैतामृत-वर्षिणीं भगवतीम्-अष्टादशाध्यायिनीं
अम्ब त्वाम्-अनुसन्दधामि भगवद्गीते भवेद्वेषिणीम् ॥१॥
नमो-ऽस्तु ते व्यास विशाल-बुद्धे फुल्लारविन्दाय-तपत्रनेत्र ।
येन त्वया भारत-तैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥२॥
प्रपन्न-पारिजाताय-तोत्रवेत्रैकपाणये ।
ज्ञान-मुद्राय कृष्णाय गीतामृतदुहे नमः ॥३॥
सर्वोपनिषदो गावो दोग्धा गोपाल नन्दनः ।
पार्थो वत्सः सुधीर्-भोक्ता दुग्धं गीतामृतं महत् ॥४॥
वसुदेव-सुतं देवं कंस-चाणूर-मर्दनम् ।
देवकी-परमानन्दं कृष्णं वन्दे जगद्-गुरुम् ॥५॥
भीष्म-द्रोण-तटा जयद्रथ-जला गान्धार-नीलोत्पला
शल्य-ग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थाम-विकर्ण-घोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवैरणनदी कैवर्तकः केशवः ॥६॥
पाराशर्य-वचः सरोजममलं गीतार्थ-गन्धोत्कटं
नानाख्यानक-केसरं हरिकथा-सम्बोधना-बोधितम् ।
लोके सज्जन-षट्-पदैरहरहः पेपीयमानं मुदा
भूयाद्-भारत-पङ्कजं कलिमल-प्रध्वंसि नः श्रेयसे ॥७॥
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्द-माधवम् ॥८॥
यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्ग-पद-क्रमोपनिषदैर्-गायन्ति यं सामगाः ।
ध्यानावस्थित-तद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥९॥